home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

पञ्चषष्टितमः सर्गः ॥२-६५॥

॥अन्तःपुराक्रन्दः॥

[ वन्दिजनकर्तृको राज्ञः स्तवपाठः, राजानं दशरथं दिवंगतं मत्वा राज्ञीनां विलापः ]

अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि। वन्दिनः पर्युपातिष्ठंस्तत्पार्थिव निवेशनम्॥ १॥ सूताः परमसंस्कारा मागधाश्चोत्तमश्रुताः। गायका: स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्॥ २॥ राजानं स्तुवतां तेषामुदात्ताभिहिताशिषाम्। प्रासादाभोगविस्तीर्णः स्तुतिशब्दो व्यजृम्भत॥ ३॥ ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः। अपदानान्युदाहृत्य पाणिवादानवादयन्॥ ४॥ तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः। शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः॥ ५॥ व्याहृताः पुण्यशब्दाश्च वीणानां चापि निःस्वनाः। आशीर्गेयं च गाथानां पूरयामास वेश्म तत्॥ ६॥ ततः शुचिसमाचाराः पर्युपस्थानकोविदाः। स्त्रीवर्षवरभूयिष्ठा उपतस्थुर्यथापुरम्॥ ७॥ हरिचन्दनसम्पृक्तमुदकं काञ्चनैर्घटैः। आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि॥ ८॥ मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान्। उपनिन्युस्तथाप्यन्याः कुमारीबहुलाः स्त्रियः॥ ९॥ सर्वलक्षणसम्पन्नं सर्वं विधिवदर्चितम्। सर्वं सुगुणलक्ष्मीवत् तद्बभूवाभिहारिकम्॥ १०॥ तत्तु सूर्योदयं यावत् सर्वं परिसमुत्सुकम्। तस्थावनुपसम्प्राप्तं किंस्विदित्युपशङ्कितम्॥ ११॥ अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः। ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन्॥ १२॥ तथाप्युचितवृत्तास्ता विनयेन नयेन च। न ह्यस्य शयनं स्पृष्ट्वा किञ्चिदप्युपलेभिरे॥ १३॥ ताः स्त्रियः स्वप्नशीलज्ञाश्चेष्टासञ्चलनादिषु। ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः॥ १४॥ प्रतिस्रोतस्तृणाग्राणां सदृशं सञ्चकम्पिरे। अथ सन्देहमानानां स्त्रीणां दृष्ट्वा च पार्थिवम्॥ १५॥ यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः। कौसल्या च सुमत्रा च पुत्रशोकपराजिते॥ १६॥ प्रसुप्ते न प्रबुध्येते यथाकालसमन्विते। निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता॥ १७॥ न व्यराजत कौसल्या तारेव तिमिरावृता। कौसल्यानन्तरं राज्ञः सुमित्रा तदन्तनरम्॥ १८॥ न स्म विभ्राजते देवी शोकाश्रुलुलितानना। ते च दृष्ट्वा तथा सुप्ते उभे देव्यौ च तं नृपम्॥ १९॥ सुप्तमेवोद्गतप्राणमन्तःपुरमदृश्यत। ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः॥ २०॥ करेणव इवारण्ये स्थानप्रच्युतयूथपाः। तासामाक्रन्दशब्देन सहसोद्गतचेतने॥ २१॥ कौसल्या च सुमित्रा च त्यक्तनिद्रे बभूवतुः। कौसल्या च सुमित्रा च दृष्ट्वा स्प़ृष्ट्वा च पार्थिवम्॥ २२॥ हा नाथेति परिक्रुश्य पेततुर्धरणीतले। सा कोसलेन्द्रदुहिता वेष्टमाना महीतले॥ २३॥ न बभ्राज रजोध्वस्ता तारेव गगनाच्च्युता। नृपे शान्तगुणे जाते कौसल्यां पतितां भुवि॥ २४॥ अपश्यंस्ताः स्त्रियः सर्वा हतां नागवधूमिव। ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः॥ २५॥ रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः। ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥ २६॥ येन स्फीतीकृतं भूयस्तद् गृहं समनादयत्। तत्परित्रस्तन्त्रसम्भ्रान्तं पर्युत्सुकजनाकुलम्॥ २७॥ सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम्। सद्यो निपतितानन्दं दीनविक्लबदर्शनम्॥ २८॥ बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः। अतीतमाज्ञाय तु पार्थिवर्षभं यशस्विनं सम्परिवार्य पत्नयः। भृशं रुदन्त्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्ननाथवत्॥ २९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे अन्तःपुराक्रान्दो नाम पञ्चषष्टितमस्सर्गः॥२-६५॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध