त्रयीं
तिस्त्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा -
नकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृतिः ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं
व्यस्तं
त्वां शरणद गृणात्योमिति पदम् ॥२७॥
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां -
स्तथां भीमेशानाविति यदभिधानाष्टकमिदम्
।
अमुष्मिन्प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मै धाम्ने
प्रविहितनमस्योSस्मि
भवते ॥२८॥
नमो
नेदिष्ठाय प्रियदव दविष्ठाय च नमो
नमः
क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः
।
नमो
वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो
नमः
सर्वस्मै ते तदिदमिति शर्वाय च नमः
॥२९॥
बहलरजसे
विश्वोत्पत्तौ भवाय नमो नमः
प्रबलतमसे तत्संहारे हराय नमो नमः
।
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय
नमो
नमः ॥३०॥
कृशपरिणति
चेतः क्लेशवश्यं क्व चेदम्
क्व
च तव गुणसीमोल्लंधिनी
शश्वदृद्धिः
इति
चकितममंदिकृत्य माम् भक्तिराधाद्
वरद
चरणयोस्ते वाक्यपुष्पोपहारम् ॥३१॥
असितगिरिसमं स्यात् कज्जलं सिंधुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्वि
।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति
॥३२॥
असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले -
र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य
।
सकलगणवरिष्ठः पुष्पदन्ताभिधानो
रुचिरमलधुवृत्तैः स्तोत्रमेतच्चकार ॥३३॥