home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

चतुरधिकशततमः सर्गः ॥२-१०४॥

॥रामभरतसंवादः॥

[ वसिष्ठेन सहागच्छन्त्याः कौसल्याया मन्दाकिनी-तटे सुमित्रादीनां समक्षे दुःखपूर्णोद्वार:, सीता- रामलक्ष्मणकर्तृका मातॄणां चरणवन्दना वसिष्ठं प्रणम्य श्रीरामादीनां सर्वैः सहोपवेशनम् ]

तं तु रामः समाज्ञाय भ्रातरं गुरवत्सलम्। लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे॥ १॥ किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया। यस्मात्त्वमागतो देशमिमं चीरजटाजिनी॥ २॥ यन्निमित्तमिमं देशं कृष्णाजिनजटाधरः। हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि॥ ३॥ इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना। प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत्॥ ४॥ आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम्। गत: स्वर्गं महाबाहो पुत्रशोकाभिपीडितः॥ ५॥ स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप। चकार सुमहत् पापमिदमात्मयशोहरम्॥ ६॥ सा राज्यफलमप्राप्य विधवा शोककर्शिता। पतिष्यति महाघोरे निरये जननी मम॥ ७॥ तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि। अभिषिञ्चस्व चाद्येव राज्येन मघवानिव॥ ८॥ इमाः प्रकृतयः सर्वा विधवा मातरश्च याः। त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि॥ ९॥ तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद। राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु॥ १०॥ भवत्वविधवा भूमिः समग्रा पतिना त्वया। शशिना विमलेनेव शारदी रजनी यथा॥ ११॥ एभिश्च सचिवैः सार्धं शिरसा याचितो मया। भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि॥ १२॥ तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम्। पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि॥ १३॥ एवमुक्त्वा महाबाहुः सबाष्पः कैकयीसुतः। रामस्य शिरसा पादौ जग्राह विधिवत् पुन:॥ १४॥ तं मत्तमिव मातङ्गं निःश्वसन्तं पुनः पुनः। भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत्॥ १५॥ कुलीन: सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः। राज्यहेतोः कथं पापमाचरेन्मद्विधो जनः॥ १६॥ न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन। न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि॥ १७॥ कामकारो महाप्राज्ञ गुरूणां सर्वदानघ। उपपन्नेषु दारेषु पुत्रेषु च विधीयते॥ १8॥ वयमस्य यथा लोके सङ्ख्याता: सौम्य साधुभिः। भार्याः पुत्राश्च शिष्याश्च त्वमपि ज्ञातुमर्हसि॥ १९॥ वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम्। राज्ये वापि महाराजो मां वासयितुमीश्वरः॥ २०॥ यावत् पितरि धर्मज्ञे गौरवं लोकसत्कृते। तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम्॥ २१॥ एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव। मातापितृभ्यामुक्तोऽहं कथमन्यत् समाचरे॥ २२॥ त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम्। वस्तव्यं दण्डकारण्ये मया वल्कलवाससा॥ २३॥ एवं कृत्वा महाराजो विभागं लोकसन्निधौ। व्यादिश्य च महातेजा दिवं दशरथो गतः॥ २४॥ स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव। पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि॥ २५॥ चतुर्दश समाः सौम्य दण्डकारण्यमाश्रितः। उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना॥ २६॥ यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः। तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वर भावमप्ययम्॥ २७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे रमभरतसंवादो नाम चतुरधिकशततमः सर्गः॥२-१०४॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध