home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

अष्टषष्टितमः सर्गः ॥२-६८॥

॥दूतप्रेषणम्॥

[ वसिष्ठस्याज्ञया पञ्चानां दूतानामयोध्यातः केकय- देशस्य राजगृहे नगरे गमनम् ]

तेषां तद्वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह। मित्रामात्यगणान् सर्वान् ब्राह्मणांस्तानिदं वचः॥ १॥ यदसौ मातुलकुले दत्तराज्यः परं सुखी। भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः॥ २॥ तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयैः। आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम्॥ ३॥ गच्छन्त्विति ततः सर्वे वसिष्ठं वाक्यमब्रुवन्। तेषां तु वचनं श्रूत्वा वसिष्ठो वाक्यमब्रवीत्॥ ४॥ एहि सिद्धार्थ विजय जयन्ताशोक नन्दन। श्रूयतामिति कर्तव्यं सर्वानेव ब्रवीमि वः॥ ५॥ पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयैः। त्यक्तशोकैरिदं वाच्यः शासनाद्भरतो मम॥ ६॥ पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः। त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया॥ ७॥ मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम्। भवन्तः शंसिषुर्गत्वा राघवाणामिमं क्षयम्॥ ८॥ कौशेयानि च वस्त्राणि भूषणानि वराणि च। क्षिप्रमादय राज्ञश्च भरतस्य च गच्छत॥ ९॥ दत्तपथ्यशना दूता जग्मुः स्वं स्वं निवेशनम्। केकयांस्ते गमिष्यन्तो हयानारुह्य संमतान्॥ १०॥ ततः प्रास्थानिकं कृत्वा कार्यशेषमनन्तरम्। वसिष्ठेनाभ्यनुज्ञाता दूताः संत्वरिता ययुः॥ ११॥ न्यन्तेनापरतालस्य प्रलम्बस्योत्तरं प्रति। निषेवमाणास्ते जग्मुर्नदीं मध्येन मालिनीम्॥ १२॥ ते हस्तिनापुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः। पाञ्चालदेशानासाद्य मध्येन कुरुजाङ्गलम्॥ १३॥ सरांसि च सुपूर्णानि नदीश्च विमलोदकाः। निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम्॥ १४॥ ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम्। अतित्य जग्मुर्वेगेन शरदण्डां जनाकुलाम्॥ १५॥ निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम्। अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन् पुरीम्॥ १६॥ आभिकालं ततः प्राप्य तेजोभिभवनाच्च्युताः। पितृपैतामहीं पुण्यां तेरुरिक्षुमतीं नदीम्॥ १७॥ अवेक्ष्याञ्जलिपानांश्च ब्राह्मणान् वेदपारगान्। ययुर्मध्येन बाह्लीकान् सुदामानं च पर्वतम्॥ १८॥ विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम्। नदीर्वापी स्तटाकानि पल्वलानि सरांसि च॥ १९॥ पश्यन्तो विविधांश्चापि सिंहाव्याघ्रमृग द्विपान्। ययुः पथातिमहता शासनं भर्तुरीप्सवः॥ २०॥ ते श्रान्तवाहना दूता विकृष्णेन पथा ततः। गिरिव्रजं पुरवरं शीघ्रमासेदुरञ्जसा॥ २१॥ भर्तुः प्रियार्थं कुलरक्षणार्थं भर्तुश्च वंशस्य परिग्रहार्थम्। अहेडमानास्त्वरया स्म दूता रात्र्यान्तु ते तत्पुरमेव याताः॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे दूतप्रेषणं नाम अष्टषष्टितमः सर्गः॥२-६८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध