home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

सप्तदशः सर्गः ॥२-१७॥

॥रामगमनम्॥

[ राजमार्गसुषमामवलोकयतः सुहृदां वचांसि शृण्वतश्च श्रीरामस्य पितुर्भवने प्रवेशः ]

स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः। पताकाध्वजसम्पन्नं महार्हागुरुधूपितम्॥ १॥ अपश्यन्नगरं श्रीमान् नानाजनसमाकुलम्। स गृहैरभ्रसंकाशैः पाण्डरैरुपशोभितम्॥ २॥ राजमार्गं ययौ रामो मध्येनागरुधूपितम्। चन्दनानां च मुख्यानामगुरूणां च संचयैः॥ ३॥ उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च। अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि॥ ४॥ शोभमानमसम्बाधं तं राजपथमुत्तमम्। संवृतं विविधैः पुष्यैर्भक्ष्यैरुच्चावचैरपि॥ ५॥ ददर्श तं राजपथं दिवि देवपथं यथा। दध्यक्षतहविर्लाजैर्धूपैरगरुचन्दनैः॥ ६॥ नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम्। आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान्॥ ७॥ यथार्हं चापि सम्पूज्य सर्वानेव नरान् ययौ। पितामहैराचरितं तथैव प्रपितामहैः॥ ८॥ अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय। यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः। ततः सुखतरं रामे वत्स्याम सति राजनि॥ ९॥ अलमद्य हि भुक्तेन परमार्थैरलं च नः। यथा पयेम निर्यान्तं रामं राज्ये प्रतिष्ठितम्॥ १०॥ ततो हि नः प्रियतरं नान्यत् किञ्चिद् भविष्यति। यथाभिषेको रामस्य राज्येनामिततेजसः॥ ११॥ एताश्चान्याश्च सुहृदामुदासीनः कथाःशुभाः। आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम्॥ १२॥ न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्। नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे॥ १३॥ यश्च रामं न पश्येत्तु यं च रामो न पश्यति। निन्दितः स भर्वलोके स्वात्माप्येनं विगर्हते॥ १४॥ सर्वेषु हि स धर्मात्मा वर्णानां कुरुते दयाम्। चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः॥ १६॥ चतुष्पथान् देवपथांश्चैत्यांन्यायतनानि च। प्रदक्षिणं परिहरन् जगाम नृपतेः सुतः॥ १६॥ स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः। प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः॥ १७॥ आवारयद्भिर्गगनं विमानैरिव पाण्डरैः। वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः॥ १८॥ तत् पृथिव्यां गृहवरं महेन्द्रभवनोपमम्। राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन्॥ १९॥ स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः। पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः॥ २०॥ स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः। संनिवर्त्य जनं सर्वं शुद्धान्तं पुरभ्यगात्॥ २१॥ ततः प्रविष्टे पितुरन्तिकं तदा जनः स सर्वो मुदितो नृपात्मजे। प्रतीक्षते तस्य पुनर्विनिर्गमं यथोदयं चन्द्रमसः सरित्पतिः॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे रामगमनं नाम सप्तदशः सर्गः ॥२-१७॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध