दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रियः। वैदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं विलोभयन्॥ १॥ अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत्। भार्याममरसङ्काशः शचीमिव पुरन्दरः॥ २॥ न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः। मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम्॥ ३॥ पश्येममचलं भद्रे नानाद्विजगणायुतम्। शिखरैः खमिवोद्विद्धैर्धातुमद्भिर्विभूषितम्॥ ४॥ केचिद्रजतसङ्काशाः केचित् क्षतजसंनिभाः। पीतमाञ्जिष्टवर्णाश्च केचिन्मणिवरप्रभाः॥ ५॥ पुष्यार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभाः। विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः॥ ६॥ नानामृगगणैर्द्वीपितरर्क्ष्वृक्षगणैर्वुतः। अदुष्टैर्भात्ययं शैलो बहुपक्षिसमाकुलः॥ ७॥ आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः। अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुक वेणुभिः॥ ८॥ काश्मर्यरिष्टवरणैर्मधूकैस्तिलकैस्तथा। बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः॥ ९॥ पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः। एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः॥ १०॥ शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान्। किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विनः॥ ११॥ शाखावसक्तान् खड्गांश्च प्रवराण्यम्बराणि च। पश्य विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान्॥ १२॥ जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित्। स्रवद्भिर्भात्ययं शैलः स्त्रवन्मद इव द्विपः॥ १३॥ गुहासमीरणो गन्धान्नानापुष्पभवान् वहन्। घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत्॥ १४॥ यदीह शरदोऽनेकास्त्वया सार्धमनिन्दिते। लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति॥ १५॥ बहुपुष्पफले रम्ये नानाद्विजगणायुते। विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि॥ १६॥ अनेन वनवासेन मया प्राप्तं फलद्वयम्। पितुश्चानृणता धर्मे भरतस्य प्रियं तथा॥ १७॥ वैदेहि रमसे कच्चिच्चित्रकूटे मया सह। पश्यन्ती विविधान् भावान् मनोवाक्कायसम्यतान्॥ १८॥ इदमेवामृतं प्राहू राज्ञि राजर्षयः परे। वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः॥ १९॥ शिलाः शैलस्य शोभन्ते विशाला शतशोऽभितः। बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः॥ २०॥ निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव। ओषध्यः स्वप्रभालक्ष्म्या भ्राजमानाः सहस्रशः॥ २१॥ केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः। केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि॥ २२॥ भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः। चित्रकूटस्य कूटोऽयं दृश्यते सर्वतः शुभः॥ २३॥ कुष्ठस्थगरपुन्नाग भूर्जपत्रोत्तरच्छदान्। कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान्॥ २४॥ मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः। कामिभिर्वनिते पश्य फलानि विविधानि च॥ २५॥ वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून्। पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः॥ २६॥ इमं तु कालं वनिते विजह्रिवां- स्त्वया च सीते सह लक्ष्मणेन च। रतिं प्रपत्स्ये कुलधर्मवर्धनीं सतां पथि स्वैर्नियमैः परैः स्थितः॥ २७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे चित्रकूटवर्णना नाम चतुर्नवतितमः सर्गः॥२-९४॥