तमेवं शोकसन्तप्तं भरतं कैकयीसुतम्। उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः॥ १॥ अलं शोकेन भद्रं ते राजपुत्र महायशः। प्राप्तकालं नरपतेः कुरु संयानमुत्तमम्॥ २॥ वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः। प्रेतकार्याणि सर्वाणि कारयामास धर्मवित्॥ ३॥ उद्धृतं तैलसंक्लेदात् स तु भूमौ निवेशितम्। आपीतवर्णवदनं प्रसुप्तमिव भूमिपम्॥ ४॥ संवेश्य शयने चाग्य्रे नानारत्नपरिष्कृते। ततो दशरथं पुत्रो विललाप सुदुःखितः॥ ५॥ किं ते व्यवसितं राजन् प्रोषिते मय्यनागते। विवास्य रामं धर्मज्ञ लक्ष्मणं च महाबलम्॥ ६॥ क्व यास्यसि महाराज हित्वेमं दुःखितं जनम्। हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा॥ ७॥ योगक्षेमं तु ते राजन् कोऽस्मिन् कल्पयिता पुरे। त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते॥ ८॥ विधवा पृथिवी राजन् स्त्वया हीना न राजते। हीनचन्द्रेव रजनी नगरी प्रतिभाति माम्॥ ९॥ एवं विलपमानं तं भरतं दीनमानसम्। अब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः॥ १०॥ प्रेतकार्याणि यान्यस्य कर्तव्यानि विशां पतेः। तान्यव्यग्रं महाबाहो क्रियान्तामविचारितम्॥ ११॥ तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत्। ऋत्विक्पुरोहिताचार्यान् स्त्वरयामास सर्वशः॥ १२॥ ये त्वग्नयो नरेन्द्रेस्य अग्न्यगाराद्बहिष्कृताः। ऋत्विग्भिर्याजकैश्चैव आह्रियन्त यथाविधि॥ १३॥ शिबिकायामथा़रोप्य राजानं गतचेतसम्। बाष्पकण्ठा विमनसस्तमूहुः परिचारकाः॥ १४॥ हिरण्यं च सुवर्णं च वासांसि विविधानि च। प्रकिरन्तो जना मार्गे नृपतेरग्रतो ययुः॥ १५॥ चन्दनागरुनिर्यासान् सरलं पद्मकं तथा। देवदारूणि चाहृत्य चितां चक्रुस्तथापरे॥ १६॥ गन्धानुच्चावचांश्चान्यां स्तत्र दत्वाथ भूमिपम्। ततः संवेशयामासुश्चितामध्ये तमृत्विजः॥ १७॥ तथा हुताशनं दत्वा जेपुस्तस्य तदृत्विजः। जगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः॥ १८॥ शिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः। नगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा॥ १९॥ प्रसव्यं चापि तं चकुः ऋत्विजोऽग्निचितं नृपम्। स्त्रियश्च शोकसन्तप्ताः कौसल्याप्रमुखास्तदा॥ २०॥ क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे। आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः॥ २१॥ ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः। यानेभ्यः सरयूतीरमवतेरुर्वराङ्गनाः॥ २२॥ कृत्वोदकं ते भरतेन सार्धं नृपाङ्गना मन्त्रिपुरोहिताश्च। पुरं प्रविश्याश्रुपरीतनेत्राः भूमौ दशाहं व्यनयन्त दुःखम्॥ २३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे दशरथौर्ध्वदैहिकं नाम षटसप्ततितमः सर्गः॥ २-७६॥