तं मन्मथशरैर्विद्धं कामवेगवशानुगम्। उवाच पृथिवीपालं कैकेयी दारुणं वचः॥ १॥ नास्मि विप्रकृता देव केनचिन्नावमानिता। अभिप्रायस्तु मे कश्चित् तमिच्छामि त्वया कृतम्॥ २॥ प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि। अथ तद् व्याहरिष्यामि यदभिप्रार्थितं मया॥ ३॥ तामुवाच महाराजः कैकेयीमीषदुत्स्मितः। कामी हस्तेन संगृह्य मूर्धजेषु शुचिस्मिताम्॥ ४॥ अवलिप्ते न जानासि त्वत्तः प्रियतरो मम। मनुजो मनुजव्याघ्राद् रामादन्यो न विद्यते॥५॥ तेनाजय्येन मुख्येन राघवेण महात्मना। शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि॥ ६॥ यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम्। तेन रामेण कैकेयि शपे ते वचनक्रियाम्॥ ७॥ आत्मना वात्मजैश्चान्यैर्वृणे यं मनुजर्षभम्। तेन रामेण कैकेयि शपे ते वचनक्रियाम्॥ ८॥ भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे। एतत् समीक्ष्य कैकेयि ब्रूहि यत् साधु मन्यसे॥ ९॥ बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि। करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे॥ १०॥ सा तदर्थमना देवी तमभिप्रायमागतम्। निर्माध्यस्थ्यात् प्रहर्षाच्च बभाषे दुर्वचं वचः॥ ११॥ तेन वाक्येन संहृष्टा तमभिप्रायमात्मनः। व्याजहार महाघोरमभ्यागतमिवान्तकम्॥ १२॥ यथा क्रमेण शपसि वरं मम ददासि च। तच्छृण्वन्तु त्रयस्त्रिंशद् देवाः साग्निपुरोगमाः॥ १३॥ चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः। जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा॥ १४॥ निशाचराणि भूतानि गृहेषु गृहदेवताः। यानि चान्यानि भूतानि जानीयुर्भाषितं तव॥ १५॥ सत्यसंधो महातेजा धर्मज्ञः सुसमाहितः। वरं मम ददात्येष तन्मे शृण्वन्तु दैवताः॥ १६॥ इति देवी महेष्वासं परिगृह्याभिशस्य च। ततः परमुवाचेदं वरदं काममोहितम्॥ १७॥ स्मर राजन् पुरा वृत्तं तस्मिन् देवासुरे रणे। तत्र त्व च्यावयच्छत्रुस्तव जीवितमन्तरा॥ १८॥ तत्र चापि मया देव यत् त्वं समभिरक्षितः। जाग्रत्या यतमानायास्ततो मे प्राददा वरौ॥ १९॥ तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम्। तवैव पृथिवीपाल सकाशे सत्यसंगर॥ २०॥ तत् प्रतिश्रुत्य धर्मेण न चेद् दास्यसि मे वरम्। अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता॥ २१॥ वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः। प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः॥ २२॥ ततः परमुवाचेदं वरदं काममोहितम्। वरौ यौ मे त्वया देव तदा दत्तौ महीपते॥ २३॥ तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः। योऽभिषेकसमारम्भो राघवस्योपकल्पितः॥ २४॥ अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम्। यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया॥ २५॥ तदा दैवासुरे युद्धे तस्य कालोऽयमागतः। नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः॥ २६॥ चीराजिनटाधारी रामो भवतु तापसः। भरतो भजतामद्य यौवराज्यमकण्टकम्॥ २७॥ एष मे परमः कामो दत्तमेव वरं वृणे। अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम्॥ २८॥ स राजराजो भव सत्यसंगरः कुलं च शीलं च हि रक्ष जन्म च। परत्र वासे हि वदन्त्यनुत्तमं तपोधनाः सत्यवचो हितं नृणाम्॥ २९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे वरद्वयनिर्बन्धो नाम एकादशः सर्गः ॥२-११॥