home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

सप्तदशाधिकशततमः सर्गः॥२-११७॥

॥सीतापातिव्रत्यप्रशंशा॥

[ अत्रेराश्रमं गतानां श्रीरामादीनां तेन सत्कारोऽन-सूयया च सीतायाः समादरः ]

राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन्। न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा॥ १॥ इह मे भरतो दृष्टो मातरश्च सनागराः। सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः॥ २॥ स्कन्धावारनिवेशेन तेन तस्य महात्मनः। हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम्॥ ३॥ तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः। प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः॥ ४॥ सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः। तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत॥ ५॥ स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम्। सौमित्रिं च महाभागां सीतां च समसान्त्वयत्॥ ६॥ पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम्। सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः॥ ७॥ आनसूयां महाभागां तापसीं धर्मचारिणीम् प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः॥ ८॥ रामाय चाचचक्षे तां तापसीं धर्मचारिणीम्। दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम्॥ ९॥ यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता। उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता॥ १०॥ दश वर्ष सहास्राणि तया तप्तं महत्तपः। अनसूया व्रतै स्स्नाता प्रत्यूहाश्च निवर्तिताः॥ ११॥ देवकार्यनिमित्तं च यया सन्त्वरमाणया। दशरात्रं कृता रात्रि स्सेयं मातेव तेऽनघ॥ १२॥ तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीम्। अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा॥ १३॥ अनसूयेति या लोके कर्मभिः ख्यातिमागता। एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः॥ १४॥ सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम्। राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम्॥ १५॥ श्रेयोऽर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम्। सीता त्वेतद वचः श्रुत्वा राघवस्य हितैषिणः॥ १६॥ तामत्रिपन्तीं धर्मज्ञामभिचक्राम मैथिली। शिथिलां वलितां वृद्धां जरापाण्डरमूर्धजाम्॥ १७॥ सततं वेपमानाङ्गीं प्रवाते कदलीं यथा। तां तु सीता महाभागामनसूयां पतिव्रताम्॥ १८॥ अभ्यवादयदव्यग्रा स्वं नाम समुदाहरत्। अभिवाद्य च वैदेही तापसीं तामनिन्दिताम्॥ १९॥ बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम्। ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम्॥ २०॥ सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे। त्यक्त्वा ज्ञातिजनं सीते मानमृद्धं च भामिनि॥ २१॥ अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि। नगरस्थो वनस्थो वा शुभो वा यदि वाशुभः॥ २२॥ यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः। दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः॥ २३॥ स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः। नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम्॥ २४॥ सर्वत्र योग्यं वैदेहि तपः कृतमिवाव्ययम्। न त्वेवमवगच्छन्ति गुणदोषमसत्त्स्रियः॥ २५॥ कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः। प्राप्नुवन्त्य यशश्चैव धर्मभ्रंशं च मैथिलि॥ २६॥ अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः। त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः॥ २७॥ स्त्रिय स्स्वर्गे चरिष्यन्ति यथा धर्मकृतस्तथा। तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी। भव स्वभर्तुः सहधर्मचारिणी यशश्च धर्मं च ततः समाप्स्यसि॥ २८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे सीरापातिव्रत्यप्रशंसा नाम सप्तदशाधिकशततमः सर्गः॥२-११७॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध