header_image
Home
Tamil

एकादशः स्कन्धः :: अथ पञ्चमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: एकादशः स्कन्धः
अथ पञ्चमोऽध्यायः
भक्तिहीनपुरुषाणां निष्ठायाः प्रतियुगं पूजाविधानस्य च भेदवर्णनम्
श्रीराजोवाच - भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः। तेषामशान्तकामानां का निष्ठाविजितात्मनाम्॥ १ श्रीचमस उवाच - मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह। चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक्॥ २ य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम्। न भजन्त्यवजानन्ति स्थानाद् भ्रष्टाः पतन्त्यधः॥ ३ दूरे हरिकथाः केचिद् दूरे चाच्युतकीर्तनाः। स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम्॥ ४ विप्रो राजन्यवैश्यौ च हरेः प्राप्ताः पदान्तिकम्। श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिनः॥ ५ कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः। वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः॥ ६ रजसा घोरसङ्कल्पाः कामुका अहिमन्यवः। दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान्॥ ७ वदन्ति तेऽन्योन्यमुपासितस्त्रियो गृहेषु मैथुन्यपरेषु चाशिषः। यजन्त्यसृष्टानविधानदक्षिणं वृत्त्यै परं घ्नन्ति पशूनतद्विदः॥ ८ श्रिया विभूत्याभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा। जातस्मयेनान्धधियः सहेश्वरान् सतोऽवमन्यन्ति हरिप्रियान् खलाः॥ ९ सर्वेषु शश्वत्तनुभृत्स्ववस्थितं यथा खमात्मानमभीष्टमीश्वरम्। वेदोपगीतं च न श्रृण्वतेऽबुधा मनोरथानां प्रवदन्ति वार्तया॥ १० लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्न हि तत्र चोदना। व्यवस्थितिस्तेषु विवाहयज्ञ- सुराग्रहैरासु निवृत्तिरिष्टा॥ ११ धनं च धर्मैकफलं यतो वै ज्ञानं सविज्ञानमनुप्रशान्ति। गृहेषु युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम्॥ १२ यद् घ्राणभक्षो विहितः सुराया- स्तथा पशोरालभनं न हिंसा। एवं व्यवायः प्रजया न रत्या इमं विशुद्धं न विदुः स्वधर्मम्॥ १३ ये त्वनेवंविदोऽसन्तः स्तब्धाः सदभिमानिनः। पशून् द्रुह्यन्ति विस्रब्धाःप्रेत्य खादन्ति ते च तान्॥१४ द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम्। मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः॥ १५ ये कैवल्यमसम्प्राप्ता ये चातीताश्च मूढताम्। त्रैवर्गिका ह्यक्षणिका आत्मानं घातयन्ति ते॥ १६ एत आत्महनोऽशान्ता अज्ञाने ज्ञानमानिनः। सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथाः॥ १७ हित्वात्यायासरचिता गृहापत्यसुहृच्छ्रियः। तमो विशन्त्यनिच्छन्तो वासुदेवपराङ्‌मुखाः॥ १८ श्री राजोवाच - कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः। नाम्ना वा केन विधिना पूज्यते तदिहोच्यताम्॥ १९ श्रीकरभाजन उवाच - कृतं त्रेता द्वापरं च कलिरित्येषु केशवः। नानावर्णाभिधाकारो नानैव विधिनेज्यते॥ २० कृते शुक्लश्चतुर्बाहुर्जटिलो वल्कलाम्बरः। कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्डकमण्डलू॥ २१ मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः। यजन्ति तपसा देवं शमेन च दमेन च॥ २२ हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः। ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते॥ २३ त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः। हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षणः॥ २४ तं तदा मनुजा देवं सर्वदेवमयं हरिम्। यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः॥ २५ विष्णुर्यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः। वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते॥ २६ द्वापरे भगवाञ्छ्यामः पीतवासा निजायुधः। श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः॥ २७ तं तदा पुरुषं मर्त्या महाराजोपलक्षणम्। यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप॥ २८ नमस्ते वासुदेवाय नमः सङ्कर्षणाय च। प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः॥ २९ नारायणाय ऋषये पुरुषाय महात्मने। विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः॥ ३० इति द्वापर उर्वीश स्तुवन्ति जगदीश्वरम्। नानातन्त्रविधानेन कलावपि यथा श्रृणु॥ ३१ कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम्। यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधसः॥ ३२ ध्येयं सदा परिभवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम्। भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं वन्दे महापुरुष ते चरणारविन्दम्॥ ३३ त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं धर्मिष्ठ आर्यवचसा यदगादरण्यम्। मायामृगं दयितयेप्सितमन्वधावद् वन्दे महापुरुष ते चरणारविन्दम्॥ ३४ एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः। मनुजैरिज्यते राजन् श्रेयसामीश्वरो हरिः॥ ३५ कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः। यत्र सङ्कीर्तनेनैव सर्वः स्वार्थोऽभिलभ्यते॥ ३६ न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह। यतो विन्देत परमां शान्तिं नश्यति संसृतिः॥ ३७ कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम्। कलौ खलु भविष्यन्ति नारायणपरायणाः॥ ३८ क्वचित् क्वचिन्महाराज द्रविडेषु च भूरिशः। ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी॥ ३९ कावेरी च महापुण्या प्रतीची च महानदी। ये पिबन्ति जलं तासां मनुजा मनुजेश्वर। प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः॥ ४० देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन्। सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम्॥ ४१ स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः। विकर्म यच्चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः॥ ४२ श्रीनारद उवाच - धर्मान् भागवतानित्थं श्रुत्वाथ मिथिलेश्वरः। जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्यपूजयत्॥ ४३ ततोऽन्तर्दधिरे सिद्धाः सर्वलोकस्य पश्यतः। राजा धर्मानुपातिष्ठन्नवाप परमां गतिम्॥ ४४ त्वमप्येतान् महाभाग धर्मान् भागवताञ्छ्रुतान्। आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम्॥४५ युवयोः खलु दम्पत्योर्यशसा पूरितं जगत्। पुत्रतामगमद् यद् वां भगवानीश्वरो हरिः॥ ४६ दर्शनालिङ्गनालापैः शयनासनभोजनैः। आत्मा वां पावितः कृष्णे पुत्रस्नेहं प्रकुर्वतोः॥ ४७ वैरेण यं नृपतयः शिशुपालपौण्ड्र- शाल्वादयो गतिविलासविलोकनाद्यैः। ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियां पुनः किम्॥ ४८ मापत्यबुद्धिमकृथाः कृष्णे सर्वात्मनीश्वरे। मायामनुष्यभावेन गूढैश्वर्ये परेऽव्यये॥ ४९ भूभारासुरराजन्यहन्तवे गुप्तये सताम्। अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते॥ ५० श्रीशुक उवाच - एतञ्छ्रुत्वा महाभागो वसुदेवोऽतिविस्मितः। देवकी च महाभागा जहतुर्मोहमात्मनः॥ ५१ इतिहासमिमं पुण्यं धारयेद् यः समाहितः। स विधूयेह शमलं ब्रह्मभूयाय कल्पते॥ ५२ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे पञ्चमोऽध्यायः॥ ५ ॥
Tamil