एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना। दीर्घमुष्णं विनिश्वस्य मन्थरामिदमब्रवीत्॥ १॥ अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्। यौवराज्येन भरतं क्षिप्रमेवाभिषेचये॥ २॥ इदं त्विदानीं सम्पश्य केनोपायेन मन्थरे। भरतः प्राप्नुयाद् राज्यं न तु रामः कथञ्चन॥ ३॥ एवमुक्ता तता देव्या मन्थरा पापदर्शिनी। रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्॥ ४॥ हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे। यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम्॥ ५॥ किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे। यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि॥ ६॥ मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि। श्रूयतामभिधास्यामि श्रुत्वा चापि विमृश्यताम्॥ ७॥ श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी। किञ्चिदुत्थाय शयनात् स्वास्तीर्णादिदमब्रवीत्॥ ८॥ कथय त्वं ममोपायं केनोपायेन मन्थरे। भरतः प्राप्नुयाद् राज्यं न तु रामः कथञ्चन॥ ९॥ एवमुक्ता तु कैकेय्या मन्थरा पापदर्शिनी। रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत्॥ १०॥ पुरा देवासुरे युद्धे सह राजर्षिभिः पतिः। अगच्छत् त्वामुपादाय देवराजस्य साह्यकृत्॥ ११॥ दिशमास्थाय वै देवि दक्षिणां दण्डकान् प्रति। वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः॥ १२॥ स शम्बर इति ख्यातः शतमायो महासुरः। ददौ शक्रस्य संग्रामं देवसङ्घैरनिर्जितः॥ १३॥ तस्मिन् महति संग्रामे पुरुषान् क्षतविक्षतान्। रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसासाद्य राक्षसाः॥ १४॥ तत्राकरोन्महायुद्धं राजा दशरथस्तदा। असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः॥ १५॥ अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः। तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया॥ १६॥ तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने। स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ॥ १७॥ गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना। अनभिज्ञा ह्यहं देवि त्वयैव कथिता पुरा॥ १८॥ कथैषा तव तु स्नेहान्मनसा धार्यते मया। रामाभिषेकसम्भारान्निगृह्य विनिवर्तय॥ १९॥ तौ च याचस्व भर्तारं भरतस्याभिषेचनम्। प्रव्राजनं च रामस्य त्वं वर्षाणि चतुर्दश॥ २०॥ चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्। प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति॥ २१॥ क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते। शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी॥ २२॥ मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः। रुदन्ती पार्थिवं दृष्ट्वा जगत्यां शोकलालसा॥ २३॥ दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः। त्वत्कृते च महाराजो विशेदपि हुताशनम्॥ २४॥ न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम्। तव प्रियार्थं राजा हि प्राणानपि परित्यजेत्॥ २५॥ न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः। मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः॥ २६॥ मणिमुक्तासुवर्णानि रत्नानि विविधानि च। दद्याद् दशरथो राजा मा स्म तेषु मनः कृथाः॥ २७॥ यौ तौ देवासुरे युद्धे वरौ दशरथो ददौ। तौ स्मारय महाभागे सोऽर्थो मा त्वातिक्रमेत्॥ २८॥ यदा तु ते वरं दद्यात् स्वयमुत्थाप्य राघवः। व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्॥ २९॥ रामं प्रव्रजयारण्ये नव वर्षाणि पञ्च च। भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभ॥ ३०॥ चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्। रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः॥ ३१॥ रामप्रव्राजनं चैव देवि याचस्व तं वरम्। एवं सेध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि॥ ३२॥ एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति। भरतश्च हतामित्रस्तव राजा भविष्यति॥ ३३॥ येन कालेन रामश्च वनात् प्रत्यागमिष्यति। तेन कालेन पुत्रस्ते कृतमूलो भविष्यति॥ ३४॥ संगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान्। प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा॥ ३५॥ रामाभिषेकसंभारान्निगृह्य विनिवर्तय। अनर्थमर्थरूपेण ग्राहिता सा ततस्तया॥ ३६॥ हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्। सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता॥ ३७॥ कैकेयी विस्मयं प्राप्य परं परमदर्शना। कुब्जे त्वां नावजानामि श्रेष्ठां श्रेष्ठाभिधायिनि॥ ३८॥ पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये। त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी॥ ३९॥ नाहं समवबुद्ध्येयं कुब्जे राज्ञश्चिकीर्षितम्। सन्ति दुःसंस्थिताः कुब्जाः वक्राः परमदारुणाः॥ ४०॥ त्वं पद्ममिव वातेन संनता प्रियदर्शना। उरस्तेऽभिनिविष्टं वै यावत् स्कन्धं समुन्नतम्॥ ४१॥ अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम्। प्ररिपूर्णं तु जघनं सुपीनौ च पयोधरौ॥ ४२॥ विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे। जघनं तव निर्मृष्टं रशनादामशोभितम्॥ ४३॥ जङ्घे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ। त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी॥ ४४॥ अग्रतो मम गच्छन्ती राजःअंसीव राजसे। आसन् याः शम्बरे मायाः सहस्रमसुराधिपे॥ ४५॥ सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः। तवेदं स्थगु यद्दीर्घं रथघोणम् इवायतम्॥ ४६॥ मतयः क्षत्त्रविद्याश्च मायाश्चात्र वसन्ति ते। अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम्॥ ४७॥ अभिषिक्ते च भरते राघवे च वनं गते। जात्येन च सुवर्णेन सुनिष्टप्तेन मन्थरे॥ ४८॥ लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु। मुखे च तिलकं चित्रं जातरूपमयं शुभम्॥ ४९॥ कारयिष्यामि ते कुब्जे शुभान्याभरणानि च। परिधाय शुभे वस्त्रे देवतेव चरिष्यसि॥ ५०॥ चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना। गमिष्यसि गतिं मुख्यां गर्हयन्ती द्विषज्जनम्॥ ५१॥ तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः। पादौ परिचरिष्यन्ति यथैव त्वं सदा मम॥ ५२॥ इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत्। शयानां शयने शुभ्रे वेद्यामग्निशिखामिव॥ ५३॥ गतोदके सेतुबन्धो न कल्याणि विधीयते। उत्तिष्ठ कुरु कल्याणि राजानमनुदर्शय॥ ५४॥ तथा प्रोत्साहिता देवी गत्वा मन्थरया सह। क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता॥५५॥ अनेकशतसाहस्रं मुक्ताहारं वराङ्गना। अवमुच्य वरार्हाणि शुभान्याभरणानि च॥५६॥ ततो हेमोपमा तत्र कुब्जावाक्यवशं गता। संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्॥ ५७॥ इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि। वनं तु राघवे प्राप्ते भरतः प्राप्स्यते क्षितिम्॥ ५८॥ न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भोजनैः। एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते॥ ५९॥ अथो पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः। उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम्॥ ६०॥ प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं संसुता च तप्स्यसे। अतो हि कल्याणि यतस्व तत् तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते॥ ६१॥ तथातिविद्धा महिषी तु कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः। विधाय हस्तौ हृदयेऽतिविस्मिता शशंस कुब्जां कुपिता पुनः पुनः॥ ६२॥ यमस्य वा मां विषयं गतामितो निशम्य कुब्जे प्रतिवेदयिष्यसि। वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति॥ ६३॥ अहं हि नैवास्तरणानि न स्रजो न चन्दनं नाञ्जनपानभोजनम्। न किञ्चिदिच्छामि न चेह जीवनं न चेदितो गच्छति राघवो वनम्॥ ६४॥ अथैतदुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी। असंवृतामास्तरणेन मेदिनीं तदाधिशिश्ये पतितेव किन्नरी॥ ६५॥ उदीर्णसंरम्भतमोवृतानना तथावमुक्तोत्तममाल्यभूषणा। नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौरिव मग्नतारका॥ ६६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे रामप्रवासनोपायचिन्ता नाम नवमः सर्गः ॥२-९॥