अजन्मानो
लोकाः किमवयववंतोSपि
जगता -
मधिष्ठातारं किं भवविधिरनादृत्य भवति
।
अनीशो वा कुर्याद् भुवनजनने कः परिकरो
यतो
मंदास्त्वां प्रत्यमरवर संशेरत
इमे
॥६॥
त्रयी सांख्यं योगः
पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः
पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि
पयसामर्णव इव ॥७॥
महोक्षः
खड्वांगं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तंत्रोपकरणम्
।
सुरास्तां तामृद्धिं दधति तु भवद्भ्रूप्रणिहितां
न
हि स्वात्मारामं
विषयमृगतृष्णा भ्रमयति ॥८॥
ध्रुवं
कश्चित्सर्वं सकलमपरस्त्वद्ध्रुवमिदं
परो
ध्रोव्याध्रोव्ये जगति गदति
व्यस्तविषये ।
समस्तेSप्येतस्मिन्पुरमथन
तैर्विस्मित इव
स्तुवं जिह्रेमि त्वां
न खलु ननु धृष्टा मुखरता ॥९॥
तवैश्वर्यं
यत्नाद्यदुपरि विरिंचिर्हरिरधः
परिच्छेतुं यातावनलमनलस्कंधवपुषः
।
ततो
भक्तिश्रद्धाभरगुरु गृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न
फलति ॥१०॥
अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद्बाहूनभृत रणकंडुपरवशान्
।
शिरःपद्मश्रेणीरचितचरणांभोरुहबलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर
विस्फूर्जितमिदम् ॥११॥
अमुष्य
त्वत्सेवासमधिगतसारं भुजवनं
बलात्कैलासेSपि
त्वदधिवसतौ विक्रमयतः
।
अलभ्या पातालेSप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः ॥१२॥
Page 2 of 7
(See Marathi, English and
Comparative Mahimna)
\Sanskrit
Shri Shiva Mahimna Stotram\
