header_image
Home
Tamil

दशमः स्कन्धः[उत्तरार्धः] :: अथ एकोननवतितमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ एकोननवतितमोऽध्यायः
भृगुकर्तृकं त्रिदेवपरीक्षणं तत्र विष्णोः श्रैष्ठ्यं पार्थेन सह महाकालपुरं गत्वा भगवता ब्राह्मणस्य मृतपुत्राणामानयनं च
श्रीशुक उवाच। सरस्वत्यास्तटे राजन्नृषयः सत्रमासत। वितर्कः समभूत्तेषां त्रिष्वधीशेषु को महान्॥ 01 तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृप। तज्ज्ञप्त्यै प्रेषयामासुः सोऽभ्यगाद् ब्रह्मणः सभाम्॥ 02 न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्वपरीक्षया। तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा॥ 03 स आत्मन्युत्थितं मन्युमात्मजायात्मना प्रभुः। अशीशमद् यथा वह्निं स्वयोन्या वारिणात्मभूः॥ 04 ततः कैलासमगमत् स तं देवो महेश्वरः। परिरब्धुं समारेभ उत्थाय भ्रातरं मुदा॥ 05 नैच्छत्त्वमस्युत्पथग इति देवश्चुकोप ह। शूलमुद्यम्य तं हन्तुमारेभे तिग्मलोचनः॥ 06 पतित्वा पादयोर्देवी सान्त्वयामास तं गिरा। अथो जगाम वैकुण्ठं यत्र देवो जनार्दनः॥ 07 शयानं श्रिय उत्सङ्गे पदा वक्षस्यताडयत्। तत उत्थाय भगवान् सह लक्ष्म्या सतां गतिः॥ 08 स्वतल्पादवरुह्याथ ननाम शिरसा मुनिम्। आह ते स्वागतं ब्रह्मन् निषीदात्रासने क्षणम्। अजानतामागतान् वः क्षन्तुमर्हथ नः प्रभो॥ 09 अतीव कोमलौ तात चरणौ ते महामुने। इत्युक्त्वा विप्रचरणौ मर्दयन् स्वेन पाणिना॥ 10 पुनीहि सहलोकं मां लोकपालांश्च मद्गतान्। पादोदकेन भवतस्तीर्थानां तीर्थकारिणा॥ 11 अद्याहं भगवँल्लक्ष्म्या आसमेकान्तभाजनम्। वत्स्यत्युरसि मे भूतिर्भवत्पादहतांहसः॥ 12 श्रीशुक उवाच एवं ब्रुवाणे वैकुण्ठे भृगुस्तन्मन्द्रया गिरा। निर्वृतस्तर्पितस्तूष्णीं भक्त्युत्कण्ठोऽश्रुलोचनः॥ 13 पुनश्च सत्रमाव्रज्य मुनीनां ब्रह्मवादिनाम्। स्वानुभूतमशेषेण राजन् भृगुरवर्णयत्॥ 14 तन्निशम्याथ मुनयो विस्मिता मुक्तसंशयाः। भूयांसं श्रद्दधुर्विष्णुं यतः शान्तिर्यतोऽभयम्॥ 15 धर्मः साक्षाद् यतो ज्ञानं वैराग्यं च तदन्वितम्। ऐश्वर्यं चाष्टधा यस्माद् यशश्चात्ममलापहम्॥ 16 मुनीनां न्यस्तदण्डानां शान्तानां समचेतसाम्। अकिञ्चनानां साधूनां यमाहुः परमां गतिम्॥ 17 सत्त्वं यस्य प्रिया मूर्तिर्ब्राह्मणास्त्विष्टदेवताः। भजन्त्यनाशिषः शान्ता यं वा निपुणबुद्धयः॥ 18 त्रिविधाकृतयस्तस्य राक्षसा असुराः सुराः। गुणिन्या मायया सृष्टाः सत्त्वं तत्तीर्थसाधनम्॥ 19 श्रीशुक उवाच एवं सारस्वता विप्रा नृणां संशयनुत्तये॥ पुरुषस्य पदाम्भोज सेवया तद्गतिं गताः। 20 सूत उवाच इत्येतन्मुनितनयास्यपद्मगन्ध- पीयूषं भवभयभित् परस्य पुंसः। सुश्लोकं श्रवणपुटैः पिबत्यभीक्ष्णं पान्थोऽध्वभ्रमणपरिश्रमं जहाति। 21 श्रीशुक उवाच एकदा द्वारवत्यां तु विप्रपत्न्याः कुमारकः॥ जातमात्रो भुवं स्पृष्ट्वा ममार किल भारत। 22 विप्रो गृहीत्वा मृतकं राजद्वार्युपधाय सः॥ इदं प्रोवाच विलपन्नातुरो दीनमानसः। 23 ब्रह्मद्विषः शठधियो लुब्धस्य विषयात्मनः॥ क्षत्रबन्धोः कर्मदोषात् पञ्चत्वं मे गतोऽर्भकः। 24 हिंसाविहारं नृपतिं दुःशीलमजितेन्द्रियम्॥ प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्यदुःखिताः। 25 एवं द्वितीयं विप्रर्षिस्तृतीयं त्वेवमेव च। विसृज्य स नृपद्वारि तां गाथां समगायत॥ 26 तामर्जुन उपश्रुत्य कर्हिचित् केशवान्तिके। परेते नवमे बाले ब्राह्मणं समभाषत॥ 27 किंस्विद् ब्रह्मंस्त्वन्निवासे इह नास्ति धनुर्धरः। राजन्यबन्धुरेते वै ब्राह्मणाः सत्र आसते॥ 28 धनदारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणाः। ते वै राजन्यवेषेण नटा जीवन्त्यसुम्भराः॥ 29 अहं प्रजाः वां भगवन् रक्षिष्ये दीनयोरिह। अनिस्तीर्णप्रतिज्ञोऽग्निं प्रवेक्ष्ये हतकल्मषः॥ 30 ब्राह्मण उवाच सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः। अनिरुद्धोऽप्रतिरथो न त्रातुं शक्नुवन्ति यत्॥ 31 तत् कथं नु भवान् कर्म दुष्करं जगदीश्वरैः। चिकीर्षसि त्वं बालिश्यात् तन्न श्रद्दध्महे वयम्॥ 32 अर्जुन उवाच नाहं सङ्कर्षणो ब्रह्मन् न कृष्णः कार्ष्णिरेव च। अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनुः॥ 33 मावमंस्था मम ब्रह्मन् वीर्यं त्र्यम्बकतोषणम्। मृत्युं विजित्य प्रधने आनेष्ये ते प्रजां प्रभो॥ 34 एवं विश्रम्भितो विप्रः फाल्गुनेन परन्तप। जगाम स्वगृहं प्रीतः पार्थवीर्यं निशामयन्॥ 35 प्रसूतिकाल आसन्ने भार्याया द्विजसत्तमः। पाहि पाहि प्रजां मृत्योरित्याहार्जुनमातुरः॥ 36 स उपस्पृश्य शुच्यम्भो नमस्कृत्य महेश्वरम्। दिव्यान्यस्त्राणि संस्मृत्य सज्यं गाण्डीवमाददे॥ 37 न्यरुणत् सूतिकागारं शरैर्नानास्त्रयोजितैः। तिर्यगूर्ध्वमधः पार्थश्चकार शरपञ्जरम्॥ 38 ततः कुमारः सञ्जातो विप्रपत्न्या रुदन् मुहुः। सद्योऽदर्शनमापेदे सशरीरो विहायसा॥ 39 तदाऽऽह विप्रो विजयं विनिन्दन् कृष्णसन्निधौ। मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम्॥ 40 न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः। यस्य शेकुः परित्रातुं कोऽन्यस्तदवितेश्वरः॥ 41 धिगर्जुनं मृषावादं धिगात्मश्लाघिनो धनुः। दैवोपसृष्टं यो मौढ्यादानिनीषति दुर्मतिः॥ 42 एवं शपति विप्रर्षौ विद्यामास्थाय फाल्गुनः। ययौ संयमनीमाशु यत्रास्ते भगवान् यमः॥ 43 विप्रापत्यमचक्षाणस्तत ऐन्द्रीमगात् पुरीम्। आग्नेयीं नैरृतीं सौम्यां वायव्यां वारुणीमथ। रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुधः॥ 44 ततोऽलब्धद्विजसुतो ह्यनिस्तीर्णप्रतिश्रुतः। अग्निं विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता॥ 45 दर्शये द्विजसूनूंस्ते मावज्ञात्मानमात्मना। ये ते नः कीर्तिं विमलां मनुष्याः स्थापयिष्यन्ति॥ 46 इति सम्भाष्य भगवानर्जुनेन सहेश्वरः। दिव्यं स्वरथमास्थाय प्रतीचीं दिशमाविशत्॥ 47 सप्त द्वीपान् सप्त सिन्धून् सप्तसप्त गिरीनथ। लोकालोकं तथातीत्य विवेश सुमहत्तमः॥ 48 तत्राश्वाः शैब्यसुग्रीव मेघपुष्पबलाहकाः। तमसि भ्रष्टगतयो बभूवुर्भरतर्षभ॥ 49 तान् दृष्ट्वा भगवान् कृष्णो महायोगेश्वरेश्वरः। सहस्रादित्यसङ्काशं स्वचक्रं प्राहिणोत् पुरः॥ 50 तमः सुघोरं गहनं कृतं महद् विदारयद् भूरितरेण रोचिषा। मनोजवं निर्विविशे सुदर्शनं गुणच्युतो रामशरो यथा चमूः॥ 51 द्वारेण चक्रानुपथेन तत्तमः - परं परं ज्योतिरनन्तपारम्। समश्नुवानं प्रसमीक्ष्य फाल्गुनः प्रताडिताक्षोऽपिदधेऽक्षिणी उभे॥ 52 ततः प्रविष्टः सलिलं नभस्वता बलीयसैजद्बृहदूर्मिभूषणम्। तत्राद्भुतं वै भवनं द्युमत्तमं भ्राजन्मणिस्तम्भसहस्रशोभितम्॥ 53 तस्मिन् महाभीममनन्तमद्भुतं सहस्रमूर्धन्यफणामणिद्युभिः। विभ्राजमानं द्विगुणेल्बणेक्षणं सिताचलाभं शितिकण्ठजिह्वम्॥ 54 ददर्श तद्भोगसुखासनं विभुं महानुभावं पुरुषोत्तमोत्तमम्। सान्द्राम्बुदाभं सुपिशङ्गवाससं प्रसन्नवक्त्रं रुचिरायतेक्षणम्॥ 55 महामणिव्रातकिरीटकुण्डल - प्रभापरिक्षिप्तसहस्रकुन्तलम्। प्रलम्बचार्वष्टभुजं सकौस्तुभं श्रीवत्सलक्ष्मं वनमालया वृतम्॥ 56 सुनन्दनन्दप्रमुखैः स्वपार्षदै- श्चक्रादिभिर्मूर्तिधरैर्निजायुधैः। पुष्टय्या श्रिया कीर्त्यजयाखिलर्द्धिभि- र्निषेव्यमाणं परमेष्ठिनां पतिम्॥ 57 ववन्द आत्मानमनन्तमच्युतो जिष्णुश्च तद्दर्शनजातसाध्वसः। तावाह भूमा परमेष्ठिनां प्रभु- र्बद्धाञ्जली सस्मितमूर्जया गिरा॥ 58 द्विजात्मजा मे युवयोर्दिदृक्षुणा मयोपनीता भुवि धर्मगुप्तये। कलावतीर्णाववनेर्भरासुरान् हत्वेह भूयस्त्वरयेतमन्ति मे॥ 59 पूर्णकामावपि युवां नरनारायणावृषी। धर्ममाचरतां स्थित्यै ऋषभौ लोकसङ्ग्रहम्॥ 60 इत्यादिष्टौ भगवता तौ कृष्णौ परमेष्ठिना। ओमित्यानम्य भूमानमादाय द्विजदारकान्॥ 61 न्यवर्ततां स्वकं धाम सम्प्रहृष्टौ यथागतम्। विप्राय ददतुः पुत्रान् यथारूपं यथावयः॥ 62 निशाम्य वैष्णवं धाम पार्थः परमविस्मितः। यत्किञ्चित् पौरुषं पुंसां मेने कृष्णानुकम्पितम्॥ 63 इतीदृशान्यनेकानि वीर्याणीह प्रदर्शयन्। बुभुजे विषयान् ग्राम्यानीजे चात्युर्जितैर्मखैः॥ 64 प्रववर्षाखिलान् कामान् प्रजासु ब्राह्मणादिषु। यथाकालं यथैवेन्द्रो भगवाञ्छ्रैष्ठ्यमास्थितः॥ 65 हत्वा नृपानधर्मिष्ठान् घातयित्वार्जुनादिभिः। अञ्जसा वर्तयामास धर्मं धर्मसुतादिभिः॥ 66 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे द्विजकुमारानयनं नाम एकोननवतितमोऽध्यायः॥ 89
Tamil