।
स
कल्माषः
कण्ठे
तव
न
कुरुते
न
श्रियमहो
विकारोSपि
श्लाध्यो
भुवनभयभंगव्यसनिनः
॥१४॥
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य
विशिखाः ।
स
पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि
वशिषु
पथ्यः परिभवः ॥१५॥
मही
पादाधाताद् व्रजति सहसा संशयपदं
पदं
विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।
मुहुद्यौंर्दोस्थ्यं
यात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥१६॥
वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः
प्रवाहो वारां यः पृषतलघु दृष्टः शिरसि
ते
।
जगद् द्वीपाकारं जलधिवलयं तेन कृतमि -
त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव
वपुः ॥१७॥
रथः क्षोणी
यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाड्.गे चन्द्रार्कौ रथचरणपाणिः शर
इति
।
दिधक्षोस्ते कोSयं
त्रिपुरतृणमाडम्बरविधिर् -
विधेयैः क्रीडन्त्यो न खलु
परतन्त्राः प्रभुधियः ॥१८॥
हरिस्ते
साहस्त्रं कमलबलिमाधाय पदयोर् -
यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम्
।
गतो
भकत्युद्रेकः परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्ति
जगताम् ॥१९॥
Page