home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

द्विचत्वारिंशः सर्गः ॥२-४२॥

॥दशरथाक्रन्दः॥

[ राज्ञो भुवि निपतनं श्रीरामस्य कृते विलपनं च, कैकेयीकर्तृकनिजाङ्गस्पर्शस्य राज्ञा निषेधः कैकेय्याः परित्यागश्च कौसल्यायाः सेवकानां च सहकारेण तस्य कौसल्याभवने गमनं तत्रापि श्रीरामस्य कृते तेन दुःखस्यैवानुभवकरणम् ]

यावत् तु निर्यतस्तस्य रजोरूपमदृश्यत। नैवेक्ष्वाकुवरस्तावत् संजहारात्मचक्षुषी॥ १॥ यावद् राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम्। तावद् व्यवर्धतेवास्य धरण्यां पुत्रदर्शने॥ २॥ न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः। तदार्तश्च विषण्णश्च पपात धरणीतले॥ ३॥ तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना। वामं चास्यान्वगात् पाहुं कैकेयी भरतप्रिया॥ ४॥ तां नयेन च सम्पन्नो धर्मेण विनयेन च। उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः॥ ५॥ कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी। न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी॥ ६॥ ये च त्वामनुजीवन्ति नाहं तेषां न ते मम। केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम्॥ ७॥ अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत्। अनुजानामि तत् सर्वमस्मिँल्लोके परत्र च॥ ८॥ भरतश्चेत् प्रतीतः स्याद् राज्यं प्राप्येदमव्ययम्। यन्मे स दद्यात् पित्रर्थं मा मां तद्दत्तमागमत्॥ ९॥ अथ रेणुसमुद‍्ध्वस्तं समुत्थाप्य नराधिपम्। न्यवर्तत तदा देवी कौसल्या शोककर्शिता॥ १०॥ हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना। अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसम्॥ ११॥ निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु। राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा॥ १२॥ विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन्। नगरान्तमनुप्राप्तं बुद्‍ध्वा पुत्रमथाब्रवीत्॥ १३॥ वाहनानां च मुख्यानां वहतां तं ममात्मजम्। पदानि पथि दृश्यन्ते स महात्मा न दृश्यते॥ १४॥ यः सुखेषूपधानेषु शेते चन्दनरूषितः। वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः॥ १५॥ स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः। काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते॥ १६॥ उत्थास्यति च मेदिन्याः कृपणः पांसुगुण्ठितः। विनिश्वसन् प्रस्रवणात् करेणूनामिवर्षभः॥ १७॥ द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः। राममुत्थाय गच्छन्तं लोकनाथमनाथवत्॥ १८॥ सा नूनं जनकस्येष्टा सुता सुखसदोचिता। कण्टकाक्रमणक्लान्ता वनमद्य गमिष्यति॥ १९॥ अनभिज्ञा वनानां सा नूनं भयमुपैष्यति। श्वपदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम्॥ २०॥ सकामा भव कैकेयि विधवा राज्यमावस। न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे॥ २१॥ इत्येवं विलपन् राजा जनौघेनाभिसंवृतः। अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम्॥ २२॥ शून्यचत्वरवेश्मान्तां संवृतापणदेवताम्। क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम्॥ २३॥ तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन्। विलपन् प्राविशद् राजा गृहं सूर्य इवाम्बुदम्॥ २४॥ महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम्। रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च॥ २५॥ अथ गद्‍गदशब्दस्तु विलपन् मनुजाधिपः। उवाच मृदु मन्दार्थं वचनं दीनमस्वरम्॥ २६॥ कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम्। नह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति॥ २७॥ इति ब्रुवन्तं राजानमनयन् द्वारदर्शिनः। कौसल्याया गृहं तत्र न्यवेस्यत विनीतवत्॥ २८॥ ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम्। अधिरुह्यापि शयनं बभूव लुलितं मनः॥ २९॥ पुत्रद्वयविहीनं च स्नुषयापि विवर्जितम्। अपश्यद् भवनं राजा नष्टचन्द्रमिवाम्बरम्॥ ३०॥ तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान्। उच्चैः स्वरेण चुक्रोश हा राघव जहासि नौ॥ ३१॥ सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः। परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम्॥ ३२॥ अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः। अर्धरात्रे दशरथः कौसल्यामिदमब्रवीत्॥ ३३॥ रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते। न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश॥ ३४॥ तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम्। उपोपविश्याधिकमार्तरूपा विनिश्वसन्ती विललाप कृच्छ्रम्॥ ३५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे दशरथाक्रन्दो नाम द्विचत्वारिंशः सर्गः ॥२-४२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध