home-vayusutha:
banner

Sri Vishnu Sahasranama Parayana Book VII

mantra pShpam, svasti vAcanam


॥ मन्त्रपुष्पम् ॥ योऽपां पुष्पं वेद। पुष्पवान् प्रजावान् पशुमान् भवति। चन्द्रमा वा अपां पुष्पम्। पुष्पवान् प्रजावान् पशुमान् भवति। य एवं वेद। योऽपामायतनं वेद। आयतनवान् भवति। अग्निर्वा अपामायतनम्। आयतनवान् भवति। योऽग्नेरायतनं वेद। आयतनवान् भवति। आपो वा अग्नेरायतनम्। आयतनवान् भवति। य एवं वेद। योऽपामायतनं वेद। आयतनवान् भवति। वायुर्वा अपामायतनम्। आयतनवान् भवति। यो वायोरायतनं वेद। आयतनवान् भवति। आपो वै वायोरायतनम्। आयतनवान् भवति। य एवं वेद। योऽपामायतनं वेद। आयतनवान् भवति। असौ वै तपन्नपामायतनम्। आयतनवान् भवति। योऽमुष्य तपत आयतनं वेद। आयतनवान् भवति। आपो वा अमुष्य तपत आयतनम्। आयतनवान् भवति। य एवं वेद। योऽपामायतनं वेद। आयतनवान् भवति। चन्द्रमा वा अपामायतनम्। आयतनवान् भवति। यश्चन्द्रमस आयतनं वेद। आयतनवान् भवति। आपॊ वै चन्द्रमस आयतनम्। आयतनवान् भवति। य एवं वेद। योऽपामायतनं वेद। आयतनवान् भवति। नक्षत्राणि वा अपामायतनम्। आयतनवान् भवति। यो नक्षत्राणामायतनं वेद। आयतनवान् भवति। आपो वै नक्षत्राणामायतनम्। आयतनवान् भवति। य एवं वेद।। योऽपामायतनं वेद। आयतनवान् भवति। पर्जन्यो वा अपामायतनम्। आयतनवान् भवति। यः पर्जन्य॑स्यायतनं वेद॑। आयतनवान् भवति। आपो वै पर्जन्यस्याऽऽयतनम्।। आयतनवान् भवति। य एवं वेद। योऽपामायतनं वेद।। आयतनवान् भवति। संवत्सरो वा अपामायतनम्। आयतनवान् भवति। यस्संवत्सरस्यायतनं वेद। आयतनवान् भवति। आपो वै संवत्सरस्यायतनम्। आयतनवान् भवति। य एवं वेद। योऽप्सु नावं प्रतिष्ठितां वेद। प्रत्येव तिष्ठति।। राजाधिराजाय प्रसह्यसाहिने। नमो वयं वैश्रवणाय कुर्महे। समेकामान्कामकामाय मह्य्म्। कामेश्वरो वैश्रवणो ददातु। कुबेराय वैश्रवणाय। महाराजाय नमः। न कमणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः। परेण नाकं निहितं गुहायां वेभ्राजदेतद्यतयो विशन्ति॥ वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयश्शुद्धसत्त्वाः। ते ब्रह्मलोके तु परान्तकाले परामृतात्पारिमुच्यन्ति सर्वे॥ दह्रं विपापं परमेऽश्मभूतं यत्पुण्डरीकं पुरमध्यसँस्थम्। तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्॥ यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः। तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः॥ यो वेतां ब्रह्मणो वेद अमृदेनावृतां पुरीम्। तस्मै ब्रह्म च ब्रह्मा च आयुः कीर्तिः प्रजान्ददुः॥ ॥ मन्त्रपुष्पं समर्पयामि॥
॥ स्वस्तिवाचनम् ॥ श्रीर्वर्चस्वमायुष्यमारोग्यमाविधाच्छाच्छोभमानं महीयते। धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः॥ आनन्दो ब्रह्मेति व्यजानात्। आनन्दाद्येव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति। आनन्दं प्रतिन्त्यभिसंविशन्तीति। सैषा भार्गवी वारुणी विद्या। परमे व्योमन् प्रतिष्ठिता। स य एवं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन। महान् कीर्त्या॥
॥ शुभमस्तु॥