home-vayusutha:
banner

SRI LALITA ASHTOTTARA-SATA NAMAVALI


॥ श्रीः॥ ॥ श्रीललिताष्टोत्तरशतनामावलिः ॥ ॥ ॐ ऐं ह्रीं श्रीं॥ ॐ रजताचलशृङ्गाग्रमध्यस्थायै नमो नमः । ॐ हिमाचलमहावंशपावनायै नमो नमः । ॐ शङ्करार्धाङ्गसौन्दर्यशरीरायै नमो नमः । ॐ लसन्मरकतस्वच्छविग्रहायै नमो नमः । ॐ महातिशयसौन्दर्यलावण्यायै नमो नमः । ॐ शशाङ्कशेखरप्राणवल्लभायै नमो नमः । ॐ सदापञ्चदशात्मैक्यस्वरूपायै नमो नमः । ॐ वज्रमाणिक्यकटककिरीटायै नमो नमः । ॐ कस्तूरीतिलकोल्लासनिटिलायै नमो नमः । ॐ भस्मरेखाङ्कितलसन्मस्तकायै नमो नमः । 10 ॐ विकचाम्भोरुहदललोचनायै नमो नमः । ॐ शरच्चाम्पेयपुष्पाभनासिकायै नमो नमः । ॐ लसत्काञ्चनताटङ्कयुगलायै नमो नमः । ॐ मणिदर्पणसङ्काशकपोलायै नमो नमः । ॐ ताम्बूलपूरितस्मेरवदनायै नमो नमः । ॐ सुपक्वदाडिमीबीजरदनायै नमो नमः । ॐ कम्बुपूगसमच्छायकन्धरायै नमो नमः । ॐ स्थूलमुक्ताफलोदारसुहारायै नमो नमः । ॐ गिरीशबद्धमाङ्गल्यमङ्गलायै नमो नमः । ॐ पद्मपाशाङ्कुशलसत्कराब्जायै नमो नमः । 20 ॐ पद्मकैरवमन्दारसुमालिन्यै नमो नमः । ॐ सुवर्णकुम्भयुग्माभसुकुचायै नमो नमः । ॐ रमणीयचतुर्बाहुसंयुक्तायै नमो नमः । ॐ कनकाङ्गदकेयूरभूषितायै नमो नमः । ॐ बृहत्सौवर्णसौन्दर्यवसनायै नमो नमः । ॐ बृहन्नितम्बविलसज्जघनायै नमो नमः । ॐ सौभाग्यजातशृङ्गारमध्यमायै नमो नमः । ॐ दिव्यभूषणसन्दोहरञ्जितायै नमो नमः । ॐ पारिजातगुणाधिक्यपदाब्जायै नमो नमः । ॐ सुपद्मरागसङ्काशचरणायै नमो नमः । 30 ॐ कामकोटिमहापद्मपीठस्थायै नमो नमः । ॐ श्रीकण्ठनेत्रकुमुदचन्द्रिकायै नमो नमः । ॐ सचामररमावाणीवीजितायै नमो नमः । ॐ भक्तरक्षणदाक्षिण्यकटाक्षायै नमो नमः । ॐ भूतेशालिङ्गनोद्भूतपुलकाङ्ग्यै नमो नमः । ॐ अनङ्गजनकापाङ्गवीक्षणायै नमो नमः । ॐ ब्रह्मोपेन्द्रशिरोरत्नरञ्जितायै नमो नमः । ॐ शचीमुख्यामरवधूसेवितायै नमो नमः । ॐ लीलाकल्पितब्रह्माण्डमण्डलायै नमो नमः । ॐ अमृतादिमहाशक्तिसंवृतायै नमो नमः । 40 ॐ एकातपत्रसाम्राज्यदायिकायै नमो नमः । ॐ सनकादिसमाराध्यपादुकायै नमो नमः । ॐ देवर्षिभिस्स्तूयमानवैभवायै नमो नमः । ॐ कलशोद्भवदुर्वासःपूजितायै नमो नमः । ॐ मत्तेभवक्त्रषड्वक्त्रवत्सलायै नमो नमः । ॐ चक्रराजमहायन्त्रमध्यवर्तिन्यै नमो नमः । ॐ चिदग्निकुण्डसम्भूतसुदेहायै नमो नमः । ॐ शशाङ्कखण्डसंयुक्तमकुटायै नमो नमः । ॐ मत्तहंसवधूमन्दगमनायै नमो नमः । ॐ वन्दारुजनसन्दोहवन्दितायै नमो नमः । 50 ॐ अन्तर्मुखजनानन्दफलदायै नमो नमः । ॐ पतिव्रताङ्गनाभीष्टफलदायै नमो नमः । ॐ अव्याजकरुणापूरपूरितायै नमो नमः । ॐ नितान्तसच्चिदानन्दसंयुक्तायै नमो नमः । ॐ सहस्रसूर्यसंयुक्तप्रकाशायै नमो नमः । ॐ रत्नचिन्तामणिगृहमध्यस्थायै नमो नमः । ॐ हानिवृद्धिगुणाधिक्यरहितायै नमो नमः । ॐ महापद्माटवीमध्यनिवासायै नमो नमः । ॐ जाग्रत्स्वप्नसुषुप्तीनां साक्षिभूत्यै नमो नमः । ॐ महापापौघपापानां विनाशिन्यै नमो नमः । 60 ॐ दुष्टभीतिमहाभीतिभञ्जनायै नमो नमः । ॐ समस्तदेवदनुजप्रेरकायै नमो नमः । ॐ समस्तहृदयाम्भोजनिलयायै नमो नमः । ॐ अनाहतमहापद्ममन्दिरायै नमो नमः । ॐ सहस्रारसरोजातवासितायै नमो नमः । ॐ पुनरावृत्तिरहितपुरस्थायै नमो नमः । ॐ वाणीगायत्रीसावित्रीसन्नुतायै नमो नमः । ॐ रमाभूमिसुताराध्यपदाब्जायै नमो नमः । ॐ लोपामुद्रार्चितश्रीमच्चरणायै नमो नमः । ॐ सहस्ररतिसौन्दर्यशरीरायै नमो नमः । 70 ॐ भावनामात्रसन्तुष्टहृदयायै नमो नमः । ॐ सत्यसम्पूर्णविज्ञानसिद्धिदायै नमो नमः । ॐ त्रिलोचनकृतोल्लासफलदायै नमो नमः । ॐ श्रीसुधाब्धिमणिद्वीपमध्यगायै नमो नमः । ॐ दक्षाध्वरविनिर्भेदसाधनायै नमो नमः । ॐ श्रीनाथसोदरीभूतशोभितायै नमो नमः । ॐ चन्द्रशेखरभक्तार्तिभञ्जनायै नमो नमः । ॐ सर्वोपाधिविनिर्मुक्तचैतन्यायै नमो नमः । ॐ नामपारयणाभीष्टफलदायै नमो नमः । ॐ सृष्टिस्थितितिरोधानसङ्कल्पायै नमो नमः । 80 ॐ श्रीषोडशाक्षरीमन्त्रमध्यगायै नमो नमः । ॐ अनाद्यन्तस्वयम्भूतदिव्यमूर्त्यै नमो नमः । ॐ भक्तहंसपरिमुख्यवियोगायै नमो नमः । ॐ मातृमण्डलसंयुक्तललितायै नमो नमः । ॐ भण्डदैत्यमहासत्त्वनाशनायै नमो नमः । ॐ क्रूरभण्डशिरच्छेदनिपुणायै नमो नमः । ॐ धात्रच्युतसुराधीशसुखदायै नमो नमः । ॐ चण्डमुण्डनिशुम्भादिखण्डनायै नमो नमः । ॐ रक्ताक्षरक्तजिह्वादिशिक्षणायै नमो नमः । ॐ महिषासुरदोर्वीर्यनिग्रहायै नमो नमः । 90 ॐ अभ्रकेशमहोत्साहकारणायै नमो नमः । ॐ महेशयुक्तनटनतत्परायै नमो नमः । ॐ निजभर्तृमुखाम्भोजचिन्तनायै नमो नमः । ॐ वृषभध्वजविज्ञानभावनायै नमो नमः । ॐ जन्ममृत्युजरारोगभञ्जनायै नमो नमः । ॐ विधेयमुक्तविज्ञानसिद्धिदायै नमो नमः । ॐ कामक्रोधादिषड्वर्गनाशनायै नमो नमः । ॐ राजराजार्चितपदसरोजायै नमो नमः । ॐ सर्ववेदान्तसंसिद्धसुतत्त्वायै नमो नमः । ॐ श्रीवीरभक्तविज्ञानविधानायै नमो नमः । 100 ॐ अशेषदुष्टदनुजसूदनायै नमो नमः । ॐ साक्षाच्छ्रीदक्षिणामूर्तिमनोज्ञायै नमो नमः । ॐ हयमेधाग्रसम्पूज्यमहिमायै नमो नमः । ॐ दक्षप्रजापतिसुतवेषाढ्यायै नमो नमः । ॐ सुमबाणेक्षुकोदण्डमण्डितायै नमो नमः । ॐ नित्ययौवनमाङ्गल्यमङ्गलायै नमो नमः । ॐ महादेवसमायुक्तशरीरायै नमो नमः । ॐ चतुर्विंशतितत्त्वैकस्वरूपायै नमो नमः । 108 ॥ श्रीललिताष्टोत्तरशतनामावलिः सम्पूर्णां ॥