\Sanskrit Shri Shiva Mahimna Stotram\              
Page 4 of  7


(See Marathi, English and Comparative Mahimna)

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धां बद्ध्वा दृटपरिकरः कर्मसु जनः ॥२०॥

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता -

मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः ।
क्रतुभ्रंषस्त्वत्तः क्रतुफलविधानव्यसनिनो
ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥२१॥

प्रजानाथं नाथ प्रसममभिकं स्वां दुहितरं

गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेSद्यापि त्यजति न मृगव्याधरभसः ॥२२॥

स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत्

पुरः प्लुष्टं दृष्टवा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं देवी यमनिरतदेहार्धघटना -
दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥२३॥

स्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचरा -

श्चिताभस्मालेपः सर् गपि नृकरोटीपरिकरः
अमंगल्यं शीलं तव भवतु नामैवमखिलं
तथाSपि स्मर्तृणां वरद परमं मंगलमसि ॥२४॥ 

मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः
प्रह्रष्यद्रोमाणः प्रमदसलिलोत्संगितदृशः ।
यदालोक्याह्लादं ह्रद इव निमज्ज्यामृतमये
दधत्यंतस्तत्त्वं किमपि यमिनस्तत्किल भवान् ॥२५॥

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह -
स्त्वमापस्त्वं व्योम त्वमु  धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं
विद्मस्तत्तत्वं वयमिह तु यत्त्वं न भवसि ॥२६॥

Page 4 of  7
(See Marathi, English and Comparative Mahimna)
               \Sanskrit Shri Shiva Mahimna Stotram\              
 

 Home     Pray    Sing    Think    Meet

Hosted by www.Geocities.ws

1