home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat


श्रीमद्वाल्मीकीरामायणम्
श्रीमद्रामायणपारायणोपक्रमक्रमः


॥ श्रीः ॥
ॐ श्री रामजयः

॥ श्रीमद्रामायणपारायणोपक्रमक्रमः ॥

॥ स्मार्तसम्प्रदायः ॥ शुक्काम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥ वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे। यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥ दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण। भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानासमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥ कूजन्तं राम रामेति मधुरं मधुराक्षरम्। आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्॥ वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः। शृण्वन् रामकथानादं को न याति परां गतिम्॥ यः पिबन् सततं रामचरितामृतसागरम्। अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम्॥ गोष्पदीकृतवाराशिं मशकीकृतराक्षसम्। रामायणमहामालारत्नं वन्देऽनिलात्मजम्॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम्। कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम्॥ उल्लुज्ज्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः। आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम्॥ आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम्। पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम्॥ यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्। बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम्॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्। वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि॥ यः कर्णा अलिसम्पुटैरहरहः सम्यक् पिबत्यादराद् वाल्मीकेर्वदनारविन्दगलितं रामायणाख्यं मधु। जन्मव्याधिजराविपत्तिमरणैरत्यन्तसोपद्रवं संसारं स विहाय गच्छति पुमान् विष्णोः पदं शाश्वतम्॥ तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम्। रघुवरचरितं मुनिप्रणीतं दशशिरसञ्च वधं निशामयध्वम्॥ वाल्मीकिगिरिसम्भूता रामसागरगामिनी। पुनातु भुवनं पुण्या रामायणमहानदी॥ श्लोकसारसमाकीर्ण सर्गकलोलसंकुलम्। काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ॥ वेदवेद्ये परे पुंसि जाते दशरथात्मजे। वेदः प्राचेतसादासीत् साक्षाद्रामायणात्मना॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम्। अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम्॥ वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रासुतः शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेषु च। सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान् मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम्॥ नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै। नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः॥ ॥ श्रीवैष्णवसम्प्रदायः॥ कूजन्तं राम रामेति मधुरं मधुराक्षरम्। आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्॥ वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः। शृण्वन् रामकथानादं को न याति परां गतिम्॥ यः पिबन् सततं रामचरितामृतसागरम्। अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम्॥ गोष्पदीकृतवाराशिं मशकीकृतराक्षसम्। रामायणमहामालारत्नं वन्देऽनिलात्मजम्॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम्। कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम्॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्। वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि॥ उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शौकवह्निं जनकात्मजायाः। आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम्॥ आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम्॥ यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्। बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम्॥ वेदवेद्ये परे पुंसि जाते दशरथात्मजे। वेदः प्राचेतसादासीत् साक्षाद्रामायणात्मना॥ तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम्। रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम्॥ श्रीराघवं दशरथात्मजमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपम्॥ आजानुबाहुमरविन्ददलायताक्षं रामं निशाचरविनाशकरं नमामि॥ वैदेहीसहितं सुरद्रमतले हैमे महामण्डपे मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम्। अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिमिः परिवृतं रामं भजे श्यामलम्॥ ॥माध्वसम्प्रदायः॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥ लक्ष्मीनारायणं वन्दे तद्भक्तप्रवरो हि यः। श्रीमदानन्दतीर्थाख्यो गुरुस्तं च नमाम्यहम्॥ वेदे रामायणे चैव पुराणे भारते तथा। आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते॥ सर्वविघ्नप्रशमनं सर्वसिद्धिकरं परम्। सर्वजीवप्रणेतारं वन्दे विजयदं हरिम्॥ सर्वाभीष्टप्रदं रामं सर्वारिष्टनिवारकम्। जानकीजानिमनिशं वन्दॆ मद्गुरुवन्दितम्॥ अभ्रमं भङ्गरहितमजडं विमलं सदा। आनन्दतीर्थमतुलं भजे तापत्रयापहम्॥ भवति यद्नुभावादेडमूकोऽपि वाग्मी जडमतिरपि जन्तुर्जायते प्राज्ञमौलिः॥ सकलवचनचेतोदेवता भारती सा मम वचसि विधत्तां संनिधिं मानसे च॥ मिथ्यासिद्धान्तदुर्ध्वान्तविध्वंसनविचक्षणः। जयतीर्थाख्यतरणिर्भासतां नो हृदम्बरे॥ चित्रैः पदैश्च गम्भीरैर्वाक्यैर्मानैरखण्डितैः। गुरुभावं व्यञ्जयन्ती भाति श्रीजयतीर्थवाक्॥ कूजन्तं राम रामेति मधुरं मधुराक्षरम्। आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्॥ वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः। शृण्वन् रामकथानादं को न याति परां गतिम्॥ यः पिबन् सततं रामचरितामृतसागरम्। अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम्॥ गोष्पदीकृतवाराशिं मशकीकृतराक्षसस्। रामायणमहामालारत्नं वन्देऽनिलात्मजम्॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम्। कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम्॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्। वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि॥ उल्लङ्घय सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः। आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम्॥ आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम्। पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम्॥ यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्। बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम्॥ वेदवेद्ये परे पुंसि जाते दशरथात्मजे। वेदः प्राचेतसादासीत् साक्षाद्रामायणात्मना॥ आपदामपहर्तारं दातारं सर्वसम्पदाम्। लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्॥ तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम्। रघुवरचरितं मुनिप्रणीतं दशशिरसच वधं निशामयध्वम्॥ वैदेहीसहितं सुरद्रुमतले है महामण्ड मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम्। अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम्॥ वन्दे वन्द्यं विधिभवमहेन्द्रादिवृन्दारकेन्द्रैः व्यक्तं व्याप्तं स्वगुणगणतो देशतः कालतश्च। धूतावद्यं सुखचितिमयैर्मङ्गलैर्युक्तमङ्गैः सानाथ्यं नो विदधदधिकं ब्रह्म नारायणाख्यम्॥ भूषारत्नं भुवनवलयस्याखिलाश्चर्यरत्नं लीलारत्नं जलधिदुहितुर्देवतामौलिरत्नम्। चिन्तारत्नं जगति भजतां सत्सरोजधुरत्नं कौसल्याया लसतु मम हृन्मण्डले पुत्ररत्नम्॥ महाव्याकरणाम्भोधिमन्थमानसमन्दरम्। कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे॥ मुख्यप्राणाय भीमाय नमो यस्य भुजान्तरम्। नानावीरसुवर्णानां निकषाश्मायितं बभौ॥ स्वान्तस्स्थानन्तशय्याय पूर्णज्ञानमहार्णसे। उत्तुङ्गवाक्तरङ्गाय मध्वदुग्धाब्धये नमः॥ वाल्मीकेर्गौः पुनीयान्नो महीधरपदाश्रया। यद्दुग्धमुपजीवन्ति कवयस्तर्णका इव॥ सूक्तिरत्नाकरे रम्ये मूलरामायणार्णवे। विहरन्तो महायांसः प्रीयन्तां गुरवो मम॥ हयग्रीव हयग्रीव हयग्रीवेति यो वदेत्। तस्य निस्सरते वाणी जह्नुकन्याप्रवाहवत्॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध