home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

एकाधिकशततमः सर्गः ॥२-१०१॥

॥पितृदिष्टान्तश्रवणम्॥

[ श्रीरामस्य भरतं प्रति वनागमनहेतुविषयिकी जिज्ञासा, भरतस्य तं प्रति राज्यग्रहणाय प्रार्थना, श्रीरामेण तदस्वीकरणम् ]

रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह। किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति॥ १॥ शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ। ज्येष्ठे पुत्रे स्थिते राजाn कनीयान् न भवेन्नृपः॥ २॥ स समृद्धां मया सार्धमयोध्यां गच्छ राघव। अभिषेचय चात्मानं कुलस्यास्य भवाय नः॥ ३॥ राजानं मानुषं प्राहुर्देवत्वे सम्मतो मम। यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम्॥ ४॥ केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते। दिवमार्यो गतो राजा यायजूक: सतां मतः॥ ५॥ निष्क्रान्तमात्रे भवति सहसीते सहलक्ष्मणे। दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात्॥ ६॥ उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः। अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ॥ ७॥ प्रियेण खलु दत्तं हि पितृलोकेषु राघव। अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः॥ ८॥ त्वामेव शोचंस्तव दर्शनेप्सुस्- त्वय्येव सक्तामनिवर्त्य बुद्धिम्। त्वया विहीनस्तव शोकमग्णस्- त्वां संस्मरन्नस्तमितः पिता ते॥ ९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे पिरृदिष्टान्तश्रवणं नाम एकाधिकशततमः सर्गः॥२-१०१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध