ततो निक्षिप्य मातॄः स अयोध्यायां दृढव्रतः। भरतः शोकसन्तप्तो गुरूनिदमथाब्रवीत्॥ १॥ नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः। तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना॥ २॥ गतश्च वा दिवं राजा वनस्थश्च गुरुर्मम। रामं प्रतीक्षे राज्याय स हि राजा महायशाः॥ ३॥ एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः। अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः॥ ४॥ सदृशं श्लाघनीयं च यदुक्तं भरत त्वया। वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत्॥ ५॥ नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे। आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान्॥ ६॥ मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम्। अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति॥ ७॥ प्रहृष्टवदन स्सर्वा मातॄः समभिवाद्य सः। आरुरोह रथं श्रीमाञ्शत्रुघ्नेन समन्वितः॥ ८॥ आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ। ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः॥ ९॥ अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजाः। प्रययुः प्राङ्ग्मुखाः सर्वे नन्दिग्रामो यतोऽभवत्॥ १०॥ बलं च तदनाहूतं गजाश्वरथसङ्कुलम्। प्रययौ भरते याते सर्वे च पुरवासिनः॥ ११॥ रथस्थः स हि धर्मात्मा भरतो भ्रातृवत्सलः। नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके॥ १२॥ ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः। अवतीर्य रथात्तूर्णं गुरूनिदमुवाच ह॥ १३॥ एतद्राज्यं मम भ्रात्रा दत्तं सन्नयासवत् स्वयम्। योगक्षेमवहे तस्य पादुके हेमभूषिते॥ १४॥ भरतः शिरसा कृत्वा सन्न्यासं पादुके ततः। अब्रवीद् दुःखसंतप्तः सर्वं प्रकृतिमण्डलम्॥ १५॥ छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ। आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम॥ १६॥ भ्रात्रा हि मयि सन्न्यासो निक्षिप्तः सौहृदादयम्। तमिमं पालयिष्यामि राघवागमनं प्रति॥ १७॥ क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम्। चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ॥ १८॥ ततो निक्षिप्तभारोऽहं राघवेण समागतः। निवेद्य गुरवे राज्यं भजिष्ये गुरुवर्तिताम्॥ १९॥ राघवाय च सन्न्यासं दत्त्वेमे वरपादुके। राज्यं चेदमयोध्यां च धूतपापो भवाम्यहम्॥ २०॥ अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने। प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम्॥ २१॥ एवं तु विलपन् दीनो भरतः स महायशाः। नन्दिग्रामेऽकरोद्राज्यं दुःखितो मन्त्रिभिः सह॥ २२॥ स वल्कलजटाधारी मुनिवेषधरः प्रभुः। नन्दिग्रामेऽवसद्वीरः ससैन्यो भरतस्तदा॥ २३॥ रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सलः। भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा॥ २४॥ पादुके त्वभिषिच्याथ नन्दिग्रामेऽवसत्तदा। सवालव्यजनं छत्रं धारयामास स स्वयम्॥ २५॥ भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयन्। ततस्तु भरतः श्रीमानभिषिच्यार्यपादुके॥ २६॥ तदधीनस्तदा राज्यं कारयामास सर्वदा। यदा हि यत् कार्यमुपैति किञ्चि- दुपायनं चोपहृतं महार्हम्। स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत्॥ २७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे नन्दिग्रामनिवासो नाम पञ्चदशाधिकशततमः सर्गः॥२-११५॥