Sri Vishnu Sahasranama Parayana Book III
SrI paJcAyudha stOtram; SrI dvAdaSanAmapJjra stOtram; sahasranAma samApana stOtram, SrI sudarSanAShTakam
श्री पञ्चायुधस्तोत्रम्
स्फुरत्सहस्रारशिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम्।
सुरद्विषां प्राणविनाशि विष्णोः चक्रं सदाऽहं शरणं प्रपद्ये॥ १ ॥
विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहन्ता।
तं पाञ्चजन्यं शशिकोटि शुभ्रं शङ्खं सदाऽहं शरणं प्रपद्ये॥ २ ॥
हिरण्मयीं मेरुसमानसारां कौमोदकीं दैत्यकुलैकहन्त्रीम्।
वैकुण्ठवामाग्रकराभिमृष्टां गदां सदाऽहं शरणं प्रपद्ये॥ ३ ॥
रक्षोऽसुराणां कठिनोग्रकण्ठच्छेदक्षरच्छोणितदिग्धधारम्।
तं नन्दकं नाम हरेः प्रदीप्तं खड्गं सदाऽहं शरणं प्रपद्ये॥ ४ ॥
यज्ज्यानिनादश्रवणात् सुराणां चेतांसि निर्मुक्तभयानि सद्यः।
भवन्ति दैत्याशनि बाणवर्षि शाङ्र्गं सदाऽहं शरणं प्रपद्ये॥ ५ ॥
इमं हरेः पञ्चमहायुधानां स्तवं पठेद्योऽनुदिनं प्रभाते।
समस्तदुःखानि भयानि सद्यः पापानि नश्यन्ति सुखानि सन्ति॥ ६ ॥
वने रणे शत्रुजलाग्निमध्ये यदृच्छयापत्सु महाभयेषु।
इदं पठन् स्तोत्रमनाकुलात्मा सुखी भवेत् तत्कृतसर्वरक्षः॥ ७ ॥
॥ इति श्री श्रीपञ्चायुधस्तोत्रं संपूर्णम्॥
श्रीद्वादशनामपञ्जरस्तोत्रम्
पुरस्तात् केशवः पातु चक्री जाम्बूनदप्रभः।
पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः॥ १ ॥
इन्दीवरदळश्यामो माधवोर्ध्वं गदाधरः।
गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान्॥ २ ॥
उत्तरे हलभृद्विष्णुः पद्मकिञ्जल्कसन्निभः।
आग्नेय्यामरविन्दाभो मुसली मधुसूदनः॥ ३ ॥
त्रिविक्रमः खड्गपाणिर्निऋत्यां ज्वलनप्रभः।
वायव्यां वामनो वज्री तरुणादित्यदीप्तिमान्॥ ४ ॥
ऐशान्यां पुण्डरीकाभः श्रीधरः पट्टसायुधः।
विद्युत्प्रभो हृषीकेशो ह्यवाच्यां दिशि मुद्गरी॥ ५ ॥
हृत्पद्मे पद्मनाभो मे सहस्रार्कसमप्रभः।
सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतोमुखः॥ ६ ॥
इन्द्रगोपकसङ्काशः पाशहस्तोऽपराजितः।
स बाह्याभ्यन्तरं देहं व्याप्य दामोदरः स्थितः॥ ७ ॥
एवं सर्वत्र मच्छिद्रं नामद्वादशपञ्जरम्।
प्रविष्टोऽहं न मे किञ्चिद् भयमस्ति कदाचन॥ ८ ॥
भयं नास्ति कदाचन ओं नम इति ।।
॥ इति श्री द्वादशनामपञ्जरस्तोत्रं संपूर्णम्॥
॥ श्री विष्णु सहस्रनाम-समापन क्रमः ॥
ॐ आपदामपहर्तारं दातारं सर्वसंपदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्॥ १
आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम्।
द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम्॥ २
नमः कोदण्डहस्ताय सन्धीकृतशराय च।
खण्डिताखिलदैत्याय रामायाऽऽपन्निवारिणे॥ ३
रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥ ४
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ।
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ॥ ५
सन्नद्धः कवची खड्गी चापबाणधरो युवा।
गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः॥ ६
अच्युतानन्तगोविन्दनामोच्छारणभेषजात्।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्॥ ७
सत्यं सत्यं पुनः सत्यं उद्धृत्य भुजमुच्यते।
वेदाच्छास्त्रं परं नास्ति न दैवं केशवात्परम् ॥ ८
शरीरे जर्झरीभूते व्याधिग्रस्ते कळेबरे।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः॥ ९
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः।
इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः ॥ १०
॥ श्री सुदर्शनाष्टकम् ॥
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
प्रतिभटश्रेणिभीषण वरगुणस्तोमभूषण
जनिभयस्थानतारण जगदवस्थानकारण।
निखिलदुष्कर्म कर्शन निगमसद्धर्म दर्शन
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन॥
शुभजगद्रूपमण्डन सुरगणत्रासखण्डन
शतमखब्रह्मवन्दित शतपथब्रह्मनन्दित।
प्रथितविद्वत्सपक्षित भजदहिर्बुध्न्यलक्षित
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन॥
स्फुटतटिज्जालपिञ्जर पृथुतरज्वालपञ्जर
परिगतप्रतनविग्रह परिमितप्रज्ञदुर्ग्रह।
प्रहरणग्राममण्डित परिजनत्राणपण्डित
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन॥
निजपदप्रीतसद्गण निरुपधिस्फीतषड्गुण
निगमनिर्व्यूढवैभव निजपरव्यूहवैभव।
हरिहय द्वेषिदारण हरपुरप्लोषकारण
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन॥
दनुजविस्तारकर्तन जनितमिस्राविकर्तन
दनुजविद्यानिकर्तन भजदविद्यानिवर्तन।
अमरदृष्टस्वविक्रम समरजुष्टभ्रमिक्रम
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन॥
प्रथिमुखालीढबन्धुर पृथुमहाहेतिदन्तुर
विकटमायबहिष्कृत विविधमालापरिष्कृत।
स्थिरमहायन्त्रतन्त्रित दृढदयातन्त्रयन्त्रित
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन॥
महितसम्पत्सदक्षर विहितसम्पत्षडक्षर
षडरचक्रप्रतिष्ठित सकलतत्त्वप्रतिष्ठित।
विविधसङ्कल्पकल्पक विबुधसङ्कल्पकल्पक
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन॥
भुवननेत्रत्रयीमय सवनतेजस्त्रयीमय
निरवधिस्वादुचिन्मय निखिलशक्तेजगन्मय।
अमितविश्वक्रियामय शमितविश्वग्भयामय
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन॥
फलश्रुतिः
द्विचतुष्कमिदं प्रभूतसारं पठतां वेङ्कटनायकप्रणीतम्।
विषमेऽपि मनोरथः प्रधावन् न विहन्येत रथाङ्ग धुर्य गुप्तः॥
॥ इति श्रीवेदान्तदेशिकविरचितं श्रीसुदर्शनाष्टकं समाप्तम् ॥
कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेषाय वेदान्तगुरवे नमः॥