header_image
Home
Tamil

एकादशः स्कन्धः :: अथ त्रिंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: एकादशः स्कन्धः
अथ त्रिंशोऽध्यायः
यदुकुलसंहारवर्णनम्
श्रीराजोवाच ततो महाभागवत उद्धवे निर्गते वनम्। द्वारवत्यां किमकरोद् भगवान् भूतभावनः॥ १ ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः। प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत्॥ २ प्रत्याक्रष्टुं नयनमबला यत्र लग्नं न शेकुः कर्णाविष्टं न सरति ततो यत् सतामात्मलग्नम्। यच्छ्रीर्वाचां जनयति रतिं किं नु मानं कवीनां दृष्ट्वा जिष्णोर्युधि रथगतं यच्च तत्साम्यमीयुः॥ ३ श्री ऋषिरुवाच दिवि भुव्यन्तरिक्षे च महोत्पातान् समुत्थितान्। दृष्ट्वाऽऽसीनान् सुधर्मायां कृष्णः प्राह यदूनिदम्॥ ४ एते घोरा महोत्पाता द्वार्वत्यां यमकेतवः। मुहूर्तमपि न स्थेयमत्र नो यदुपुङ्गवाः॥ ५ स्त्रियो बालाश्च वृद्धाश्च शङ्खोद्धारं व्रजन्त्वितः। वयं प्रभासं यास्यामो यत्र प्रत्यक् सरस्वती॥ ६ तत्राभिषिच्य शुचय उपोष्य सुसमाहिताः। देवताः पूजयिष्यामः स्नपनालेपनार्हणैः॥ ७ ब्राह्मणांस्तु महाभागान् कृतस्वस्त्ययना वयम्। गोभूहिरण्यवासोभिर्गजाश्वरथवेश्मभिः॥ ८ विधिरेष ह्यरिष्टघ्नो मङ्गलायनमुत्तमम्। देवद्विजगवां पूजा भूतेषु परमो भवः॥ ९ इति सर्वे समाकर्ण्य यदुवृद्धा मधुद्विषः। तथेति नौभिरुत्तीर्य प्रभासं प्रययू रथैः॥ १० तस्मिन् भगवताऽऽदिष्टं यदुदेवेन यादवाः। चक्रुः परमया भक्त्या सर्वश्रेयोपबृंहितम्॥ ११ ततस्तस्मिन् महापानं पपुर्मैरेयकं मधु। दिष्टविभ्रंशितधियो यद्द्रवैर्भ्रश्यते मतिः॥ १२ महापानाभिमत्तानां वीराणां दृप्तचेतसाम्। कृष्णमायाविमूढानां सङ्घर्षः सुमहानभूत्॥ १३ युयुधुः क्रोधसंरब्धा वेलायामाततायिनः। धनुर्भिरसिभिर्भल्लैर्गदाभिस्तोमरर्ष्टिभिः॥ १४ पतत्पताकै रथकुञ्जरादिभिः खरोष्ट्रगोभिर्महिषैर्नरैरपि। मिथः समेत्याश्वतरैः सुदुर्मदा न्यहञ्छरैर्दद्भिरिव द्विपा वने॥ १५ प्रद्युम्नसाम्बौ युधि रूढमत्सरा- वक्रूरभोजावनिरुद्धसात्यकी। सुभद्रसङ्ग्रामजितौ सुदारुणौ गदौ सुमित्रासुरथौ समीयतुः॥ १६ अन्ये च ये वै निशठोल्मुकादयः सहस्रजिच्छतजिद्भानुमुख्याः। अन्योन्यमासाद्य मदान्धकारिता जघ्नुर्मुकुन्देन विमोहिता भृशम्॥ १७ दाशार्हवृष्ण्यन्धकभोजसात्वता मध्वर्बुदा माथुरशूरसेनाः। विसर्जनाः कुकुराः कुन्तयश्च मिथस्ततस्तेऽथ विसृज्य सौहृदम्॥ १८ पुत्रा अयुध्यन् पितृभिर्भ्रातृभिश्च स्वस्रीयदौहित्रपितृव्यमातुलैः। मित्राणि मित्रैः सुहृदः सुहृद्भि- र्ज्ञातींस्त्वहञ्ज्ञातय एव मूढाः॥ १९ शरेषु क्षीयमाणेषु भज्यमानेसु धन्वसु। शस्त्रेषु क्षीयमाणेषु मुष्टिभिर्जह्रुरेरकाः॥ २० ता वज्रकल्पा ह्यभवन् परिघा मुष्टिना भृताः। जघ्नुर्द्विषस्तैः कृष्णेन वार्यमाणास्तु तं च ते॥ २१ प्रत्यनीकं मन्यमाना बलभद्रं च मोहिताः। हन्तुं कृतधियो राजन्नापन्ना आततायिनः॥ २२ अथ तावपि सङ्क्रुद्धावुद्यम्य कुरुनन्दन। एरकामुष्टिपरिघौ चरन्तौ जघ्नतुर्युधि॥ २३ ब्रह्मशापोपसृष्टानां कृष्णमायावृतात्मनाम्। स्पर्धाक्रोधः क्षयं निन्ये वैणवोऽग्निर्यथा वनम्॥ २४ एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः। अवतारितो भुवो भार इति मेनेऽवशेषितः॥ २५ रामः समुद्रवेलायां योगमास्थाय पौरुषम्। तत्याज लोकं मानुष्यं संयोज्यात्मानमात्मनि॥ २६ रामनिर्याणमालोक्य भगवान् देवकीसुतः। निषसाद धरोपस्थे तुष्णीमासाद्य पिप्पलम्॥ २७ बिभ्रच्चतुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया। दिशो वितिमिराः कुर्वन् विधूम इव पावकः॥ २८ श्रीवत्साङ्कं घनश्यामं तप्तहाटकवर्चसम्। कौशेयाम्बरयुग्मेन परिवीतं सुमङ्गलम्॥ २९ सुन्दरस्मितवक्त्राब्जं नीलकुन्तलमण्डितम्। पुण्डरीकाभिरामाक्षं स्फुरन्मकरकुण्डलम्॥ ३० कटिसूत्रब्रह्मसूत्र किरीटकटकाङ्गदैः। हारनूपुरमुद्राभिः कौस्तुभेन विराजितम्॥ ३१ वनमालापरीताङ्गं मूर्तिमद्भिर्निजायुधैः। कृत्वोरौ दक्षिणे पादमासीनं पङ्कजारुणम्॥ ३२ मुसलावशेषायःखण्डकृतेषुर्लुब्धको जरा। मृगास्याकारं तच्चरणं विव्याध मृगशङ्कया॥ ३३ चतुर्भुजं तं पुरुषं दृष्ट्वा स कृतकिल्बिषः। भीतः पपात शिरसा पादयोरसुरद्विषः॥ ३४ अजानता कृतमिदं पापेन मधुसूदन। क्षन्तुमर्हसि पापस्य उत्तमश्लोक मेऽनघ॥ ३५ यस्यानुस्मरणं नृणामज्ञानध्वान्तनाशनम्। वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो॥ ३६ तन्माऽऽशु जहि वैकुण्ठ पाप्मानं मृगलुब्धकम्। यथा पुनरहं त्वेवं न कुर्यां सदतिक्रमम्॥ ३७ यस्यात्मयोगरचितं न विदुर्विरिञ्चो रुद्रादयोऽस्य तनयाः पतयो गिरां ये। त्वन्मायया पिहितदृष्टय एतदञ्जः किं तस्य ते वयमसद्गतयो गृणीमः॥ ३८ श्रीभगवानुवाच मा भैर्जरे त्वमुत्तिष्ठ काम एष कृतो हि मे। याहि त्वं मदनुज्ञातः स्वर्गं सुकृतिनां पदम्॥ ३९ इत्यादिष्टो भगवता कृष्णेनेच्छाशरीरिणा। त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ॥ ४० दारुकः कृष्णपदवीमन्विच्छन्नधिगम्य ताम्। वायुं तुलसिकामोदमाघ्रायाभिमुखं ययौ॥ ४१ तं तत्र तिग्मद्युभिरायुधैर्वृतं ह्यश्वत्थमूले कृतकेतनं पतिम्। स्नेहप्लुतात्मा निपपात पादयो रथादवप्लुत्य सबाष्पलोचनः॥ ४२ अपश्यतस्त्वच्चरणाम्बुजं प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा। दिशो न जाने न लभे च शान्तिं यथा निशायामुडुपे प्रणष्टे॥ ४३ इति ब्रुवति सूते वै रथो गरुडलाञ्छनः। खमुत्पपात राजेन्द्र साश्वध्वज उदीक्षतः॥ ४४ तमन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च। तेनातिविस्मितात्मानं सूतमाह जनार्दनः॥ ४५ गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः। सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्दशाम्॥ ४६ द्वारकायां च न स्थेयं भवद्भिश्च स्वबन्धुभिः। मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति॥ ४७ स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः। अर्जुनेनाविताः सर्व इन्द्रप्रस्थं गमिष्यथ॥ ४८ त्वं तु मद्धर्ममास्थाय ज्ञाननिष्ठ उपेक्षकः। मन्मायारचनामेतां विज्ञयोपशमं व्रज॥ ४९ इत्युक्तस्तं परिक्रम्य नमस्कृत्य पुनः पुनः। तत्पादौ शीर्ष्ण्युपाधाय दुर्मनाः प्रययौ पुरीम्॥ ५० इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् एकादशस्कन्धे त्रिंशोऽध्यायः॥ ३० ॥
Tamil