ततो दशाहेऽतिगते कृतशौचो नृपात्मजः। द्वादशेऽहनि सम्प्राप्ते श्राद्धकर्माण्यकारयत्॥ १॥ ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम्। बास्तिकं बहुशुक्लं च गाश्चापि शतशस्तथा॥ २॥ दासीदासं च यानं च वेश्मानि सुमहान्ति च। ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्ध्वदैहिकम्॥ ३॥ ततः प्रभातसमये दिवसेऽथ त्रयोदशे। विललाप महाबाहुर्भरतः शोकमूर्छितः॥ ४॥ शब्दापिहितकण्ठस्तु शोधनार्थमुपागतः। चितामूले पितुर्वाक्यमिदमाह सुदुःखितः॥ ५॥ तात यस्मिन्निसृष्टोऽहं त्वया भ्रातरि राघवे। तस्मिन् वनं प्रव्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया॥ ६॥ यस्या गतिरनाथायाः पुत्रः प्रव्राजितो वनम्। तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप॥ ७॥ दृष्ट्वा भस्मारुणं तच्च दग्धास्थि स्थानमण्डलम्। पितु श्शरीरनिर्वाणं विष्टनन् विषसाद सः॥ ८॥ स तु दृष्ट्वा रुदन् दीनः पपात धरणीतले। उत्थाप्यमानः शक्रस्य यन्त्रध्वज इव च्युतः॥ ९॥ अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम्। अन्तकाले निपतितं ययातिमृषयो यथा॥ १०॥ शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम्। विसंज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन्॥ ११॥ उन्मत्त इव निश्चेता विललाप सुदुःखितः। स्मृत्वा पितुर्गुणाङ्गानि तानि तानि तदा तदा॥ १२॥ मन्थराप्रभवस्तीव्रः कैकेयीग्राहसङ्कुलः। वरदानमयोऽक्षोभ्योऽमज्जयच्छोकसागरः॥ १३॥ सुकुमारं च बालं च सततं लालितं त्वया। क्व तात भरतं हित्वा विलपन्तं गतो भवान्॥ १४॥ ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च। प्रवारयसि नः सर्वांस्तन्नः कोऽन्यः करिष्यति॥ १५॥ अवदारणकाले तु पृथिवी नावदीर्यते। या विहीना त्वया राज्ञा धर्मज्ञेन महात्मना॥ १६॥ पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते। किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम्॥ १७॥ हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम्। अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम्॥ १८॥ तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत्। भृशमार्ततरा भूयः सर्व एवानुगामिनः॥ १९॥ ततो विषण्णौ शोचन्तौ शत्रुघ्नभरतावुभौ। धरण्यां संव्यवेष्टेतां भग्नशृङ्गाविवर्षभौ॥ २०॥ ततः प्रकृतिमान् वैद्यः पितुरेषां पुरोहितः। वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह॥ २१॥ त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते विभो। सावशेषास्थिनिचये किमिह त्वं विलम्बसे॥ २२॥ त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः तेषु चापरिहार्येषु नैवं भवितुमर्हसि॥ २३॥ सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च। श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ॥ २४॥ उत्थितौ च नरव्याघ्रौ प्रकाशेते यशस्विनौ। वर्षातपपरिक्लिनौ पृथगिन्द्रध्वजाविव॥ २५॥ अक्षीणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ। अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः॥ २६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे भरतशत्रुघ्नविलापो नाम सप्तसप्ततितमः सर्गः॥२-७७॥