श्री
शिवमहिम्नस्तोत्रम्
\
नमः शिवाय
।
अथ
श्रीपुष्पदंतविरचितं श्रीशिवमहिम्नः स्तोत्रम् ।
श्री
पुष्पदंत डवाच ।
महिम्नः
पारं ते
परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि
गिरः ।
अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येषः
स्तोत्रे
हर निरपवादः परिकरः ॥१॥
अतीतः पंथानं तव च महिमा वाड्.मनसयो -
रतद्व्यावृत्या यं चकितमभिधत्ते श्रुतिरपि
।
स
कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे
त्वर्वाचीने पतति न मनः कस्य न
वचः
॥२॥
मधुस्फीता वाचः परमममृतं निर्मितवत -
स्तव ब्रह्मन्किं वागपि
सुरगुरोर्विस्मयपदम् ।
मम
त्वेतां वाणीं गुणकथनपुण्येन
भवतः
पुनामीत्यर्थेSस्मिन्
पुरमथन बुद्धिर्व्यवसिता ॥३॥
तवैश्चर्यें
यत्तद्
जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तु
व्यस्तं
तिसृषु
गुणभिन्नासु
तनुषु
।
अभव्यानामस्मिन्
वरद
रमणीयामरमणीं
विहंतुं
व्याक्रोशीं
विदधत
इहैके
जडधियः
॥४॥
किमिहः
किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति
च ।
अतकर्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः
कुतर्कोSयं
कांश्चिन्मुखरयति
मोहाय जगतः
॥५॥
Page 1 of 7
(See Marathi, English and
Comparative Mahimna)
\Sanskrit
Shri Shiva Mahimna Stotram\ 