अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः। अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम्॥ १॥ अब्रवीच्च वरारोहां चन्द्रचारुनिभाननाम्। विदेहराजस्य सुतां रामो राजीवलोचनः॥ २॥ विचित्रपुलिनां रम्यां हंससारससेविताम्। कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम्॥ ३॥ नानाविधैस्तीररुहै र्वृतां पुष्पफलद्रुमैः। राजन्तीं राजराजस्य नलिनीमिव सर्वतः॥ ४॥ मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम्। तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे॥ ५॥ जटाजिनधराः काले वल्कलोत्तरवाससः। ऋषय स्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये॥ ६॥ आदित्यमुपतिष्ठन्ते नियमादूर्ध्वबाहवः। एते परे विशालाक्षि मुनयः संशितव्रताः॥ ७॥ मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः। पादपैः पत्रपुष्पाणि सृजद्भिरभितो नदीम्॥ ८॥ क्वचिन्मणिनिकाशोदां क्वचित् पुलिनशालिनीम्। क्वचित् सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम्॥ ९॥ निर्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान्। पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान्॥ १०॥ पश्यैतान् वल्गुवचसो रथाङ्गाह्वयना द्विजाः। अधिरोहन्ति कल्याणि निष्कूजन्तः शुभा गिरः॥ ११॥ दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने। अधिकं पुरवासाच्च मन्ये तव च दर्शनात्॥ १2॥ विधूतकलुषैः सिद्धैस्तपोदमशमान्वितैः। नित्यविक्षोभितजलां विगाहस्व मया सह॥ १३॥ सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम्। कमलान्यवमज्जन्ती पुष्कराणि च भामिनि॥ १४॥ त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम्। मन्यस्व वनिते नित्यं सरयूवदिमां नदीम्॥ १५॥ लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः। त्वं चानुकूला वैदेहि प्रीतिं जनयतो मम॥ १६॥ उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः। नायोध्यायैन राज्याय स्पृहयेऽद्य त्वया सह॥ १७॥ इमां हि रम्यां गजयूथशालितां निपीततोयां गजसिंहवानरैः। सुपुष्पितैः पुष्पधरैरलङ्कृतां न सोऽस्ति यः स्यादगक्लमः सुखी॥ १८॥ इतीव रामो बहुसङ्गतं वचः प्रियासहायः सरितं प्रति ब्रुवन्। चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्धनः॥ १९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे मन्दाकिनीवर्णना नाम पञ्चनवतितमः सर्गः॥२-९५॥