गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम्। ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम्॥ १॥ सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः। पुण्डरीकविशालाक्ष स्तरुणः प्रियदर्शनः॥ २॥ प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः। पपात सहसा तोत्रैर्ह्यदि विद्ध इव द्विपः॥ ३॥ तदवस्थं तु भरतं शत्रुघ्नोऽनन्तरस्थितः। परिष्वज्य रुरोदोच्चैर्विसंज्ञः शोककर्शितः॥ ४॥ ततः सर्वाः समापेतुर्मातरो भरतस्य ताः। उपवासकृशा दीना भर्तृव्यसनकर्शिताः॥ ५॥ ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन्। कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे॥ ६॥ वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी। परिपप्रच्छ भरतं रुदन्ती शोककर्शिता॥ ७॥ पुत्र व्याधिर्न ते कच्चिच्छरीरं परिबाधते। अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम्॥ ८॥ त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते। वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः॥ ९॥ कच्चिन्नु लक्ष्मणे पुत्र श्रुतं ते किञ्चदप्रियम्। पुत्रे वा ह्येकपुत्रायाः सहभार्ये वनं गते॥ १०॥ स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः। कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत्॥ ११॥ भ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मणः। अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे॥ १२॥ सोऽब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुहः। यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ॥ १३॥ अन्नमुच्चावचं भक्षाः फलानि विविधानि च। रामायाभ्यवहारार्थं बहु चोपहृतं मया॥ १४॥ तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः। न तु तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन्॥ १५॥ न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा। इति तेन वयं राजन्ननुनीता महात्मना॥ १६॥ लक्ष्मणेन समानीतं पीत्वा वारि महात्मना। औपवास्यं तदाकार्षीद्राघवः सह सीतया॥ १७॥ ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा। वाग्यतास्ते त्रयः सन्ध्यां समुपासत संहिताः॥ १८॥ सौमित्रिस्तु ततः पश्चादकरोत् स्वास्तरं शुभम्। स्वयमानीय बर्हींषि क्षिप्रं राघवकारणात्॥ १९॥ तस्मिन् समाविशद्रामः स्वास्तरे सह सीतया। प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः॥ २०॥ एतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम्। यस्मिन् रामश्च सीता च रात्रिं तां शयितावुभौ॥ २१॥ नियम्य पृष्ठे तु तलाङ्गुलित्रवान् शरैः स पूर्णाविषुधी परन्तपः। महाद्धनुः सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत् परितोऽस्य केवलम्॥ २२॥ ततस्त्वहं चोत्तमबाणचापधृत् स्थितोऽभवं तत्र स यत्र लक्ष्मणः। अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैः सहेन्द्रकल्पं परिपालयंस्तदा॥ २३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे रामशयनादिप्रश्नो नाम सप्ताशीतितमः सर्गः॥२-८७॥