home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

चतुश्चत्वारिंशः सर्गः ॥२-४४॥

॥सुमित्राश्वासनम्॥

[ सुमित्रया कौसल्याया आश्वासनम् ]

विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम्। इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत्॥ १॥ तवार्ये सद्‍गुणैर्युक्तः पुत्रः स पुरुषोत्तमः। किं ते विलपितेनैवं कृपणं रुदितेन वा॥ २॥ यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः। साधु कुर्वन् महात्मानं पितरं सत्यवादिनम्॥ ३॥ शिष्टैराचरिते सम्यक् शश्वत् प्रेत्यफलोदये। रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन॥ ४॥ वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदानघः। दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः॥ ५॥ अरण्यवासे यद् दुःखं जानती वै सुखोचिता। अनुगच्छति वैदेही धर्मात्मानं तवात्मजम्॥ ६॥ कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः। दमसत्यव्रतधनः किं न प्राप्तस्तवात्मजः॥ ७॥ व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम्। न गात्रमंशुभिः सूर्यः संतापयितुमर्हति॥ ८॥ शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः। राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः॥ ९॥ शयानमनघं रात्रौ पितेवाभिपरिष्वजन्। रश्मिभिः संस्पृशन् शीतैश्चन्द्रमा ह्लादयिष्यति॥ १०॥ ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे। दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे॥ ११॥ स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः। असंत्रस्तोऽप्यरण्यस्थो वेश्मनीव निवत्स्यति॥ १२॥ यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः। कथं न पृथिवी तस्य शासने स्थातुमर्हति॥ १३॥ या श्रीः शौर्यं च रामस्य या च कल्याणसत्त्वता। निवृत्तारण्यवासः स क्षिप्रं राज्यमवाप्स्यति॥ १४॥ सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः। श्रियाः श्रीश्च भवेदग्र्या कीर्त्याः कीर्तिः क्षमाक्षमा॥ १५॥ दैवतं देवतानां च भूतानां भूतसत्तमः। तस्य के ह्यगुणा देवि वने वाप्यथ वा परे॥ १६॥ पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः। क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते॥ १७॥ दुःखजं विसृजन्त्यस्त्रं निष्क्रामन्तमुदीक्ष्य यम्। अयोध्यायां जनाः सर्वे शोकवेगसमाहताः॥ १८॥ कुशचीरधरं वीरं गच्छन्तमपराजितम्। सीतेवानुगता लक्ष्मीस्तस्य किं नाम दुर्लभम्॥ १९॥ धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत् स्वयम्। लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम्॥ २०॥ निवृत्तवनवासं तं द्रष्टासि पुनरागतम्। जहि शोकं च मोहं च देवि सत्यं ब्रवीमि ते॥ २१॥ शिरसा चरणावेतौ वन्दमानमनिन्दिते। पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम्॥ २२॥ पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम्। समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः॥ २३॥ मा शोको देवि दुःखं वा न रामे दृश्यतेऽशिवम्। क्षिप्रं द्रक्ष्यसि पुत्रं त्वं ससीतं सहलक्ष्मणम्॥ २४॥ त्वयाऽशेषो जनश्चायं समाश्वास्यो सदानघे। कमिदानीमिदं देवि करोषि हृदि विक्लबम्॥ २५॥ नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः। न हि रामात् परो लोके विद्यते सत्पथे स्थितः॥ २६॥ अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम्। मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी॥ २७॥ पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः। पाणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति॥ २८॥ अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम्। मुदास्रैः प्रोक्ष्यसि पुनर्मेघराजिरिवाचलम्॥ २९॥ आश्वासयन्ती विविधैश्च वाक्यै- र्वाक्योपचारे कुशलानवद्या। रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा॥ ३०॥ निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्न्याः। सद्यः शरीरे विननाश शोकः शरद्‍गतो मेघ इवाल्पतोयः॥ ३१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे सुमित्राश्वासनं नाम चतुश्चत्वारिंशः सर्गः ॥२-४४॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध