home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

अष्टाशीतितमः सर्गः ॥२-८८॥

॥शय्यानुवीक्षणम्॥

[ श्रीरामस्य कुशशय्यां दृष्ट्वा भरतस्य शोकपूर्ण- उद्गारस्तेन स्वयमपि वल्कलजटाधारणपूर्वकं वने निवासाय विचारस्य प्रकटनम् ]

तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः। इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम्॥ १॥ अब्रवीज्जननीः सर्वा इह तेन महात्मना। शर्वरी शयिता भूमाविदमस्य विमर्दितम्॥ २॥ महाभागकुलीनेन महाभागेन धीमता। जातो दशरथेनोर्व्यां न रामः स्वप्तुमर्हति॥ ३॥ अजिनोत्तरसंस्तीर्णे वरास्तरणसंवृते। शयित्वा पुरुषव्याघ्रः कथं शेते महीतले॥ ४॥ प्रासादाग्रविमानेषु वलभीषु च सर्वदा। हैमराजतभौमेषु वरास्तरणशालिषु॥ ५॥ पुष्पसञ्चयचित्रेषु चन्दनागरुगन्धिषु। पाण्डराभ्रप्रकाशेषु शुकसङ्घरूतेषु च॥ ६॥ प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु। उषित्वा मेरुकल्पेषु कृतकाञ्चनभित्तिषु॥ ७॥ गीतवादित्रनिर्घोषैर्वराभरणनिः स्वनैः। मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः॥ ८॥ वन्दिभिर्वन्दितः काले बहुभिः सूतमागधैः। गाथाभिरनुरूपाभि स्स्तुतिभिश्च परन्तपः॥ ९॥ अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति माम्। मुह्यते खलु मे भावः स्वप्नोऽयमिति मे मतिः॥ १०॥ न नूनं दैवतं किञ्चित् कालेन बलवत्तरम्। यत्र दाशरथी रामो भूमावेवमशेत सः॥ ११॥ विदेहराजस्य सुता सीता च प्रियदर्शना। दयिता शयिता भूमौ स्नुषा दशरथस्य च॥ १२॥ इयं शय्या मम भ्रातुरिदं हि परिवर्तितम्। स्थण्डिले कठिने सर्वं गात्रैर्विमृदितं तृणम्॥ १३॥ मन्ये साभरणा सुप्ता सीताऽस्मिञ्शयने शुभा। तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः॥ १४॥ उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदा। तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः॥ १५॥ मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी। सुकुमारी सती दुःखं न विजानाति मैथिली॥ १६॥ हा हतोऽस्मि नृशंसोऽहं यत् सभार्यः कृते मम। ईदृशीं राघवः शय्यामधिशेते ह्यनाथवत्॥ १७॥ सार्वभौमकुले जातः सर्वलोकसुखावहः। सर्वलोकप्रियस्त्यक्त्वा राज्यं सुखमनुत्तम्॥ १८॥ कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः। सुखभागी न दुःखार्हः शयितो भुवि राघवः॥ १९॥ धन्यः खलु महाभागो लक्ष्मणः शुभलक्षणः। भ्रातरं विषमे काले यो राममनुवर्तते॥ २०॥ सिद्धार्था खलु वैदेही पतिं यानुगता वनम्। वयं संशयिताः सर्वे हीनास्तेन महात्मना॥ २१॥ आकर्णधारा पृथिवी शून्येव प्रतिभाति मे। गते दशरथे स्वर्गं रामे चारण्यमाश्रिते॥ २२॥ न च प्रार्थयते कश्चिन्मनसापि वसुन्धराम्। वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम्॥ २३॥ शून्यसंवरणारक्षामयन्त्रितहयद्विपाम्। अपावृतपुरद्वारां राजधानीमरक्षिताम्॥ २४॥ अप्रहृष्टबलां न्यूनां विषमस्थामनावृताम्। शत्रवो नाभिमन्यन्ते भक्ष्यान् विषकृतानिव॥ २५॥ अद्यप्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा। फलमूलाशनो नित्यं जटाचीराणि धारयन्॥ २६॥ तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने। तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति॥ २७॥ वसन्तं भ्रातुरर्थाय शत्रुघ्नो मानुवत्स्यति। लक्ष्मणेन सह त्वार्यो ह्ययोध्यां पालयिष्यति॥ २८॥ अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः। अपि मे देवताः कुर्युरिमं सत्यं मनोरथम्॥ २९॥ प्रसाद्यमानः शिरसा मया स्वयं बहुप्रकारं यदि नाभिपत्स्यते। ततोऽनुवत्स्यामि चिराय राघवं वनेचरं नार्हति मामुपेक्षितुम्॥ ३०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे शय्यानुवीक्षणं नाम अष्टाशीतितमः सर्गः॥२-८८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध