header_image
Home
Tamil

दशमः स्कन्धः[उत्तरार्धः] :: अथ द्विसप्ततितमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ द्विसप्ततितमोऽध्यायः
राजसूयोपक्रमे पाण्डवानां दिग्विजयः, भीमेन जरासन्धवधश्च
श्रीशुक उवाच - एकदा तु सभामध्य आस्थितो मुनिभिर्वृतः। ब्राह्मणैः क्षत्रियैर्वैश्यैर्भ्रातृभिश्च युधिष्ठिरः॥ 1 आचार्यैः कुलवृद्धैश्च ज्ञातिसंबन्धिबान्धवैः। श्रृण्वतामेव चैतेषामाभाष्येदमुवाच ह॥ 2 युधिष्ठिर उवाच - क्रतुराजेन गोविन्द राजसूयेन पावनीः। यक्ष्ये विभूतीर्भवतस्तत् सम्पादय नः प्रभो॥ 3 त्वत्पादुके अविरतं परि ये चरन्ति ध्यायन्त्यभद्रनशने शुचयो गृणन्ति। विन्दन्ति ते कमलनाभ भवापवर्ग- माशासते यदि त आशिष ईश नान्ये॥ 4 तद् देवदेव भवतश्चरणारविन्द- सेवानुभावमिह पश्यतु लोक एषः। ये त्वां भजन्ति न भजन्त्युत वोभयेषां निष्ठां प्रदर्शय विभो कुरुसृञ्जयानाम्॥ 5 न ब्रह्मणः स्वपरभेदमतिस्तव स्यात् सर्वात्मनः समदृशः स्वसुखानुभूतेः। संसेवतां सुरतरोरिव ते प्रसादः सेवानुरूपमुदयो न विपर्ययोऽत्र॥ 6 श्रीभगवानुवाच - सम्यग् व्यवसितं राजन् भवता शत्रुकर्शन। कल्याणी येन ते कीर्तिर्लोकाननु भविष्यति॥ 7 ऋषीणां पितृदेवानां सुहृदामपि नः प्रभो। सर्वेषामपि भूतानामिप्सितः क्रतुराडयम्॥ 8 विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे। सम्भृत्य सर्वसम्भारानाहरस्व महाक्रतुम्॥ 9 एते ते भ्रातरो राजन् लोकपालांशसंभवाः। जितोऽस्म्यात्मवता तेऽहं दुर्जयो योऽकृतात्मभिः॥ 10 न कश्चिन्मत्परं लोके तेजसा यशसा श्रिया। विभूतिभिर्वाभिभवेद् देवोऽपि किमु पार्थिवः॥ 11 श्रीशुक उवाच - निशम्य भगवद्‌गीतं प्रीतः फुल्लमुखाम्बुजः। भ्रातॄन् दिग्विजयेऽयुङ्क्त विष्णुतेजोपबृंहितान्॥ 12 सहदेवं दक्षिणस्यामादिशत् सह सृञ्जयैः। दिशि प्रतीच्यां नकुलमुदीच्यां सव्यसाचिनम्। प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः॥ 13 ते विजित्य नृपान् वीरा आजह्रुर्दिग्भ्य ओजसा। अजातशत्रवे भूरि द्रविणं नृप यक्ष्यते॥ 14 श्रुत्वाजितं जरासन्धं नृपतेर्ध्यायतो हरिः। आहोपायं तमेवाद्य उद्धवो यमुवाच ह॥ 15 भीमसेनोऽर्जुनः कृष्णो ब्रह्मलिङ्‌गधरास्त्रयः। जग्मुर्गिरिव्रजं तात बृहद्रथसुतो यतः॥ 16 ते गत्वाऽऽतिथ्यवेलायां गृहेषु गृहमेधिनम्। ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्मलिङ्‌गिनः॥ 17 राजन् विद्ध्यतिथीन् प्राप्तानर्थिनो दूरमागतान्। तन्नः प्रयच्छ भद्रं ते यद्‌ वयं कामयामहे॥ 18 किं दुर्मर्षं तितिक्षूणां किमकार्यमसाधुभिः। किं न देयं वदान्यानां कः परः समदर्शिनाम्॥ 19 योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम्। नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः॥20 हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर्बलिः। व्याधः कपोतो बहवो ह्यध्रुवेण ध्रुवं गताः॥ 21 श्रीशुक उवाच - स्वरैराकृतिभिस्तांस्तु प्रकोष्ठैर्ज्याहतैरपि। राजन्यबन्धून् विज्ञाय दृष्टपूर्वानचिन्तयत्॥ 