home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

सप्तषष्टितमः सर्गः ॥२-६७॥

॥अराजकदुरवस्थावर्णनम्॥

[ मार्कण्डेयप्रभृतिमुनिभिर्मन्त्रिभिश्च राजानं विना देशस्य भाविनिदुरवस्थां वर्णयित्वा कमपि राजपदे प्रतिष्ठापयितुं वसिष्ठं प्रत्यनुरोधः ]

आक्रन्दितनिरानन्दा साश्रुकण्ठजनाकुला। अयोध्यायामवतता सा व्यतीयाय शर्वरी॥ १॥ व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः। समेत्य राजकर्तारः सभामीयुर्द्विजातयः॥ २॥ मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः। कात्यायनो गौतमश्च जाबालिश्च महायशाः॥ ३॥ एते द्विजा स्सहामात्यैः पृथग्वाचमुदीरयन्। वसिष्ठमेवाभिमुखाः श्रेष्ठं राजपुरोहितम्॥ ४॥ अतीता शर्वरी दुःखाद्य नो वर्षशतोपमा। अस्मिन् पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे॥ ५॥ स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः। लक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह॥ ६॥ उभौ भरतशत्रुघ्नौ केकयेषु परन्तपौ। पुरे राजगृहे रम्ये मातामहनिवेशने॥ ७॥ इक्ष्वाकूणामिहाद्यैव राहा कश्चिद्विधीयताम्। अराजकं हि नो राष्ट्रं विनाशं समवाप्नुयात्॥ ८॥ नाराजके जनपदे विद्युन्माली महास्वनः। अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा॥ ९॥ नाराजके जनपदे बीजमुष्टिः प्रकीर्यते। नाराजके पितुः पुत्रो भार्या वा वर्तते वशे॥ १०॥ अराजके धनं चास्ति नास्ति भार्याप्यराजके। इदमत्याहितं चान्यत् कुतः सत्यमराजके॥ ११॥ नाराजके जनपदे प्रविशन्ति सभां नराः। उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च॥ १२॥ नाराजके जनपदे यज्ञशीला द्विजातयः। सत्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः॥ १३॥ नाराजके जनपदे महायज्ञेषु यज्वनः। ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः॥ १४॥ नाराजके जनपदे प्रहृष्टनटनर्तकाः। उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः॥ १५॥ नाराजके जनपदे सिद्धार्था व्यवहारिणः। कथाभिरनुरज्यन्ते कथाशीलाः कथाप्रियैः॥ १६॥ नाराजके जनपदे उद्यानानि समागताः। सायाह्ने क्रीडितुं यान्ति कुमार्यो हेमभूषिताः॥ १७॥ नाराजके जनपदे वाहनैः शीघ्रगामिभिः। नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः॥ १८॥ नाराजके जनपदे धनवन्तः सुरक्षिताः। शेरते विवृतद्वाराः कृषिगोरक्षजीविनः॥ १९॥ नाराजके जनपदे बद्धघण्टा विषाणिनः। अटन्ति राजमार्गेषु कुञ्जरा षष्टिहायनाः॥ २०॥ नाराजके जनपदे शरान् सन्ततमस्यताम्। श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने॥ २१॥ नाराजके जनपदे वणिजो दूरगामिनः। गच्छन्ति क्षेममध्वानं बहुपण्यसमाचिताः॥ २२॥ नाराजके जनपदे चरत्येकचरो वशी। भावयन्नात्मनात्मानं यत्र सायंगृहो मुनिः॥ २३॥ नाराजके जनपदे योगक्षेमं प्रवर्तते। न चाप्यराजके सेना शत्रून् विषहते युधि॥ २४॥ नाराजके जनपदे हृष्टैः परमवाजिभिः। नराः संयान्ति सहसा रथैश्च परिमण्डिताः॥ २५॥ नाराजके जनपदे नराः शास्त्रविशारदाः। संवदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च॥ २६॥ नाराजके जनपदे माल्यमोदकदक्षिणाः। देवताभ्यर्चनार्थाय कल्प्यन्ते नियतैर्जनैः॥ २७॥ नाराजके जनपदे चन्दनागरुरूषिताः। राजपुत्रा विराजन्ते वसन्त इव शाखिनः॥ २८॥ यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम्। अगोपाला यथा गावस्तथा राष्ट्रमराजकम्॥ २९॥ ध्वजो रथस्य प्रज्ञानं धूमो ज्ञानं विभावसोः। तेषां यो नो ध्वजो राजा स देवत्वमितो गतः॥ ३०॥ नाराजके जनपदे स्वकं भवति कस्यचित्। मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम्॥ ३१॥ ये हि सम्भिन्नमर्यादा नास्तिकाश्छिन्नसंशयाः। तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः॥ ३२॥ यथा दृष्टि श्शरीरस्य नित्यमेव प्रवर्तते। तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः॥ ३३॥ राजा सत्यं च धर्मश्च राजा कुलवतां कुलम्। राजा माता पिता चैव राजा हितकरो नृणाम्॥ ३४॥ यमो वैश्रवणः शक्रो वरुणश्च महाबलः। विशेष्यन्ते नरेन्द्रेण वृत्तेन महता ततः॥ ३५॥ अहो तम इवेदं स्यान्न प्रज्ञायेत किञ्चन। राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी॥ ३६॥ जीवत्यपि महाराजे तवैव वचनं वयम्। नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः॥ ३७॥ स नः समीक्ष्य द्विजवर्य वृत्तं नृपं विना राज्यमरण्यभूतम्। कुमारमिक्ष्वाकुसुतं तथान्यं त्वमेव राजानमिहाभिषिञ्च॥ ३८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे अराजकुदुरवस्थावर्णनं नाम सप्तषष्टितमः सर्गः॥२-६७॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध