Sri Vishnu Sahasranama Parayana
SrI dvAdaSanAmapJjra stOtram; sahasranAma samApana stOtram
श्रीद्वादशनामपञ्जरस्तोत्रम्
पुरस्तात् केशवः पातु चक्री जाम्बूनदप्रभः।
पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः॥ १ ॥
इन्दीवरदळश्यामो माधवोर्ध्वं गदाधरः।
गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान्॥ २ ॥
उत्तरे हलभृद्विष्णुः पद्मकिञ्जल्कसन्निभः।
आग्नेय्यामरविन्दाभो मुसली मधुसूदनः॥ ३ ॥
त्रिविक्रमः खड्गपाणिर्निऋत्यां ज्वलनप्रभः।
वायव्यां वामनो वज्री तरुणादित्यदीप्तिमान्॥ ४ ॥
ऐशान्यां पुण्डरीकाभः श्रीधरः पट्टसायुधः।
विद्युत्प्रभो हृषीकेशो ह्यवाच्यां दिशि मुद्गरी॥ ५ ॥
हृत्पद्मे पद्मनाभो मे सहस्रार्कसमप्रभः।
सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतोमुखः॥ ६ ॥
इन्द्रगोपकसङ्काशः पाशहस्तोऽपराजितः।
स बाह्याभ्यन्तरं देहं व्याप्य दामोदरः स्थितः॥ ७ ॥
एवं सर्वत्र मच्छिद्रं नामद्वादशपञ्जरम्।
प्रविष्टोऽहं न मे किञ्चिद् भयमस्ति कदाचन॥ ८ ॥
भयं नास्ति कदाचन ओं नम इति ।।
॥ इति श्री द्वादशनामपञ्जरस्तोत्रं संपूर्णम्॥
॥ श्री विष्णु सहस्रनाम-समापन क्रमः ॥
ॐ आपदामपहर्तारं दातारं सर्वसंपदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्॥ १
आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम्।
द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम्॥ २
नमः कोदण्डहस्ताय सन्धीकृतशराय च।
खण्डिताखिलदैत्याय रामायाऽऽपन्निवारिणे॥ ३
रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥ ४
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ।
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ॥ ५
सन्नद्धः कवची खड्गी चापबाणधरो युवा।
गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः॥ ६
अच्युतानन्तगोविन्दनामोच्छारणभेषजात्।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्॥ ७
सत्यं सत्यं पुनः सत्यं उद्धृत्य भुजमुच्यते।
वेदाच्छास्त्रं परं नास्ति न दैवं केशवात्परम् ॥ ८
शरीरे जर्झरीभूते व्याधिग्रस्ते कळेबरे।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः॥ ९
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः।
इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः ॥ १०