header_image
Home
Tamil

दशमः स्कन्धः[उत्तरार्धः] :: अथ पञ्चाशत्तमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ पञ्चाशत्तमोऽध्यायः
रामकृष्णयोर्जरासन्धेन सह युद्धं द्वारकादुर्गनिर्माणं च
श्रीशुक उवाच अस्तिः प्राप्तिश्च कंसस्य महिष्यौ भरतर्षभ। मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर्गृहान्॥ १ पित्रे मगधराजाय जरासन्धाय दुःखिते। वेदयाञ्चक्रतुः सर्वमात्मवैधव्यकारणम्॥ २ स तदप्रियमाकर्ण्य शोकामर्षयुतो नृप। अयादवीं महीं कर्तुं चक्रे परममुद्यमम्॥ ३ अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृतः। यदुराजधानीं मथुरां न्यरुणत् सर्वतोदिशम्॥ ४ निरीक्ष्य तद्बलं कृष्ण उद्वेलमिव सागरम्। स्वपुरं तेन संरुद्धं स्वजनं च भयाकुलम्॥ ५ चिन्तयामास भगवान् हरिः कारणमानुषः। तद्देशकालानुगुणं स्वावतारप्रयोजनम्॥ ६ हनिष्यामि बलं ह्येतद् भुवि भारं समाहितम्। मागधेन समानीतं वश्यानां सर्वभूभुजाम्॥ ७ अक्षौहिणीभिः सङ्ख्यातं भटाश्वरथकुञ्जरैः। मागधस्तु न हन्तव्यो भूयः कर्ता बलोद्यमम्॥ ८ एतदर्थोऽवतारोऽयं भूभारहरणाय मे। संरक्षणाय साधूनां कृतोऽन्येषां वधाय च॥ ९ अन्योऽपि धर्मरक्षायै देहः संभ्रियते मया। विरामायाप्यधर्मस्य काले प्रभवतः क्वचित्॥ १० एवं ध्यायति गोविन्द आकाशात् सूर्यवर्चसौ। रथावुपस्थितौ सद्यः ससूतौ सपरिच्छदौ॥ ११ आयुधानि च दिव्यानि पुराणानि यदृच्छया। दृष्ट्वा तानि हृषीकेशः सङ्कर्षणमथाब्रवीत्॥ १२ पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो। एष ते रथ आयातो दयितान्यायुधानि च॥ १३ यानमास्थाय जह्येतद् व्यसनात् स्वान् समुद्धर। एतदर्थं हि नौ जन्म साधूनामीश शर्मकृत्॥ १४ त्रयोविंशत्यनीकाख्यं भूमेर्भारमपाकुरु। एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात्॥ १५ निर्जग्मतुः स्वायुधाढ्यौ बलेनाल्पीयसाऽऽवृतौ। शङ्खं दध्मौ विनिर्गत्य हरिर्दारुकसारथिः॥ १६ ततोऽभूत् परसैन्यानां हृदि वित्रासवेपथुः। तावाह मागधो वीक्ष्य हे कृष्ण पुरुषाधम॥ १७ न त्वया योद्धुमिच्छामि बालेनैकेन लज्जया। गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धुहन्॥ १८ तव राम यदि श्रद्धा युध्यस्व धैर्यमुद्वह। हित्वा वा मच्छरैश्छिन्नं देहं स्वर्याहि मां जहि॥ १९ श्रीभगवानुवाच न वै शूरा विकत्थन्ते दर्शयन्त्येव पौरुषम्। न गृह्णीमो वचो राजन्नातुरस्य मुमूर्षतः॥ २० श्रीशुक उवाच जरासुतस्तावभिसृत्य माधवौ महाबलौघेन बलीयसाऽऽवृणोत्। ससैन्ययानध्वजवाजिसारथी सूर्यानलौ वायुरिवाभ्ररेणुभिः॥ २१ सुपर्णतालध्वजचिह्नितौ रथा वलक्षयन्त्यो हरिरामयोर्मृधे। स्त्रियः पुराट्टालकहर्म्यगोपुरं समाश्रिताः सम्मुमुहुः शुचार्दिताः॥ २२ हरिः परानीकपयोमुचां मुहुः शिलीमुखात्युल्बणवर्षपीडितम्। स्वसैन्यमालोक्य सुरासुरार्चितं व्यस्फूर्जयच्छार्ङ्गशरासनोत्तमम्॥ २३ गृह्णन् निषङ्गादथ सन्दधच्छरान् विकृष्य मुञ्चन्शितबाणपूगान्। निघ्नन् रथान् कुञ्जरवाजिपत्तीन् निरन्तरं यद्वदलातचक्रम्॥ २४ निर्भिन्नकुम्भाः करिणो निपेतु- रनेकशोऽश्वाः शरवृक्णकन्धराः। रथा हताश्वध्वजसूतनायकाः पदायतश्छिन्नभुजोरुकन्धराः॥ २५ सञ्छिद्यमानद्विपदेभवाजिना- मङ्गप्रसूताः शतशोऽसृगापगाः। भुजाहयः पूरुषशीर्षकच्छपा हतद्विपद्वीपहय ग्रहाकुलाः॥ २६ करोरुमीना नरकेशशैवला धनुस्तरङ्गायुधगुल्मसङ्कुलाः। अच्छूरिकावर्तभयानका महा- मणिप्रवेकाभरणाश्मशर्कराः॥ २७ प्रवर्तिता भीरुभयावहा मृधे मनस्विनां हर्षकरीः परस्परम्। विनिघ्नतारीन् मुसलेन दुर्मदान् सङ्कर्षणेनापरिमेयतेजसा॥ २८ बलं तदङ्गार्णवदुर्गभैरवं दुरन्तपारं मगधेन्द्रपालितम्। क्षयं प्रणीतं वसुदेवपुत्रयो- र्विक्रीडितं तज्जगदीशयोः परम्॥ २९ स्थित्युद्भवान्तं भुवनत्रयस्य यः समीहितेऽनन्तगुणः स्वलीलया। न तस्य चित्रं परपक्षनिग्रह स्तथापि मर्त्यानुविधस्य वर्ण्यते॥ ३० जग्राह विरथं रामो जरासन्धं महाबलम्। हतानीकावशिष्टासुं सिंहः सिंहमिवौजसा॥ ३१ बध्यमानं हतारातिं पाशैर्वारुणमानुषैः। वारयामास गोविन्दस्तेन कार्यचिकीर्षया॥ ३२ सा मुक्तो लोकनाथाभ्यां व्रीडितो वीरसम्मतः। तपसे कृतसङ्कल्पो वारितः पथि राजभिः॥ ३३ वाक्यैः पवित्रार्थपदैर्नयनैः प्राकृतैरपि। स्वकर्मबन्धप्राप्तोऽयं यदुभिस्ते पराभवः॥ ३४ हतेषु सर्वानीकेषु नृपो बार्हद्रथस्तदा। उपेक्षितो भगवता मगधान् दुर्मना ययौ॥ ३५ मुकुन्दोऽप्यक्षतबलो निस्तीर्णारिबलार्णवः। विकीर्यमाणः कुसुमैस्त्रीदशैरनुमोदितः॥ ३६ माथुरैरुपसङ्गम्य विज्वरैर्मुदितात्मभिः। उपगीयमानविजयः सूतमागधवन्दिभिः॥ ३७ शङ्खदुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः। वीणावेणुमृदङ्गानि पुरं प्रविशति प्रभौ॥ ३८ सिक्तमार्गां हृष्टजनां पताकाभिरलङ्कृताम्। निर्घुष्टां ब्रह्मघोषेण कौतुकाबद्धतोरणाम्॥ ३९ निचीयमानो नारीभिर्माल्यदध्यक्षताङ्कुरैः। निरीक्ष्यमाणः सस्नेहं प्रीत्युत्कलितलोचनैः॥ ४० आयोधनगतं वित्तमनन्तं वीरभूषणम्। यदुराजाय तत् सर्वमाहृतं प्रादिशत्प्रभुः॥ ४१ एवं सप्तदशकृत्वस्तावत्यक्षौहिणीबलः। युयुधे मागधो राजा यदुभिः कृष्णपालितैः॥ ४२ अक्षिण्वंस्तद्बलं सर्वं वृष्णयः कृष्णतेजसा। हतेषु स्वेष्वनीकेषु त्यक्तोऽयादरिभिर्नृपः॥ ४३ अष्टादशम सङ्ग्रामे आगामिनि तदन्तरा। नारदप्रेषितो वीरो यवनः प्रत्यदृश्यत॥ ४४ रुरोध मथुरामेत्य तिसृभिर्म्लेच्छकोटिभिः। नृलोके चाप्रतिद्वन्द्वो वृष्णीन्श्रुत्वाऽऽत्मसम्मितान्॥ ४५ तं दृष्ट्वाचिन्तयत् कृष्णः सङ्कर्षणसहायवान्। अहो यदूनां वृजिनं प्राप्तं ह्युभयतो महत्॥ ४६ यवनोऽयं निरुन्धेऽस्मानद्य तावन्महाबलः। मागधोऽप्यद्य वा श्वो वा परश्वो वाऽऽगमिष्यति॥ ४७ आवयोर्युध्यतोरस्य यद्यागन्ता जरासुतः। बन्धून् वधिष्यत्यथ वा नेष्यते स्वपुरं बली॥ ४८ तस्मादद्य विधास्यामो दुर्गं द्विपददुर्गमम्। तत्र ज्ञातीन् समाधाय यवनं घातयामहे॥ ४९ इति सम्मन्त्र्य भगवान् दुर्गं द्वादशयोजनम्। अन्तःसमुद्रे नगरं कृत्स्नाद्भुतमचीकरत्॥ ५० दृश्यते यत्र हि त्वाष्ट्रं विज्ञानं शिल्पनैपुणम्। रथ्याचत्वरवीथीभिर्यथावास्तु विनिर्मितम्॥ ५१ सुरद्रुमलतोद्यान विचित्रोपवनान्वितम्। हेमशृङ्गैर्दिविस्पृग्भिः स्फटिकाट्टालगोपुरैः॥ ५२ राजतारकुटैः कोष्ठैर्हेमकुम्भैरलङ्कृतैः। रत्नकूटैर्गृहैर्हेमैर्महामरकतस्थलैः॥ ५३ वास्तोष्पतीनां च गृहैर्वल्लभीभिश्च निर्मितम्। चातुर्वर्ण्यजनाकीर्णं यदुदेवगृहोल्लसत्॥ ५४ सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद्धरेः। यत्र चावस्थितो मर्त्यो मर्त्यधर्मैर्न युज्यते॥ ५५ श्यामैककर्णान् वरुणो हयान्शुक्लान् मनोजवान्। अष्टौ निधिपतिः कोशान् लोकपालो निजोदयान्॥ ५६ यद् यद् भगवता दत्तमाधिपत्यं स्वसिद्धये। सर्वं प्रत्यर्पयामासुर्हरौ भूमिगते नृप॥ ५७ तत्र योगप्रभावेण नीत्वा सर्वजनं हरिः। प्रजापालेन रामेण कृष्णः समनुमन्त्रितः। निर्जगाम पुरद्वारात् पद्ममाली निरायुधः॥ ५८ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे दुर्गनिवेशनं नाम पञ्चाशत्तमोऽध्यायः॥ ५० ॥
Tamil