home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat


श्रीमद्वाल्मीकीरामायणम्
श्रीगायत्रीरामायणम्


॥ श्रीः ॥
ॐ श्री रामजयः

॥ श्रीगायत्रीरामायणम् ॥

तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्। नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्॥ १ स हत्वा राक्षसान्सर्वान् यज्ञघ्नान्रघुनन्दनः। ऋषिभिः पूजितः सम्यग्यथेन्द्रो विजयी पुरा॥ २ विश्वामित्रः स धर्मात्मा श्रुत्वा जनकभाषितम्। वत्स राम! धनुः पश्य इति राघवमब्रवीत्॥ ३ तुष्टवास्य तदा वंशं प्रविश्य स विशांपतेः। शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत॥ ४ वनवासं हि सङ्ख्याय वासांस्याभरणानि च। भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ॥ ५ राजा सत्यं च धर्मश्च राजा कुलवतां कुलम्। राजा माता पिता चैव राजा हितकरो नृणाम्॥ ६ निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम्। उटजे राममासीनं जटावल्कलधारिणम्॥ ७ यदि बुद्धिः कृता द्रष्टुम् अगस्त्यं तं महामुनिम्। अद्यैव गमने बुद्धिं रोचयस्व महायशः॥ ८ भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो। मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति॥ ९ गच्छ शीघ्रमितो राम! सुग्रीवं तं महाबलम्। वयस्यं तं कुरु क्षिप्रम् इतो गत्वाऽद्य राघव! ॥ १० देशकालौ प्रतीक्षस्व क्षममाणः प्रियाप्रिये। सुखदुः खसहः काले सुग्रीववशगो भव॥ ११ वन्द्यास्ते तु तपस्सिद्धास्तपसा वीतकल्मषाः। प्रष्टव्याः तेऽपि सीतायाः प्रवृत्तिं विनयान्वितैः॥ १२ स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम्। विक्रमेण महातेजाः हनुमान्मारुतात्मजः॥ १३ धन्या देवास्सगन्धर्वाः सिद्धाश्च परमर्षयः। मम पश्यन्ति ये नाथं रामं राजीवलोचनम्॥ १४ मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः। उपतस्थे विशालाक्षी प्रयता हव्यवाहनम्॥ १५ हितं महार्थं मृदुपूर्वसंहितं व्यतीतकालायति संप्रति क्षमम्। निशाम्य तद्वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत्॥ १६ धर्मात्मा रक्षसां श्रेष्ठः संप्राप्तोऽयं विभीषणः। लङ्गैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम्॥ १७ यो वज्रपाताशनिसन्निपातात् न चुक्षुभे नापि चचाल राजा। स रामबाणाभिहतो भृशार्तः चचाल चापं च मुमोच वीरः॥ १८ यस्य विक्रममासाद्य राक्षसा निधनं गताः। तं मन्ये राघवं वीरं नारायणमनामयम्॥ १९ न ते ददृशिरे रामं दहन्तमरिवाहिनीम्। मोहिताः परमास्त्रेण गान्धर्वेण महात्मना॥ २० प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली। बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः॥ २१ चलनात्पर्वतेन्द्रस्य गणा देवारश्च कम्पिताः। चचाल पार्वती चापि तदाऽऽश्लिष्टा महेश्वरम्॥ २२ दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभाजनम्। सर्वमेवाविभक्तं नो भविष्यति हरीश्वर॥ २३ यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत्। तामेव रात्रिं सीताऽपि प्रसूता दारकद्वयम्॥ २४ इदं रामायणं कृत्स्नं गायत्रीबीजसंयुतम्। त्रिसन्ध्यं यः पठेन्नित्यं सर्वपापैः प्रमुच्यते॥ २५


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध