home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

पञ्चाधिकशततमः सर्गः॥२-१०५॥

॥रामवाक्यम्॥

[ श्रीरामं प्रत्ययोध्यां गत्वा राज्यग्रहणार्थं भरतस्यानु- रोधः, जीवनस्यानित्यतां निरूपयतः श्रीरामस्य 'पितृनिधनहेतोः शोको न कर्तव्यः' इति भरतं प्रत्युपदेशस्तथा श्रीरामेण पितुराज्ञापालनार्थमेव राज्यमगृहीत्वा वनवासायैव स्वाभिप्रायप्रकटनम् ]

ततः पुरुषसिंहानां वृतानां तै स्सुहृद्गणैः। शोचतामेव रजनी दुःखेन व्यत्यवर्तत॥ १॥ रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः। मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन्॥ २॥ तूष्णीं ते समुपासीना न कश्चित् किञ्चिदब्रवीत्। भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत्॥ ३॥ सान्त्विता मामिका माता दत्तं राज्यमिदं मम। तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम्॥ ४॥ महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे। दुरावारं त्वदन्येन राज्यखण्डमिदं महत्॥ ५॥ गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः। अनुगन्तुं न शक्तिर्मे गतिं तव महीपते॥ 6॥ सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते। राम तेन तु दुर्जीवं यः परानुपजीवति॥ ७॥ यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः। ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः॥ ८॥ स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत्। स तां नानुभवेत् प्रीतिं यस्य हेतोः प्ररोपितः॥ ९॥ एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि। यदि त्वमस्मान् वृषभो भर्ता भृत्यान्न शाधि हि॥ १०॥ श्रेणयस्त्वां महाराज पश्यन्त्वग्य्राश्च सर्वशः। प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम्॥ ११॥ तवानुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः। अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः॥ १२॥ तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः। भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः॥ १३॥ तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम्। रामः कृतात्मा भरतं समाश्वासयदात्मवान्॥ १४॥ नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः। इतश्चेतरतश्चैनं कृतान्तः परिकर्षति॥ १५॥ सर्वे क्षयान्ताः निचयाः पतनान्ता समुच्छ्रयाः। संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्॥ १६॥ यथा फलानां पक्वानां नान्यत्र पतनाद्भयम्। एवं नरस्य जातस्य नान्यत्र मरणाद्भयम्॥ १७॥ यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति। तथैवसीदन्ति नरा जरामृत्युवशं गताः॥ १८॥ अत्येति रजनी या तु सा न प्रतिनिवर्तते। यात्येव यमुना पूर्णा समुद्रं लवणार्णवम्॥ १९॥ अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह। आायूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः॥ २०॥ आत्मानमनुशोच त्वं किमन्यमनुशोचसि। आयुस्ते हीयते यस्य स्थितस्य च गतस्य च॥ २१॥ सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति। गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते॥ २२॥ गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः। जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत्॥ २३॥ नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ। आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम्॥ २४॥ हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिहागतम्। ऋतूनां परिवर्तेन प्राणिनां प्राणसङ्क्षयः॥ २५॥ यथा काष्ठं च काष्ठं च समेयातां महार्णवे। समेत्य च व्यपेयातां कालमासाद्य कञ्चन॥ २६॥ एवं भार्याश्च पुत्राश्च ज्ञातयश्च धनानि च। समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः॥ २७॥ यथा काष्ठं च काष्ठं च समेयातां महार्णवे। समेत्य च व्यपेयातां कालमासाद्य कञ्चन॥ २६॥ एवं भार्याश्चपुत्राश्च ज्ञातयश्च धनानि च। समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः॥ २७॥ नात्र कश्चिद्यथाभावं प्राणी समभिवर्तते। तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः॥ २८॥ यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थितः। अहमप्यागमिष्यामि पृष्ठतो भवतामिति॥ २९॥ एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः। तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः॥ 3०॥ वयसः पतमानस्य स्रोतसो वानिवर्तिनः। आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः॥ ३१॥ धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः। धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः॥ ३2॥ भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात्। अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गतः॥ ३३॥ कर्मभिस्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः। स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः॥ ३४॥ इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान्। उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः॥ ३५॥ आयुरुत्तममासाद्य भोगानपि च राघवः। स न शोच्यः पिता तातः स्वर्गतः सत्कृतः सताम्॥ ३६॥ स जीर्णं मानुषं देहं परित्यज्य पिता हि नः। दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम्॥ ३७॥ तं तु नैवंविधः कश्चित्र् प्राज्ञः शोचितुमर्हति। तत्विधो मद्विधश्चापि श्रुतवान् बुद्धिमत्तरः॥ ३८॥ एते बहुविधाः शोका विलापरुदिते तथा। वर्जनीया हि धीरेण सर्वावस्थासु धीमता॥ ३९॥ स स्वस्थो भव मा शोको यात्वा चावस तां पुरीम्। तथा पित्रा नियुक्तोऽसि वशिना वदतां वर॥ ४०॥ यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा। तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम्॥ ४१॥ न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम। तत् त्वयापि सदा मान्यं स वै बन्धुः स नः पिता॥ ४२॥ तद्वचः पितुरेवाहं सम्मतं धर्मचारिणाम्। कर्मणा पालयिष्यामि वनवासेन राघव॥ ४३॥ धार्मिकेणानृशंसेन नरेण गुरुवर्तिना। भवितव्यं नरव्याघ्र परलोकं जिगीषता॥ ४४॥ आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ। निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य नः॥ ४५॥ इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम्। यवीयसं भ्रातरमर्थवच्च प्रभुर्मूहूर्ताद्विरराम रामः॥ ४६।। ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे रामवाक्यं नाम पञ्चाधिकशततमः सर्गः॥२-१०५॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध