सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा। वनवासनिमित्ताय भर्तारमिदमब्रवीत्॥ १॥ सा तमुत्तमसंविग्ना सीता विपुलवक्षसम्। प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम्॥ २॥ किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः। राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम्॥ ३॥ अनृतं बत लोकोऽयमज्ञानाद् यद्धि वक्ष्यति। तेजो नास्ति परं रामे तपतीव दिवाकरे॥ ४॥ किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते। यत् परित्यक्तुकामस्त्वं मामनन्यपरायणाम्॥ ५॥ द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम्। सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम्॥ ६॥ न त्वहं मनसाप्यन्यं द्रष्टास्मि त्वदृतेऽनघ। त्वया राघव गच्छेयं यथान्या कुलपांसनी॥ ७॥ स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम्। शैलूष इव मां राम परेभ्यो दातुमिच्छसि॥ ८॥ यस्य पथ्यं च रामात्थ यस्य चार्थेऽवरुध्यसे। त्वं तस्य भव वश्यश्च विधेयश्च सदानघ॥ ९॥ स मामनादाय वनं न त्वं प्रस्थितुमर्हसि। तपो वा यदि वारण्यं स्वर्गो वा स्यात् त्वया सह॥ १०॥ न च मे भविता तत्र कश्चित् पथि परिश्रमः। पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव॥ ११॥ कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः। तूलाजिनसमस्पर्शा मार्गे मम सह त्वया॥ १२॥ महावातसमुद्धूतं यन्मामवकरिष्यति। रजो रमण तन्मन्ये परार्ध्यमिव चन्दनम्॥ १३॥ शाद्वलेषु यदा शिश्ये वनान्ते वनगोचरा। कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः॥ १४॥ पत्रं मूलं फलं यत्वमल्पं वा यदि वा बहु। दास्यसे स्वयमाहृत्य तन्मेऽमृतरसोपमम्॥ १५॥ न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः। आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च॥ १६॥ न च तत्र गतं किञ्चिद् द्रष्टुमर्हसि विप्रियम्। मत्कृते न च ते शोको न भविष्यामि दुर्भरा॥ १७॥ यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना। इति जानन् परां प्रीतिं गच्छ राम मया सह॥ १८॥ अथ मामेवमव्यग्रां वनं नैव नयिष्यसि। विषमद्यैव पास्यामि मा वशं द्विषतां वशम्॥ १९॥ पश्चादपि हि दुःखेन मम नैवास्ति जीवितम्। उज्झितायास्त्वया नाथ तदैव मरणं वरम्॥ २०॥ इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे। किं पुनर्दश वर्षाणि त्रीणि चैकं च दुःखिता॥ २१॥ इति सा शोकसंतप्ता विलप्य करुणं बहु। चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम्॥ २२॥ सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना। चिरसंनियतं बाष्पं मुमोचाग्निमिवारणिः॥ २३॥ तस्याः स्फटिकसंकाशं वारि संतापसम्भवम्। नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम्॥ २४॥ तत्सितामलचन्द्राभं मुखमायतलोचनम्। पर्यशुष्यत बाष्पेण जलोद्धृतमिवाम्बुजम्॥ २५॥ तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम्। उवाच वचनं रामः परिविश्वासयंस्तदा॥२६॥ न देवि बत दुःखेन स्वर्गमप्यभिरोचये। न हि मेऽस्ति भयं किञ्चित् स्वयम्भोरिव सर्वतः॥ २७॥ तव सर्वमभिप्रायमविज्ञाय शुभानने। वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे॥ २८॥ यत् सृष्टासि मया सार्धं वनवासाय मैथिलि। न विहातुं मया शक्या कीर्तिरात्मवता यथा॥ २९॥ धर्मस्तु गजनासोरु सद्भिराचरितः पुरा। तं चाहमनुवर्तेऽद्य यथा सूर्यं सुवर्चला॥ ३०॥ न खल्वहं न गच्छेयं वनं जनकनन्दिनि। वचनं तन्नयति मां पितुः सत्योपबृंहितम्॥ ३१॥ एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता। अतश्च तं व्यतिक्रम्य नाहं जीवितुमुत्सहे॥ ३२॥ स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम्। अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते॥ ३३॥ यत्त्रयं तत्त्रयो लोकाः पवित्रं तत्समं भुवि। नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते॥ ३४॥ न सत्यं दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः। तथा बलकराः सीते यथा सेवा पितुर्हिता॥ ३५॥ स्वर्गो धनं वा धान्यं वा विद्या पुत्राः सुखानि च। गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्लभम्॥ ३६॥ देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथा नराः। प्राप्नुवन्ति महात्मानो मातापितृपरायणाः॥ ३७॥ स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः। तथा वर्तितुमिच्छामि स हि धर्मः सनातनः॥ ३८॥ मम सन्ना मतिः सीते त्वां नेतुं दण्डकावनम्। वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता॥ ३९॥ सा हि सृष्टानवद्याङ्गि वनाय मदिरेक्षणे। अनुगच्छस्व मां भीरु सहधर्मचरी भव॥ ४०॥ सर्वथा सदृशं सीते मम स्वस्य कुलस्य च। व्यवसायमनुक्रान्ता सीते त्वमतिशोभनम्॥ ४१॥ आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः। नेदानीं त्वदृते सीते स्वर्गोऽपि मम रोचते॥ ४२॥ ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम्। देहि चाशंसमानेभ्यः संत्वरस्व च मा चिरम्॥ ४३॥ भूषणानि महार्हाणि वरवस्त्राणि यानि च। रमणीयाश्च ये केचित् क्रीडार्थाश्चाप्युपस्कराः॥ ४४॥ शयनीयानि यानानि मम चान्यानि यानि च। देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम्॥ ४५॥ अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः। क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे॥ ४६॥ ततः प्रहृष्टा प्रतिपूर्णमानसा यशस्विनी भर्तुरवेक्ष्य भाषितम्। धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी॥ ४७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे वनगमनाभ्युपपत्तिर्नाम त्रिंशः सर्गः ॥२-३०॥