वधमप्रतिरूपं तु महर्षेस्तस्य राघवः। विलपन्नेव धर्मात्मा कौसल्यां पुनरब्रवीत्॥ १॥ तदज्ञानान्महत् पापं कृत्वा सङ्कुलेन्द्रियः। एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत्॥ २॥ ततस्तं घटमादाय पूर्णं परमवारिणा। आश्रमं तमहं प्राप्य यथाख्यातपथं गतः॥ ३॥ तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ। अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ॥ ४॥ तन्निमित्ताभिरासीनौ कथाभिरपरिश्रमौ। तामाशां मत्कृते हीनावुदासीनावनाथवत्॥ ५॥ शोकोपहतचित्तश्च भयसन्त्रस्तचेतनः। तश्चाश्रमपदं गत्वा भूयः शोकमहं गतः॥ ६॥ पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत। किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय॥ ७॥ यन्निमित्तमिदं तात सलिले क्रीडितं त्वया। उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम्॥ ८॥ यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया। न तन्मनसि कर्तव्यं त्वया तात तपस्विना॥ ९॥ गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम्। समासक्तास्त्वयि प्राणाः किं त्वं नो नाभिभाषसे॥ १०॥ मुनिमव्यक्तया वाचा तमहं सज्जमानया। हीनव्यञ्जनया प्रेक्ष्य भीतचित्त इवाब्रुवम्॥ ११॥ मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम्। आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम्॥ १२॥ क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः। सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम्॥ १३॥ भगवंश्चापहस्तोऽहं सरयूतीरमागतः। जिघांसुः श्वापदं कञ्चिन्निपाने चागतं गजम्॥ १४॥ तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः। द्विपोऽयमिति मत्वायं बाणेनाभिहतो मया॥ १५॥ गत्वा नद्यास्तत स्तीरमपश्यमिषुणा हृदि। विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम्॥ १६॥ ततस्तस्यैव वचनादुपेत्य परितप्यतः। स मया सहसा बाण उद्धृतो मर्मणस्तदा॥ १७॥ स चोद्धृतेन बाणेन सहसा स्वर्गमास्थितः। भवन्तौ पितरौ शोचन्नन्धाविति विलप्य च॥ १८॥ अज्ञानाद्भवतः पुत्र स्सहसाऽभिहतो मया। शेषमेवं गते यत् स्यात्तत् प्रसीदतु मे मुनिः॥ १९॥ स तच्च्रुत्वा वचः क्रूरं मयोक्तमघशंसिना। नाशकत् तीव्रमायासमकर्तुं भगवान् मुनिः॥ २०॥ स बाष्पपूर्णवदनो निश्श्वसन्शोककर्शितः। मामुवाच महातेजाः कृताञ्जलिमुपस्थितम्॥ २१॥ यद्येतदशुभं कर्म न त्वं मे कथयेः स्वयम्। फलेन्मूर्धा स्म ते राजन् सद्यः शतसहस्रधा॥ २२॥ क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः। ज्ञानपूर्वं कृतः स्थानाच्च्यावयेदपि वज्रिणम्॥ २३॥ सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति। ज्ञानाद्विसृजतः शस्त्रं तादृशे ब्रह्मावादिनि॥ २४॥ अज्ञानाद्धि कृतं यस्मादिदं तेनैव जवसि। अपि ह्यद्य कुलं न स्यादिक्ष्वाकूणां कुतो भवान्॥ २५॥ नय नौ नृप तं देशमिति मां चाभ्यभाषत। अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम्॥ २६॥ रुधिरेणानुलिप्ताङ्गं प्रकीर्णाजिनवाससम्। शयानं भुवि निःसंज्ञं धर्मराजवशं गतम्॥ २७॥ अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ। अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया॥ २८॥ तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ। निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत्॥ २९॥ नाभिवादयसे माद्य न च मामभिभाषसे। किं नु शेषेऽद्य भूमौ त्वं वत्स किं कुपितो ह्यसि॥ ३०॥ न त्वहं तेऽप्रियं पुत्र मातरं पश्य धार्मिक। किं नु नालिङ्गसे पुत्र सुकुमार वचो वद॥ ३१॥ कस्य वापररात्रेऽहं श्रोष्यामि हृदयङ्गमम्। अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः॥ ३२॥ को मां सन्द्यामुपास्यैव स्नात्वा हुतहुताशनः। श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम्॥ ३३॥ कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम्। भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम्॥ ३४॥ इमामन्धां च वृद्धां च मातरं ते तपस्विनीम्। कथं वत्स भरिष्यामि कृपणां पुत्रगर्धिनीम्॥ ३५॥ तिष्ठ मा मा गमः पुत्र यमस्य सदनं प्रति। श्वो मया सह गन्तासि जनन्या च समेधितः॥ ३६॥ उभावपि च शोकार्तावनाथौ कृपणौ वने। क्षिप्रमेव गमिष्यावस्त्वया सह यमक्षयम्॥ ३७॥ ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम्। क्षमतां धर्मराजो मे बिभृयात् पितरावयम्॥ ३८॥ दातुमर्हति धर्मात्मा लोकपालो महायशाः। ईदृशस्य ममाक्षय्यामेकामभयदक्षिणाम्॥ ३९॥ अपापोऽसि यदा पुत्र निहतः पापकर्मणा। तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम्॥ ४०॥ यां हि शूरा गतिं यान्ति सङ्ग्रामेष्वनिवर्तिनः। हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज॥ ४१॥ यां गतिं सगरः शैब्यो दिलीपो जनमेजयः। नहुषो धन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक॥ ४२॥ या गतिः सर्वसाधूनां स्वाध्यायात्तपसश्च या। या भूमिदस्याहिऽताग्नेरेकपत्नी व्रतस्य च॥ ४३॥ गोसहस्रप्रदातृ़णां गुरुसेवाभृतामपि। देहन्यासकृतां या च तां गतिं गच्छ पुत्रक॥ ४४॥ न हि त्वस्मिन्कुले जातो गच्छत्यकुशलां गतिम्। स तु यास्यति येन त्वं निहतो मम बान्धवः॥ ४५॥ एवं स कृपणं तत्र पर्यदेवयतासकृत्। ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया॥ ४६॥ स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः। स्वर्गमध्यारुहत् क्षिप्रं शक्रेण सह धर्मवित्॥ ४७॥ आबभाषे च तौ वृद्धौ शक्रेण सह तापसः। आश्वास्यच मुहूर्तं तु पितरौ वाक्यमब्रवीत्॥ ४८॥ स्थानमस्मि महत् प्राप्तो भवतोः परिचारणात्। भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः॥ ४९॥ एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता। आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः॥ ५०॥ स कृत्वा तूदकं तूर्णं तापसः सह भार्यया। मामुवाच महातेजाः कृताञ्जलिमुपस्थितम्॥ ५१॥ अद्यैव जहिं मां राजन् मरणे नास्ति मे व्यथा। यच्छरेणैकपुत्रं मां त्वमकर्षीरपुत्रकम्॥ ५२॥ त्वया तु यदविज्ञानान्निहतो मे सुतः शुचिः। तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम्॥ ५३॥ पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम्। एवं त्वं पुत्रशोकेन राजन् कालं गमिष्यसि॥ ५४॥ अज्ञानात्तु हतो यस्मात् क्षत्त्रियेण त्वया मुनिः। तस्मात्त्वां नाविशत्याशु ब्रह्महत्या नराधिप॥ ५५॥ त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति। जीवितान्तकरो घोरो दातारमिव दक्षिणा॥ ५६॥ एवं शापं मयि न्यस्य विलप्य करुणं बहु। चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात्॥ ५७॥ तदेतच्छिन्तयानेन स्मृतं पापं मया स्वयम्। तदा बाल्यात् कृतं देवि शब्दवेध्यनुकर्षिणा॥ ५८॥ तस्यायं कर्मणो देवि विपाकः समुपस्थितः। अपथ्यैः सह संभुक्ते व्याधिरन्नरसे यथा॥ ५९ तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः। यदहं पुत्रशोकेन सन्त्यक्ष्याम्यद्य जीवितम्॥ ६०॥ चक्षुभ्यां त्वां न पश्यामि कौसल्ये साधु मां स्फृश। इत्युक्त्वा स रुदंस्त्रस्तो भार्यामाह च भूमिपः॥ ६१॥ यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः। यदि मां संस्पृशेद्रामः सकृदद्य लभेत वा॥ ६२॥ धनं वा यौवराज्यं वा जीवेयमिति मे मतिः। एतन्मे सदृशं देवि यन्मया राघवे कृतम्॥ ६३॥ सदृशं तत्तु तस्यैव यदनेन कृतं मयि। दुर्वृत्तमपि कः पुत्रं त्यजेद्भुवि विचक्षणः॥ ६४॥ कश्च प्रव्राज्यमानो वा नासूयेत् पितरं सुतः। चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते॥ ६५॥ दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम्। अतस्तु किं दुःखतरं यदहं जीवितक्षये॥ ६६॥ न हि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम्। तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः॥ ६७॥ उच्छोषयति मे प्राणान् वारि स्तोकमिवातपः। न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम्॥ ६८॥ मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः। पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम्॥ ६९॥ धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम्। सदृशं शारदस्येन्दोः पुल्लस्य कमलस्य च॥ ७०॥ सुगन्धि मम रामस्य धन्या द्रक्ष्यन्ति तन्मुखम् निवृत्तवनवासं तमयोध्यां पुनरागतम्॥ ७१॥ द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा। कौसल्ये चित्तमोहेन हृदयं सीदतीव मे॥ ७२॥ वेदये न च संयुक्तान् शब्दस्पर्शरसानहम्। चित्तनाशाद्विपद्यन्ते सर्वाण्येन्द्रियाणि मे॥ ७३॥ क्षीणस्नेहस्य दीपस्य संसक्ता रश्मयो यथा। अयमात्मभवः शोको मामनाथमचेतनम्॥ ७४॥ संसादयति वेगेन यथा कूलं नदीरयः। हा राघव महाबाहो हा ममाऽयासनाशन॥ ७५॥ हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत। हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि।॥ ७६॥ हा नृशंसे ममामित्रे कैकेयि कुलपांसनि। इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ। राजा दशरथः शोचञ्जीवितान्तमुपागमत्॥ ७७॥ यदा तु दीनं कथयन्नराधिपः प्रियस्य पुत्त्रस्य विवासनातुरः। गतेऽर्धरात्रे भृशदुःखपीडितस्तदा जहौ प्राणमुदारदर्शनः॥ ७८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे दशरथदिष्टान्तो नाम चतुष्षष्टितमस्सर्गः॥२-६४॥