22 राजन्यबन्धवो ह्येते ब्रह्मलिङ्‌गानि बिभ्रति। ददामि भिक्षितं तेभ्य आत्मानमपि दुस्त्यजम्॥ 23 बलेर्नु श्रूयते कीर्तिर्वितता दिक्ष्वकल्मषा। ऐश्वर्याद्‌ भ्रंशितस्यापि विप्रव्याजेन विष्णुना॥ 24 श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विजरूपिणे। जानन्नपि महीं प्रादाद्‌ वार्यमाणोऽपि दैत्यराट्॥ 25 जीवता ब्राह्मणार्थाय को न्वर्थः क्षत्रबन्धुना। देहेन पतमानेन नेहता विपुलं यशः॥ 26 इत्युदारमतिः प्राह कृष्णार्जुनवृकोदरान्। हे विप्रा व्रियतां कामो ददाम्यात्मशिरोऽपि वः॥ 27 श्रीभगवानुवाच - युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे। युद्धार्थिनो वयं प्राप्ता राजन्या नान्नकाङ्‌क्षिणः॥ 28 असौ वृकोदरः पार्थस्तस्य भ्रातार्जुनो ह्ययम्। अनयोर्मातुलेयं मां कृष्णं जानीहि ते रिपुम्॥ 29 एवमावेदितो राजा जहासोच्चैः स्म मागधः। आह चामर्षितो मन्दा युद्धं तर्हि ददामि वः॥ 30 न त्वया भीरुणा योत्स्ये युधि विक्लवचेतसा। मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः॥ 31 अयं तु वयसा तुल्यो नातिसत्त्वो न मे समः। अर्जुनो न भवेद् योद्धा भीमस्तुल्यबलो मम॥ 32 इत्युक्त्वा भीमसेनाय प्रादाय महतीं गदाम्। द्वितीयां स्वयमादाय निर्जगाम पुराद् बहिः॥ 33 ततः समे खले वीरौ संयुक्तावितरेतरौ। जघ्नतुर्वज्रकल्पाभ्यां गदाभ्यां रणदुर्मदौ॥ 34 मण्डलानि विचित्राणि सव्यं दक्षिणमेव च। चरतोः शुशुभे युद्धं नटयोरिव रङ्‌गिणोः॥ 35 ततश्चटचटाशब्दो वज्रनिष्पेषसन्निभः। गदयोः क्षिप्तयो राजन् दन्तयोरिव दन्तिनोः॥ 36 ते वै गदे भुजजवेन निपात्यमाने अन्योन्यतोंऽसकटिपादकरोरुजत्रून्। चूर्णीबभूवतुरुपेत्य यथार्कशाखे संयुध्यतोर्द्विरदयोरिव दीप्तमन्व्योः॥ 37 इत्थं तयोः प्रहतयोर्गदयोर्नृवीरौ क्रुद्धौ स्वमुष्टिभिरयःस्परशैरपिष्टाम्। शब्दस्तयोः प्रहरतोरिभयोरिवासीन् निर्घातवज्रपरुषस्तलताडनोत्थः॥ 38 तयोरेवं प्रहरतोः समशिक्षाबलौजसोः। निर्विशेषमभूद् युद्धमक्षीणजवयोर्नृप॥ 39 एवं तयोर्महाराज युध्यतोः सप्तविंशतिः। दिनानि निरगंस्तत्र सुहृद्‌वन्निशि तिष्ठतोः॥ 40 एकदा मातुलेयं वै प्राह राजन् वृकोदरः। न शक्तोऽहं जरासन्धं निर्जेतुं युधि माधव॥ 41 शत्रोर्जन्ममृती विद्वान् जीवितं च जराकृतम्। पार्थमाप्याययन् स्वेन तेजसाचिन्तयद्धरिः॥ 42 सञ्चिन्त्यारिवधोपायं भीमस्यामोघदर्शनः। दर्शयामास विटपं पाटयन्निव संज्ञया॥ 43 तद् विज्ञाय महासत्त्वो भीमः प्रहरतां वरः। गृहीत्वा पादयोः शत्रुं पातयामास भूतले॥ 44 एकं पादं पदाऽऽक्रम्य दोर्भ्यामन्यं प्रगृह्य सः। गुदतः पाटयामास शाखमिव महागजः॥ 45 एकपादोरुवृषणकटिपृष्ठस्तनांसके। एकबाह्वक्षिभ्रूकर्णे शकले ददृशुः प्रजाः॥ 46 हाहाकारो महानासीन्निहते मगधेश्वरे। पूजयामासतुर्भीमं परिरभ्य जयाच्यतौ॥ 47 सहदेवं तत्तनयं भगवान् भूतभावनः। अभ्यषिञ्चदमेयात्मा मगधानां पतिं प्रभुः। मोचयामास राजन्यान् संरुद्धा मागधेन ये॥ 48 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे जरासन्धवधो नाम द्विसप्ततितमोऽध्यायः॥72
Tamil