तां तथा गर्हयित्वा तु मातरं भरतस्तदा। रोषेण महताऽविष्टः पुनरेवाब्रवीद्वचः॥ १॥ राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि। परित्यक्ता च धर्मेण मा मृतं रुदती भव॥ २॥ किं नु तेऽदूषयद्राजा रामो वा भृशधार्मिकः। ययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ॥ ३॥ भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात्। कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम्॥ ४॥ यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा। सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम्॥ ५॥ त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितः। अयशो जीवलोके च त्वयाहं प्रतिपादितः॥ ६॥ मातृरूपे ममामित्रे नृशंसे राज्यकामुके। न तेऽहमभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि॥ ७॥ कौसल्या च सुमित्रा च याश्चान्या मम मातरः। दुःखेन महताविष्टास्त्वां प्राप्य कुलदूषिणीम्॥ ८॥ न त्वमश्वपतेः कन्या धर्मराजस्य धीमतः। राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः॥ ९॥ यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः। वनं प्रस्थापितो दुःखात् पिता च त्रिदिवं गतः॥ १०॥ यत्प्रधानासि तत्पापं मयि पित्रा विनाकृते। भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये॥ ११॥ कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये। कृत्वा कं प्राप्यसे त्वद्य लोकं निरयगामिनि॥ १२॥ किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम्। ज्येष्ठं पितृसमं रामं कौसल्यातनुसम्भवम्॥ १३॥ अङगप्रत्यङगजः पुत्रो हृदयाच्चापि जायते। तस्मात् प्रियतमो मातुः प्रिया एव तु बान्धवाः॥ १४॥ अन्यदा किल धर्मज्ञा सुरभिः सुरसम्मता। वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ॥ १५॥ तावर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले। रुरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा॥ १६॥ अधस्ताद्व्रजतस्तस्याः सुरराज्ञो महात्मनः। बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः॥ १७॥ इन्द्रोऽप्यश्रुनिपातं तं स्वगात्रे पुण्यगन्धिनम्। सुरभिं मन्यते दृष्ट्वा भूयसीं तां सुरेश्वरः॥ १८॥ निरीक्षमाणः शक्रस्तां ददर्श सुरभिं स्थिताम्। आकाशे विष्ठितां दीनां रुदन्तीं भृशदुःखिताम्॥ १९॥ तां दृष्ट्वा शोकसन्तप्तां वज्रपाणिर्यशस्विनीम्। इन्द्रः प्राञ्जलिरुद्विग्नः सुरराजोऽब्रवीद्वचः॥ २०॥ भयं कच्छिन्न चास्मासु कुतश्चिद्विद्यते महत्। कुतोऽनिमित्तः शोकस्ते ब्रूहि सर्वहितैषिणि॥ २१॥ एवमुक्ता तु सुरभिः सुरराजेन धीमता। प्रत्युवाच ततो धीरा वाक्यं वाक्यविशारदा॥ २२॥ शान्तं पापं न वः किञ्चित् कुतश्चिदमराधिपः। अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ॥ २३॥ एतौ दृष्ट्वा कृशौ दीनौ सूर्यरश्मिप्रतापितौ। अर्द्यमानौ बलीवर्धौ कर्षकेण सुराधिप॥ २४॥ मम कायात् प्रसूतौ हि दुःखितौ भारपीडितौ। यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः॥ २५॥ यस्याः पुत्रसहस्रैस्तु कृत्स्नं व्याप्तमिदं जगत्। तां दृष्ट्वा रुदतीं शक्रो न सुतान्मन्यते परम्॥ २६॥ सदाप्रतिमवृत्ताया लोकधारणकाम्यया। श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया॥ २७॥ यस्याः पुत्रसहस्राणि सापि शोचति कामधुक्। किं पुनर्या विना रामं कौसल्या वर्तयिष्यति॥ २८॥ एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता। तस्मात्त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे॥ २९॥ अहं ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम्। वर्धनं यशसश्चापि करिष्यामि न संशयः॥ ३०॥ अनाय्य च महाबाहुं कौसल्याया महाबलम्। स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम्॥ ३१॥ न ह्यहं पापसङ्कल्पे पापे पापं त्वया कृतम्। शक्तो धारयितुं पौरैरश्रुकण्ठैर्निरीक्षितः॥ ३२॥ सा त्वमग्निं प्रविश वा स्वयं वा दण्डकान् विश। रज्जुं बधान वा कण्ठे न हि तेऽन्यत् परायणम्॥ ३३॥ अहमप्यवनीं प्राप्ते रामे सत्यपराक्रमे। कृतकृत्यो भविष्यामि विप्रवासितकल्मषः॥ ३४॥ इति नाग इवारण्ये तोमराङ्कुशचोदितः। पपात भुवि सङ्कृद्धो निःश्वसन्निव पन्नगः॥ ३५॥ संरक्तनेत्रः शिथिलाम्भरस्तदा विधूतसर्वाभरणः परन्तपः। बभूव भूमौ पतितो नृपात्मजः शचीपतेः केतुरिवोत्सवक्षये॥ ३६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे कैकेय्याक्रोशो नाम चतुस्सप्ततितमः सर्गः॥२-७४॥