तस्यां चीरं वसानायां नाथवत्यामनाथवत्। प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्विति॥ १॥ तेन तत्र प्रणादेन दुःखितः स महीपतिः। चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः॥ २॥ स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्। कैकेयि कुशचीरेण न सीता गन्तुमर्हति॥ ३॥ सुकुमारा च बाला च सततं च सुखोचिता। नेयं वनस्य योग्येति सत्यमाह गुरुर्मम॥ ४॥ इयं हि कस्यापकरोति किञ्चित् तपस्विनी राजवरस्य कन्या। या चीरमासाद्य जनस्य मध्ये स्थिता विसंज्ञा श्रमणीव काचित् ॥ ५॥ चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा। यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः॥ ६॥ अजीवनार्हेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत्। त्वया हि बाल्यात् प्रतिपन्नमेतत् तन्मां दहेद् वेणुमिवात्मपुष्पम्॥ ७॥ रामेण यदि ते पापे किञ्चित् कृतमशोभनम्। अपकारः क इह ते वैदेह्या दर्शितोऽथ मे॥ ८॥ मृगीवोत्फुल्लनयना मृदुशीला तपस्विनी। अपकारं कमिह ते करोति जनकात्मजा॥ ९॥ ननु पर्याप्तमेतत्ते पापे रामविवासनम्। किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः॥ १०॥ प्रतिज्ञातं मया तावत् त्वयोक्तं देवि शृण्वता। रामं यदभिषेकाय त्वमिहागतमब्रवीः॥ ११॥ तत्त्वेतत् समतिक्रम्य निरयं गन्तुमिच्छसि। मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम्॥ १२॥ इतीव राजा विलपन् महात्मा शोकस्य नान्तं स ददर्श किञ्चित्। भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसने निमग्नः॥ १३॥ एवं ब्रुवन्तं पितरं रामः सम्प्रस्थितो वनम्। अवाक्शिरसमासीनमिदं वचनमब्रवीत्॥ १४॥ इयं धार्मिक कौसल्या मम माता यशस्विनी। वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते॥ १५॥ मया विहीनां वरद प्रपन्नां शोकसागरम्। अदृष्टपूर्वव्यसनां भूयः सम्मन्तुमर्हसि॥ १६॥ पुत्रशोकं यथा नर्च्छेत् त्वया पूज्येन पूजिता। मां हि संचिन्तयन्तीयं त्वयि जीवेत् तपस्विनी॥ १७॥ इमां महेन्द्रोपम जातगर्धिनीं तथा विधातुं जननीं ममार्हसि। यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत्॥ १८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे जनाक्रोशो नाम अष्टात्रिंशः सर्गः ॥२-३८॥