अहरहरनवद्यं धूर्जटेः स्तोत्रमेतद्
पठति परमभक्त्या शुद्धचित्तः पुमान् यः
।
स
भवति शिवलोके रुद्रतुल्यस्तथाSत्र
प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च
॥३४॥
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।
अघोरान्नापरो मंत्रो नास्ति
तत्त्वं गुरोः परम् ॥३५॥
दीक्षा
दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः ।
महिम्नस्तव पाठस्य कलां
नार्हन्ति षोडशीम् ॥३६॥
कुसुमदशननामा सर्वगन्धर्वराजः
शशिधरवरमौलेर्देवदेवस्य दासः ।
स
खलु
निजमहिम्नो
भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्नः
॥३७॥
सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्यः प्रांजलिर्नान्यचेताः
।
व्रजति शिवसमीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्तप्रणीतम्
॥३८॥
आसमाप्तमिदं स्तोत्रं पुण्यं गंधर्वभाषितम् ।
अनौपम्यं
मनोहारि
शिवमीश्वरवर्णनम् ॥३९॥
इत्येषा
वाड्.मयी पूजा श्रीमच्छंकरपादयोः ।
अर्पिता तेन देवेशः प्रीयतां मे
सदाशिवः ॥४०॥
तव तत्त्वं
न जानामि कीद्शोSसि
महेश्वर ।
याद्शोSसि
महादेव ताद्शाय नमो नमः
॥४१॥
एककालं
द्विकालं वा त्रिकालं यः पठेन्नरः ।
सर्वपापविनिर्मुक्तः शिवलोके
महीयते ॥४२॥