home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

त्रयोसडाधिकशततमः सर्गः॥२-११३॥

॥पादुकाग्रहणम्॥

[ भरद्वाजेन सह मिलित्वा भरतस्यायोध्यां प्रति निवर्त्तनम् ]

ततः शिरसि कृत्वा तु पादुके भरतस्तदा। आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः॥ १॥ वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः। अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः॥ २॥ मन्दाकिनीं नदीं पुण्यां प्राङ्मुखास्ते ययुस्तदा। प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम्॥ ३॥ पश्यन् धातुसहस्राणि रम्याणि विविधानि च। प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा॥ ४॥ अदूराच्चित्रकूटस्य ददर्श भरतस्तदा। आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः॥ ५॥ स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान्। अवतीर्य रथात् पादौ ववन्दे कुलनदनः॥ ६॥ ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत्। अपि कृत्यं कृतं तात रामेण च समागतम्॥ ७॥ एवमुक्तस्तु भरतो भरद्वाजेन धीमता। प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सलः॥ ८॥ स याच्यमानो गुरुणा मया च दृढविक्रमः। राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत्॥ ९॥ पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः। चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम॥ १०॥ एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह। वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत्॥ ११॥ एते प्रयच्छ संहृष्टः पादुके हेमभूषिते। अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव॥ १२॥ एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः। पादुके ह्यधिरुह्यैते मम राज्याय वै ददौ॥ १३॥ निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना। अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे॥ १४॥ एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः। भरद्वाजः शुभतरं मुनिर्वाक्यमुवाच तम्॥ १५॥ नैतच्चित्रं नरव्याघ्रे शीलवृत्तवतां वरे। यदार्यं त्वयि तिष्ठेत्तु निम्नोत्सृष्टमिवोदकम्॥ १६॥ अनृणः स महाबाहुः पिता दशरथस्तव। यस्य त्वमीदृश: पुत्रो धर्मज्ञो धर्मवत्सलः॥ १७॥ तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः। आमन्त्रयितुमारेभे चरणावुपगृह्य च॥ १८॥ ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः। भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः॥ १९॥ यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः। पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी॥ २० ॥ ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम्। ददृशुस्तां पुनः सर्वे गङ्गां शुभजलां नदीम्॥ २१॥ तां पुण्यजलसंपूर्णां सन्तीर्य सहबान्धवः शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिकः॥ २२॥ शृङ्गिबेरपुराद्भूयस्त्वयोध्यां सन्ददर्श ह। अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम्॥ २३॥ भरतो दुःखसन्तप्तः सरथिं चेदमब्रवीत्। सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते॥ २४॥ निराकारा निरानन्दा दीना प्रतिहतस्वरा। ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे पादुकाग्रहणं नाम त्रयोदशाधिकशततमः सर्गः॥२-११३॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध