मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं हि तत्। उवाचेदं ततो वाक्यं कोपदुःखसमन्विता॥ १॥ हर्षं किमिदमस्थाने कृतवत्यसि बालिशे। शोकसागरमध्यस्थमात्मानं नावबुध्यसे॥ २॥ मनसा प्रसहामि त्वां देवि दुःखार्दिता सती। यच्छोचितव्ये हृष्टासि प्राप्येदं व्यसनं महत्॥ ३॥ शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत्। अरेः सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम्॥ ४॥ भरतादेव रामस्य राज्यसाधारणाद् भयम्। तद् विचिन्त्य विषण्णास्मि भयं भीताद्धि जायते॥ ५॥ लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः। शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा॥ ६॥ प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि। राज्यक्रमो विप्रकृष्टस्तयोस्तावद्यवीयसोः॥ ७॥ विदुषः क्षत्त्रचारित्रे प्राज्ञस्य प्राप्तकारिणः। भयात् प्रवेपे रामस्य चिन्तयन्ती तवात्मजम्॥ ८॥ सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते। यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः॥ ९॥ प्राप्तां वसुमतीं प्रीतिं प्रतीतां हतविद्विषम्। उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः॥ १०॥ एवं च त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि। पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्यति॥ ११॥ हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः। अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये॥ १२॥ तां दृष्ट्वा परमप्रीता ब्रुवन्तीं मन्थरां ततः। रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह॥ १३॥ धमर्ज्ञो गुरुभिर्दान्तः कृतज्ञस्सत्यवाक् शुचिः। रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति॥ १४॥ भ्रातॄन् भृत्यांश्च दीर्घायुः पितृवत् पालयिष्यति। संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम्॥ १५॥ भरतश्चापि रामस्य ध्रुवं वर्षशतात् परम्। पितृपैतामहं राज्यं प्राप्नुयात् पुरुषर्षभः॥ १६॥ सा त्वमभ्युदये प्राप्ते दह्यमानेव मन्थरे। भविष्यति च कल्याणे किमर्थं परितप्यसे॥ १७॥ यथा मे भरतो मान्यस्तथा भूयोऽपि राघवः। कौसल्यातोऽतिरिक्तं च स तु शुश्रूषते हि माम्॥ १८॥ राज्यं च यदि रामस्य भरतस्यापि तत् तदा। मन्यते हि यथात्मानं यथा भ्रातॄंस्तु राघवः॥ १९॥ कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता। दीर्घमुष्णं विनिश्वस्य कैकेयीमिदमब्रवीत्॥ २०॥ अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे। शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे॥ २१॥ भविता राघवो राजा राघवस्य च यः सुतः। राजवंशात्तु भरतः कैकेयि परिहास्यते॥ २२॥ न हि राज्ञः सुताः सर्वें राज्ये तिष्ठन्ति भामिनि। स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत्॥ २३॥ तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः। स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेषु च॥ २४॥ असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति। अनाथवत् सुखेभ्यश्च राजवंशाच्च हास्यते॥ २५॥ साहं त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुध्यसे। सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि॥ २६॥ ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम्। देशान्तरं नाययिता लोकान्तरमथापि वा॥ २७॥ बाल एव हि मातुल्यं भरतो नायितस्त्वया। संनिकर्षाच्च सौहार्दं जायते स्थावरेष्वपि॥ २८॥ भरतस्याप्यनुवशः शत्रुघ्नोऽपि समं गतः। लक्ष्मणो हि यथा रामं तथासौ भरतं गतः॥ २९॥ श्रूयते च द्रुमः कश्चिच्छेत्तव्यो वनजीविभिः। संनिकर्षादिषीकाभिर्मोचितः परमाद् भयात्॥ ३०॥ गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः। अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम्॥ ३१॥ तस्मान्न लक्ष्मणे रामः पापं किञ्चित् करिष्यति। रामस्तु भरते पापं कुर्यादेव न संशयः॥ ३२॥ तस्माद् राजगृहाद्देवि वनं गच्छतु सुतः। एतद्धि रोचते मह्यं भृशं चापि हितं तव॥ ३३॥ एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति। यदि चेद् भरतो धर्मात् पित्र्यं राज्यमवाप्स्यति॥ ३४॥ स ते सुखोचितो बालो रामस्य सहजो रिपुः। समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे॥ ३५॥ अभिद्रुतमिवारण्ये सिंहेन गजयूथपम्। प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि॥ ३६॥ दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया। राममाता सपत्नी ते कथं वैरं न यापयेत्॥ ३७॥ यदा च रामः पृथिवीमवाप्स्यति प्रभूतरत्नाकरशैलपत्तनम्। तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि॥ ३८॥ यदा हि रामः पृथिवीमवाप्स्यते ध्रुवं प्रनष्टो भरतो भविष्यति। अतो हि संचिन्तय राज्यमात्मजे परस्य चैवाद्य विवासकारणम्॥ ३९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे मनथरोपजापो नाम अष्टमः सर्गः ॥२-८॥