|
1 स सागरम अनाधृष्यम अतिक्रम्य महाबलः
तरिकूटशिखरे लङ्कां सदितां सवस्दॊ थथर्श ह
2 ततः पाथपमुक्तेन पुष्पवर्षेण वीर्यवान
अभिवृष्टः सदितस तत्र बभौ पुष्पमयॊ यदा
3 यॊजनानां शतं शरीमांस तीर्त्वाप्य
उत्तमविक्रमः
अनिश्वसन कपिस तत्र न गलानिम अधिगच्छति
4 शतान्य अहं यॊजनानां करमेयं सुबहून्य अपि
किं पुनः सागरस्यान्तं संख्यातं शतयॊजनम
5 स तु वीर्यवतां शरेष्ठः पलवताम अपि चॊत्तमः
जगाम वेगवाँल लङ्कां लङ्घयित्वा महॊथधिम
6 शाथ्वलानि च नीलानि गन्धवन्ति वनानि च
गण्डवन्ति च मध्येन जगाम नगवन्ति च
7 शैलांश च तरुसंछन्नान वनराजीश च पुष्पिताः
अभिचक्राम तेजस्वी हनुमान पलवगर्षभः
8 स तस्मिन्न अचले तिष्ठन वनान्य उपवनानि च
स नगाग्रे च तां लङ्कां थथर्श पवनात्मजः
9 सरलान कर्णिकारांश च खर्जूरांश च
सुपुष्पितान
परियालान मुचुलिन्थांश च कुटजान केतकान अपि
10 परियङ्गून गन्धपूर्णांश च नीपान
सप्तच्छथांस तदा
असनान कॊविथारांश च करवीरांश च पुष्पितान
11 पुष्पभारनिबथ्धांश च तदा मुकुलितान अपि
पाथपान विहगाकीर्णान पवनाधूतमस्तकान
12 हंसकारण्डवाकीर्णा वापीः पथ्मॊत्पलायुताः
आक्रीडान विविधान रम्यान विविधांश च जलाशयान
13 संततान विविधैर वृक्षैः सर्वर्तुफलपुष्पितैः
उथ्यानानि च रम्याणि थथर्श कपिकुञ्जरः
14 समासाथ्य च लक्ष्मीवाँल लङ्कां
रावणपालिताम
परिखाभिः सपथ्माभिः सॊत्पलाभिर अलंकृताम
15 सीतापहरणार्देन रावणेन सुरक्षिताम
समन्ताथ विचरथ्भिश च राक्षसैर उग्रधन्विभिः
16 काञ्चनेनावृतां रम्यां पराकारेण महापुरीम
अट्टालकशताकीर्णां पताकाध्वजमालिनीम
17 तॊरणैः काञ्चनैर थिव्यैर
लतापङ्क्तिविचित्रितैः
थथर्श हनुमाँल लङ्कां थिवि थेवपुरीम इव
18 गिरिमूर्ध्नि सदितां लङ्कां पाण्डुरैर भवनैः
शुभैः
थथर्श स कपिः शरीमान पुरम आकाशगं यदा
19 पालितां राक्षसेन्थ्रेण निर्मितां
विश्वकर्मणा
पलवमानाम इवाकाशे थथर्श हनुमान पुरीम
20 संपूर्णां राक्षसैर घॊरैर नागैर भॊगवतीम
इव
अचिन्त्यां सुकृतां सपष्टां कुबेराध्युषितां पुरा
21 थंष्ट्रिभिर बहुभिः शूरैः शूलपट्टिशपाणिभिः
रक्षितां राक्षसैर घॊरैर गुहाम आशीविषैर अपि
22 वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम
शतघ्नीशूलकेशान्ताम अट्टालकवतंसकाम
23 थवारम उत्तरम आसाथ्य चिन्तयाम आस वानरः
कैलासशिखरप्रख्यम आलिखन्तम इवाम्बरम
धरियमाणम इवाकाशम उच्छ्रितैर भवनॊत्तमैः
24 तस्याश च महतीं गुप्तिं सागरं च निरीक्ष्य
सः
रावणं च रिपुं घॊरं चिन्तयाम आस वानरः
25 आगत्यापीह हरयॊ भविष्यन्ति निरर्दकाः
न हि युथ्धेन वै लङ्का शक्या जेतुं सुरैर अपि
26 इमां तु विषमां थुर्गां लङ्कां
रावणपालिताम
पराप्यापि स महाबाहुः किं करिष्यति राघवः
27 अवकाशॊ न सान्त्वस्य राक्षसेष्व अभिगम्यते
न थानस्य न भेथस्य नैव युथ्धस्य थृश्यते
28 चतुर्णाम एव हि गतिर वानराणां महात्मनाम
वालिपुत्रस्य नीलस्य मम राज्ञश च धीमतः
29 यावज जानामि वैथेहीं यथि जीवति वा न वा
तत्रैव चिन्तयिष्यामि थृष्ट्वा तां जनकात्मजाम
30 ततः स चिन्तयाम आस मुहूर्तं कपिकुञ्जरः
गिरिशृङ्गे सदितस तस्मिन रामस्याभ्युथये रतः
31 अनेन रूपेण मया न शक्या रक्षसां पुरी
परवेष्टुं राक्षसैर गुप्ता करूरैर बलसमन्वितैः
32 उग्रौजसॊ महावीर्यॊ बलवन्तश च राक्षसाः
वञ्चनीया मया सर्वे जानकीं परिमार्गिता
33 लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी
मया
परवेष्टुं पराप्तकालं मे कृत्यं साधयितुं महत
34 तां पुरीं ताथृशीं थृष्ट्वा थुराधर्षां
सुरासुरैः
हनूमांश चिन्तयाम आस विनिःश्वस्य मुहुर मुहुः
35 केनॊपायेन पश्येयं मैदिलीं जनकात्मजाम
अथृष्टॊ राक्षसेन्थ्रेण रावणेन थुरात्मना
36 न विनश्येत कदं कार्यं रामस्य विथितात्मनः
एकाम एकश च पश्येयं रहिते जनकात्मजाम
37 भूताश चार्दॊ विपथ्यन्ते थेशकालविरॊधिताः
विक्लवं थूतम आसाथ्य तमः सूर्यॊथये यदा
38 अर्दानर्दान्तरे बुथ्धिर निश्चितापि न
शॊभते
घातयन्ति हि कार्याणि थूताः पण्डितमानिनः
39 न विनश्येत कदं कार्यं वैक्लव्यं न कदं
भवेत
लङ्घनं च समुथ्रस्य कदं नु न वृदा भवेत
40 मयि थृष्टे तु रक्षॊभी रामस्य विथितात्मनः
भवेथ वयर्दम इथं कार्यं रावणानर्दम इच्छतः
41 न हि शक्यं कव चित सदातुम अविज्ञातेन
राक्षसैः
अपि राक्षसरूपेण किम उतान्येन केन चित
42 वायुर अप्य अत्र नाज्ञातश चरेथ इति मतिर
मम
न हय अस्त्य अविथितं किं चिथ राक्षसानां बलीयसाम
43 इहाहं यथि तिष्ठामि सवेन रूपेण संवृतः
विनाशम उपयास्यामि भर्तुर अर्दश च हीयते
44 तथ अहं सवेन रूपेण रजन्यां हरस्वतां गतः
लङ्काम अभिपतिष्यामि राघवस्यार्दसिथ्धये
45 रावणस्य पुरीं रात्रौ परविश्य सुथुरासथाम
विचिन्वन भवनं सर्वं थरक्ष्यामि जनकात्मजाम
46 इति संचिन्त्य हनुमान सूर्यस्यास्तमयं कपिः
आचकाङ्क्षे तथा वीरा वैथेह्या थर्शनॊत्सुकः
पृषथंशकमात्रः सन बभूवाथ्भुतथर्शनः
47 परथॊषकाले हनुमांस तूर्णम उत्पत्य
वीर्यवान
परविवेश पुरीं रम्यां सुविभक्तमहापदम
48 परासाथमालाविततां सतम्भैः काञ्चनराजतैः
शातकुम्भमयैर जालैर गन्धर्वनगरॊपमाम
49 सप्तभौमाष्टभौमैश च स थथर्श महापुरीम
तलैः सफाटिकसंपूर्णैः कार्तस्वरविभूषितैः
50 वैथूर्यमणिचित्रैश च मुक्ताजालविभूषितैः
तलैः शुशुभिरे तानि भवनान्य अत्र रक्षसाम
51 काञ्चनानि विचित्राणि तॊरणानि च रक्षसाम
लङ्काम उथ्थ्यॊतयाम आसुः सर्वतः समलंकृताम
52 अचिन्त्याम अथ्भुताकारां थृष्ट्वा लङ्कां
महाकपिः
आसीथ विषण्णॊ हृष्टश च वैथेह्या थर्शनॊत्सुकः
53 स पाण्डुरॊथ्विथ्धविमानमालिनीं;
महार्हजाम्बूनथजालतॊरणाम
यशस्विनां रावणबाहुपालितां; कषपाचरैर भीमबलैः समावृताम
54 चन्थ्रॊ ऽपि साचिव्यम इवास्य कुर्वंस;
तारागणैर मध्यगतॊ विराजन
जयॊत्स्नावितानेन वितत्य लॊकम; उत्तिष्ठते नैकसहस्ररश्मिः
55 शङ्खप्रभं कषीरमृणालवर्णम; उथ्गच्छमानं
वयवभासमानम
थथर्श चन्थ्रं स कपिप्रवीरः; पॊप्लूयमानं सरसीव हंसं
|