Sri Vishnu Sahasranama Parayana
Anjaneya stOtram, kShamaprArthna stOtram, parayana samapana
॥आञ्जनेयस्तोत्रम्॥
अञ्जनानन्दनं वीरं जानकीशोकनाशनम्।
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम्॥ १॥
उल्लङ्घ्य सिन्धोः सलिलं सलीलं य: शोकवह्निं जनकात्मजाया:।
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम्॥ २॥
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम्।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम्॥ ३॥
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्।
बाष्पवारिपरिपूर्णलॊचनं मारुतिं नमत राक्षसान्तकम्॥ ४॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि॥ ५॥
बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता।
अजाड्यं वाक्पटुत्वञ्च हनूमत्स्मरणाद्भवेत्॥ ६॥
॥ पारायण-समापन ॥
स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्म्ना वा प्रकृतेः स्वभावात्।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत्।
तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते॥
विसर्गबिन्दुमात्राणि पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
श्री विष्णु सहस्रनाम-समापन क्रमः
पारायण-समापन क्रम:
॥ चतुर्विंशति नामा ॥
ओं श्रीकेशवाय नमः
ओं नारायणाय नमः
ओं माधवाय नमः
ओं गोविन्दाय नमः
ओं विष्णवे नमः
ओं मधुसूदनाय नमः
ओं त्रिविक्रमाय नमः
ओं वामनाय नमः
ओं श्रीधराय नमः
ओं हृषीकेशाय नमः 10
ओं पद्मनाभाय नमः
ओं दामोदराय नमः
ओं संकर्षणाय नमः
ओं प्रद्युम्नाय नमः
ओं वासुदेवाय नमः
ओं अनिरुद्धाय नमः
ओं पुरुषोत्तमाय नमः
ओं अधोक्षजाय नमः
ओं नारसिंहाय नमः
ओं अच्युताय नमः 20
ओं जनार्दनाय नमः
ओं उपेन्द्राय नमः
ओं हरये नमः
ओं श्रीकृष्णाय नमः 24
ॐ तच्छंयोरावृणीमहे। गातुं यज्ञाय। गातुं यज्ञपतये।
दैवी स्वास्तिरस्तु नः।
स्वास्ति-र्मानुषेभ्यः। ऊर्ध्वं जिगातु भेषजम्।
शं नो अस्तु द्विपदे। शं चतुष्पदे।
ओं शान्तिः शान्तिः शान्तिः॥