home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

अष्टाविंशः सर्गः ॥२-२८॥

॥वनदुःखप्रतिबोधनम्॥

[ वनवासे क्लेशं वर्णयता श्रीरामेण सीतायास्तत्र गमनान्निवारणम् ]

स एवं ब्रुवतीं सीतां धर्मज्ञां धर्मवत्सलः। न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन्॥ १॥ सान्त्वयित्वा पुनस्तां तु बाष्पपर्याकिलेक्षणाम्। निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह॥ २॥ सीते महाकुलीनासि धर्मे च निरता सदा। इहाचरस्व धर्मं त्वं यथा मे मनसः सुखम्॥ ३॥ सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले। वने दोषा हि बहवो वसतस्तान् निबोध मे॥ ४॥ सीते विमुच्यतामेषा वनवासकृता मतिः। बहुदोषं हि कान्तारं वनमित्यभिधीयते॥ ५॥ हितबुद‍्ध्या खलु वचो मयैतदभिधीयते। सदा सुखं न जानामि दुःखमेव सदा वनम्॥ ६॥ गिरिनिर्झरसम्भूता गिरिकन्दरवासिनाम्। सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम्॥ ७॥ क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये महामृगाः। दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम्॥ ८॥ सग्राहाः सरितश्चैव पङ्कवत्यः सुदुस्तराः। मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम्॥ ९॥ लताकण्टकसंकीर्णाः कृकवाकूपनादिताः। निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम्॥ १०॥ सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले। रात्रिषु श्रमखिन्नेन तस्माद् दुःखतरं वनम्॥ ११॥ अहोरात्रं च संतोषः कर्तव्यो नियतात्मना। फलैर्वृक्षावपतितैः सीते दुःखमतो वनम्॥ १२॥ उपवासश्च कर्तव्यो यथाप्राणेन मैथिलि। जटाभारश्च कर्तव्यो वल्कलाम्बरधारणा॥ १३॥ देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम्। प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम्॥ १४॥ कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः। चरता नियमेनैव तस्माद् दुःखतरं वनम्॥ १५॥ उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः। आर्षेण विधिना वेद्यां बाले दुःखमतो वनम्॥ १६॥ यथालब्धेन संतोषः कर्तव्यस्तेन मैथिलि। यताहारैर्वनचरैर्नित्यं दुःखमतो वनम्॥ १७॥ अतीव वातस्तिमिरं बुभुक्षा चात्र नित्यशः। भयानि च महान्त्यत्र ततो दुःखतरं वनम्॥ १८॥ सरीसृपाश्च बहवो बहुरूपाश्च भामिनि। चरन्ति पृथिवीं दर्पात् ततो दुःखतरं वनम्॥१९॥ नदीनिलयनाः सर्पा नदीकुटिलगामिनः। तिष्ठन्त्यावृत्य पन्थानं ततो दुःखतरं वनम्॥ २०॥ पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह। बाधन्ते नित्यमबले तस्माद्दुःखतरं वनम्॥ २१॥ द्रुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि। वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम्॥ २२॥ कायक्लेशाश्च बहवो भयानि विविधानि च। अरण्यवासे वसतो दुःखमेव ततो वनम्॥ २३॥ क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः। न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम्॥ २४॥ तदलं ते वनं गत्वा क्षेमं न हि वनं तव। विमृशन्निव पश्यामि बहुदोषकरं वनम्॥ २५॥ वनं तु नेतुं न कृता मतिस्तदा बभूव रामेण यदा महात्मना। न तस्य सीता वचनं चकार त त्ततोऽब्रवीद् राममिदं सुदुःखिता॥ २६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे वनदूःखप्रतिबोधनं नाम अष्टाविंशः सर्गः ॥२-२८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध