header_image
Home
Tamil

दशमः स्कन्धः[उत्तरार्धः] :: अथ सप्ततितमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ सप्ततितमोऽध्यायः
श्रीकृष्णस्याह्निककृत्यवर्णनं युधिष्ठिरसन्देशमादाय नारदस्य, जरासन्धकारानिबद्धनृपाणां सन्देशमादाय दूतस्य चागमनम्
श्रीशुक उवाच - अथोषस्युपवृत्तायां कुक्कुटान् कूजतोऽशपन्। गृहीतकण्ठ्यः पतिभिर्माधव्यो विरहातुराः॥ 1 वयांस्यरूरुवन् कृष्णं बोधयन्तीव वन्दिनः। गायत्स्वलिष्वनिद्राणि मन्दारवनवायुभिः॥ 2 मुहूर्तं तं तु वैदर्भी नामृष्यदतिशोभनम्। परिरम्भणविश्लेषात् प्रियबाह्वन्तरं गता॥ 3 ब्राह्मे मुहूर्त उत्थाय वार्युपस्पृश्य माधवः। दध्यौ प्रसन्नकरण आत्मानं तमसः परम्॥ 4 एकं स्वयंज्योतिरनन्यमव्ययं स्वसंस्थया नित्यनिरस्तकल्मषम्। ब्रह्माख्यमस्योद्‌भवनाशहेतुभिः स्वशक्तिभिर्लक्षितभावनिर्वृतिम्॥ 5 अथाप्लुतोऽम्भस्यमले यथाविधि क्रियाकलापं परिधाय वाससी। चकार सन्ध्योपगमादि सत्तमो हुतानलो ब्रह्म जजाप वाग्यतः॥ 6 उपस्थायार्कमुद्यन्तं तर्पयित्वाऽऽत्मनः कलाः। देवानृषीन् पितॄन् वृद्धान् विप्रानभ्यर्च्य चात्मवान्॥ 7 धेनूनां रुक्मश्रृङ्गीणां साध्वीनां मौक्तिकस्रजाम्। पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम्॥ 8 ददौ रूप्यखुराग्राणां क्षौमाजिनतिलैः सह। अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने॥ 9 गोविप्रदेवतावृद्धगुरून् भूतानि सर्वशः। नमस्कृत्यात्मसंभूतीर्मङ्गलानि समस्पृशत्॥ 10 आत्मानं भूषयामास नरलोकविभूषणम्। वासोभिर्भूषणैः स्वीयैर्दिव्यस्रगनुलेपनैः॥ 11 अवेक्ष्याज्यं तथाऽऽदर्शं गोवृषद्विजदेवताः। कामांश्च सर्ववर्णानां पौरान्तःपुरचारिणाम्। प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत॥ 12 संविभज्याग्रतो विप्रान् स्रक्‌ताम्बूलानुलेपनैः। सुहृदः प्रकृतीर्दारानुपायुङ्क्त ततः स्वयम्॥ 13 तावत् सूत उपानीय स्यन्दनं परमाद्‌भुतम्। सुग्रीवाद्यैर्हयैर्युक्तं प्रणम्यावस्थितोऽग्रतः॥ 14 गृहीत्वा पाणिना पाणी सारथेस्तमथारुहत्। सात्यक्युद्धवसंयुक्तः पूर्वाद्रिमिव भास्करः॥ 15 ईक्षितोऽन्तःपुरस्त्रीणां सव्रीडप्रेमवीक्षितैः। कृच्छ्राद् विसृष्टो निरगात् जातहासो हरन् मनः॥ 16 सुधर्माख्यां सभां सर्वैर्वृष्णिभिः परिवारितः। प्राविशद् यन्निविष्टानां न सन्त्यङ्ग षडूर्मयः॥ 17 तत्रोपविष्टः परमासने विभुः बभौ स्वभासा ककुभोऽवभासयन्। वृतो नृसिंहैर्यदुभिर्यदूत्तमो यथोडुराजो दिवि तारकागणैः॥ 18 तत्रोपमंत्रिणो राजन् नानाहास्यरसैर्विभुम्। उपतस्थुर्नटाचार्या नर्तक्यस्ताण्डवैः पृथक्॥ 19 मृदङ्गवीणामुरजवेणुतालदरस्वनैः। ननृतुर्जगुस्तुष्टुवुश्च सूतमागधवन्दिनः॥ 20 तत्राहुर्ब्राह्मणाः केचिदासीना ब्रह्मवादिनः। पूर्वेषां पुण्ययशसां राज्ञां चाकथयन् कथाः॥ 21 तत्रैकः पुरुषो राजन्नागतोऽपूर्वदर्शनः। विज्ञापितो भगवते प्रतीहारैः प्रवेशितः॥ 22 स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः। राज्ञामावेदयद् दुःखं जरासन्धनिरोधजम्॥ 23 ये च दिग्विजये तस्य सन्नतिं न ययुर्नृपाः। प्रसह्य रुद्धास्तेनासन्नयुते द्वे गिरिव्रजे॥ 24 कृष्ण कृष्णाप्रमेयात्मन् प्रपन्नभयभञ्जन। वयं त्वां शरणं यामो भवभीताः पृथग्धियः॥ 25 लोको विकर्मनिरतः कुशले प्रमत्तः कर्मण्ययं त्वदुदिते भवदर्चने स्वे। यस्तावदस्य बलवानिह जीविताशां सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै॥ 26 लोके भवाञ्जगदिनः कलयावतीर्णः सद्रक्षणाय खलनिग्रहणाय चान्यः। कश्चित् त्वदीयमतियाति निदेशमीश किं वा जनः स्वकृतमृच्छति तन्न विद्मः॥ 27 स्वप्नायितं नृपसुखं परतंत्रमीश शश्वद्‌भयेन मृतकेन धुरं वहामः। हित्वा तदात्मनि सुखं त्वदनीहलभ्यं क्लिश्यामहेऽतिकृपणास्तव माययेह॥ 28 तन्नो भवान् प्रणतशोकहराङ्‌घ्रियुग्मो बद्धान् वियुङ्क्ष्व मगधाह्वयकर्मपाशात्। यो भूभुजोऽयुतमतङ्गजवीर्यमेको बिभ्रद् रुरोध भवने मृगराडिवावीः॥ 29 यो वै त्वया द्विनवकृत्व उदात्तचक्र भग्नो मृधे खलु भवन्तमनन्तवीर्यम्। जित्वा नृलोकनिरतं सकृदूढदर्पो युष्मत्प्रजा रुजति नोऽजित तद्विधेहि॥ 30 दूत उवाच - इति मागधसंरुद्धा भवद्दर्शनकाङ्‌क्षिणः। प्रपन्नाः पादमूलं ते दीनानां शं विधीयताम्॥ 31 श्रीशुक उवाच - राजदूते ब्रुवत्येवं देवर्षिः परमद्युतिः। बिभ्रत् पिङ्गजटाभारं प्रादुरासीद् यथा रविः॥ 32 तं दृष्ट्वा भगवान् कृष्णः सर्वलोकेश्वरेश्वरः। ववन्द उत्थितः शीर्ष्णा ससभ्यः सानुगो मुदा॥ 33 सभाजयित्वा विधिवत् कृतासनपरिग्रहम्। बभाषे सुनृतैर्वाक्यैः श्रद्धया तर्पयन् मुनिम्॥ 34 अपि स्विदद्य लोकानां त्रयाणामकुतोभयम्। ननु भूयान् भगवतो लोकान् पर्यटतो गुणः॥ 35 न हि तेऽविदितं किञ्चित् लोकेष्वीश्वरकर्तृषु। अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम्॥ 36 श्रीनारद उवाच - दृष्टा माया ते बहुशो दुरत्यया माया विभो विश्वसृजश्च मायिनः। भूतेषु भूमंश्चरतः स्वशक्तिभिः वह्नेरिवच्छन्नरुचो न मेऽद्‌भुतम्॥ 37 तवेहितं कोऽर्हति साधु वेदितुं स्वमाययेदं सृजतो नियच्छतः। यद् विद्यमानात्मतयावभासते तस्मै नमस्ते स्वविलक्षणात्मने॥ 38 जीवस्य यः संसरतो विमोक्षणं न जानतोऽनर्थवहाच्छरीरतः। लीलावतारैः स्वयशः प्रदीपकं प्राज्वालयत्त्वा तमहं प्रपद्ये॥ 39 अथाप्याश्रावये ब्रह्म नरलोकविडम्बनम्। राज्ञः पैतृष्वसेयस्य भक्तस्य च चिकीर्षितम्॥ 40 यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः। पारमेष्ठ्यकामो नृपतिस्तद् भवाननुमोदताम्॥ 41 तस्मिन् देव क्रतुवरे भवन्तं वै सुरादयः। दिदृक्षवः समेष्यन्ति राजानश्च यशस्विनः॥ 42 श्रवणात् कीर्तनाद् ध्यानात् पूयन्तेऽन्तेवसायिनः। तव ब्रह्ममयस्येश किमुतेक्षाभिमर्शिनः॥ 43 यस्यामलं दिवि यशः प्रथितं रसायां भूमौ च ते भुवनमङ्गल दिग्वितानम्। मन्दाकिनीति दिवि भोगवतीति चाधो गङ्गेति चेह चरणाम्बु पुनाति विश्वम्॥ 44 श्रीशुक उवाच - तत्र तेष्वात्मपक्षेष्व गृह्णत्सु विजिगीषया। वाचः पेशैः स्मयन् भृत्यमुद्धवं प्राह केशवः॥ 45 श्रीभगवानुवाच - त्वं हि नः परमं चक्षुः सुहृन्मन्त्रार्थतत्त्ववित्। तथात्र ब्रूह्यनुष्ठेयं श्रद्दध्मः करवाम तत्॥ 46 इत्युपामंत्रितो भर्त्रा सर्वज्ञेनापि मुग्धवत्। निदेशं शिरसाऽऽधाय उद्धवः प्रत्यभाषत॥ 47 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे भगवद्यानविचारे नाम सप्ततितमोऽध्यायः॥ 70
Tamil