home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

अष्टनवतितमः सर्गः ॥२-९८॥

॥रामान्वेषणम्॥

[ भरतकर्तृका श्रीरामाश्रममन्वेष्टुं व्यवस्था तेनाश्रमस्य दर्शनं च ]

निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः। अभिगन्तुं स काकुत्थ्समियेष गुरुवर्तकम्॥ १॥ निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्। भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत्॥ २॥ क्षिप्रं वनमिदं सौम्य नरसङ्घैः समन्ततः। लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि॥ ३॥ गुहो ज्ञातिसहस्रेण शरचापासिधारिणा। समन्वेषतु काकुत्स्थमस्मिन् परिवृतः स्वयम्॥ ४॥ अमात्यैः सह पौरैश्च गुरुभिश्च द्विजातिभिः। वनं सर्वं चरिष्यामि पद्भ्यां परिवृतःस्वयम्॥ ५॥ यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्। वैदेहीं च महाभागां न मे शान्तिर्भविष्यति॥ ६॥ यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम्। भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति॥ ७॥ यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ। प्रग्रहीष्यामि शिरसा न मे शान्तिर्भविष्यति॥ ८॥ यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः। अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्यति॥ ९॥ सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलोपमम्। मुखं पश्यति रामस्य राजीवाक्षं महाद्युति॥ १०॥ कृतकृत्या महाभागा वैदेही जनकात्मजा। भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति॥ ११॥ सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः। यस्मिन्वसति काकुत्स्थः कुबेर इव नन्दने॥ १२॥ कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्। यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः॥ १३॥ एवमुक्त्वा महातेजा भरतः पुरषर्षभः। पद्भ्यामेव महाबाहुः प्रविवेश महाद्वनम्॥ १४॥ स तानि द्रुमजालानि जातानि गिरिसानुषु। पुष्पिताग्राणि मध्येन जगाम वदतां वरः॥ १५॥ स गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम्। रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम्॥ १६॥ तं दृष्ट्वा भरतः श्रीमान् मुमोद सहबान्धवः। अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः॥ १७॥ स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम्। गुहेन सार्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा॥ १८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे रामान्वेषणं नाम अष्टनवतितमः सर्गः॥२-९८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध