तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ। आर्तशब्दो महाञ्जज्ञे स्त्रीणामन्तःपुरे तदा॥ १॥ कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च। गतिर्यः शरणं चापि स रामोऽद्य प्रवत्स्यति॥ २॥ कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा। तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः॥ ३॥ न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन्। क्रुद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति॥ ४॥ अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम्। यो गतिं सर्वलोकानां परित्यजति राघवम्॥ ५॥ इति सर्वा महिष्यस्ता विवत्सा इव धेनवः। पतिमाचुक्रुशुश्चापि सस्वनं चापि चुक्रुशुः॥ ६॥ स हि चान्तःपुरे घोरमार्तशब्दं महीपतिः। पुत्रशोकाभिसंतप्तः श्रुत्वा व्यालीयतासने॥ ७॥ रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः। जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी॥ ८॥ सोऽपश्यत् पुरुषं तत्र वृद्धं परमपूजितम्। उपविष्टं गृहद्वारि तिष्ठतश्चापरान् बहून्॥ ९॥ दृष्ट्वैव तु तदा रामं ते सर्वे सहसोस्थिताः। जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम्॥ १०॥ प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः। ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान्॥ ११॥ प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः। स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः॥ १२॥ वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः। न्यवेदयन्त त्वरिता राममातुः प्रियं तदा॥ १३॥ कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता। प्रभाते चाकरोत् पूजां विष्णोः पुत्रहितैषिणी॥१४॥ सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा। अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला॥ १५॥ प्रविश्य तु तदा रामो मातुरन्तःपुरं शुभम्। ददर्श मातरं तत्र हावयन्तीं हुताशनम्॥ १६॥ देवकार्यनिमित्तं च तत्रापश्यत् समुद्यताम्। दध्यक्षतघृतं चैव मोदकान् हविषस्तथा॥ १७॥ लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा। समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः॥ १८॥ तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम्। तर्पयन्तीं ददर्शाद्भिर्देवतां वरवर्णिनीम्॥ १९॥ सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम्। अभिचक्राम संहृष्टा किशोरं बडवा यथा॥ २०॥ स मातरमुपक्रान्तामुपसंगृह्य राघवः। परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्धनि॥ २१॥ तमुवाच दुराधर्षं राघवं सुतमात्मनः। कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः॥ २२॥ वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्। प्राप्नुह्यायुश्च कीर्तिं च धर्मं चाप्युचितं कुले॥ २३॥ सत्यप्रतिज्ञं पितरं राजानं पश्य राघव। अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति॥ २४॥ दत्तमासनमालभ्य भोजनेन निमन्त्रितः। मातरं राघवः किञ्चित् प्रसार्याञ्जलिमब्रवीत्॥ २५॥ स स्वभावविनीतश्च गौरवाच्च तदानतः। प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे॥ २६॥ देवि नूनं न जानीषे महद् भयमुपस्थितम्। इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च॥ २७॥ गमिष्ये दण्डकारण्यं किमनेनासनेन मे। विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः॥ २८॥ चतुर्दश हि वर्षाणि वत्स्याम विजने वने। मधुमूलफलैर्जीवन् हित्वा मुनिवदामिषम्॥ २९॥ भरताय महाराजो यौवराज्यं प्रयच्छति। मां पुनर्दण्डकारण्ये विवासयति तापसम्॥ ३०॥ स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने। आसेवमानो वन्यानि फलमूलैश्च वर्तयन्॥ ३१॥ सा निकृत्तेव सालस्य यष्टिः परशुना वने। पपात सहसा देवी देवतेव दिवश्च्युता॥ ३२॥ तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव। रामस्तूत्थापयामास मातरं गतचेतसम्॥ ३३॥ उपावृत्योत्थितां दीनां बडबामिव वाहिताम्। पांसुकुण्ठितसर्वाङ्गीं विममर्श च पाणिना॥ ३४॥ सा राघवमुपासीनमदुःखार्ता सुखोचिता। उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे॥ ३५॥ यदि पुत्र न जायेथा मम शोकाय राघव। न स्म दुःखमतो भूयः पश्येयमहमप्रजाः॥ ३६॥ एक एव हि वन्ध्यायाः शोको भवति मानसः। अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते॥ ३७॥ न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे। अपि पुत्रे तु पश्येयमिति रामास्थितं मया॥ ३८॥ सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्। अहं श्रोष्ये सपत्नीनामवराणां वरा सती॥ ३९॥ अतो दुःखतरं किं नु प्रमदानां भविष्यति। मम शोको विलापश्च यादृशोऽयमनन्तकः॥ ४०॥ त्वयि संनिहितेऽप्येवमहमासं निराकृता। किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे॥ ४१॥ अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमतन्त्रिता। परिवारेण कैकेय्याः समा वाप्यथवावरा॥ ४२॥ यो हि मां सेवते कश्चिदथ वाप्यनुवर्तते। कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते॥ ४३॥ नित्यक्रोधतया तस्याः कथं नु खरवादि तत्। कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता॥ ४४॥ दश सप्त च वर्षाणि तव जातस्य राघव। अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम्॥ ४५॥ तदक्षयमहं दुःखं नोत्सहे सहितुं चिरात्। विप्रकारं सपत्नीनामेवं जीर्णापि राघव॥ ४६॥ अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम्। कृपणा वर्तयिष्यामि कथं कृपणजीविकाम्॥ ४७॥ उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः। दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया॥ ४८॥ स्थिरं नु हृदयं मन्ये ममेदं यन्न दीर्यते। प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा॥ ४९॥ ममैव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम। यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीमिव॥ ५०॥ स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद् भुवि नावदीर्यते। अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते॥ ५१॥ इदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि। तपश्च तप्तं यदपत्यकारणात् सुनिष्फलं बीजमिवोप्तमूषरे॥ ५२॥ यदि ह्यकाले मरणं स्वयेच्छया लभेत कश्चिद् गुरुदुःखकर्शितः। गताहमद्यैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै॥ ५३॥ अथापि किं जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ। अनुव्रजिष्यामि वनं त्वयैव गौः सुदुर्बला वत्समिवानुकाङ्क्षया॥ ५४॥ भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम्। व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किन्नरी॥ ५५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे कौसल्याक्रन्दो नाम विंशः सर्गः ॥२-२०॥