home-vayusutha:
banner

SRI VISHNU ASHTOTTARA-SATA NAMAVALI


॥ श्रीः॥ ॥ श्रीविष्णु अष्टोत्तरशतनामावली ॥ ॐ विष्णवे नमः । ॐ लक्ष्मीपतये नमः । ॐ कृष्णाय नमः । ॐ वैकुण्ठाय नमः । ॐ गरुडध्वजाय नमः । ॐ परब्रह्मणे नमः । ॐ जगन्नाथाय नमः । ॐ वासुदेवाय नमः । ॐ त्रिविक्रमाय नमः । ॐ दैत्यान्तकाय नमः । 10 ॐ मधुरिपवे नमः । ॐ तार्क्ष्यवाहनाय नमः । ॐ सनातनाय नमः । ॐ नारायणाय नमः । ॐ पद्मनाभाय नमः । ॐ हृषीकेशाय नमः । ॐ सुधाप्रदाय नमः । ॐ माधवाय नमः । ॐ पुण्डरीकाक्षाय नमः । ॐ स्थितिकर्त्रे नमः । 20 ॐ परात्पराय नमः । ॐ वनमालिने नमः । ॐ यज्ञरूपाय नमः । ॐ चक्रपाणये नमः । ॐ गदाधराय नमः । ॐ उपेन्द्राय नमः । ॐ केशवाय नमः । ॐ हंसाय नमः । ॐ समुद्रमथनाय नमः । ॐ हरये नमः । 30 ॐ गोविन्दाय नमः । ॐ ब्रह्मजनकाय नमः । ॐ कैटभासुरमर्दनाय नमः । ॐ श्रीधराय नमः । ॐ कामजनकाय नमः । ॐ शेषशायिने नमः । ॐ चतुर्भुजाय नमः । ॐ पाञ्चजन्यधराय नमः । ॐ श्रीमते नमः । ॐ शार्ङ्गपाणये नमः । 40 ॐ जनार्दनाय नमः । ॐ पीताम्बरधराय नमः । ॐ देवाय नमः । ॐ सूर्यचन्द्रविलोचनाय नमः । ॐ मत्स्यरूपाय नमः । ॐ कूर्मतनवे नमः । ॐ क्रोडरूपाय नमः । ॐ नृकेसरिणे नमः । ॐ वामनाय नमः । ॐ भार्गवाय नमः । 50 ॐ रामाय नमः । ॐ बलिने नमः । ॐ कल्किने नमः । ॐ हयाननाय नमः । ॐ विश्वम्भराय नमः । ॐ शिशुमाराय नमः । ॐ श्रीकराय नमः । ॐ कपिलाय नमः । ॐ ध्रुवाय नमः । ॐ दत्तत्रेयाय नमः । 60 ॐ अच्युताय नमः । ॐ अनन्ताय नमः । ॐ मुकुन्दाय नमः । ॐ दधिवामनाय नमः । ॐ धन्वन्तरये नमः । ॐ श्रीनिवासाय नमः । ॐ प्रद्युम्नाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ श्रीवत्सकौस्तुभधराय नमः । ॐ मुरारातये नमः । 70 ॐ अधोक्षजाय नमः । ॐ ऋषभाय नमः । ॐ मोहिनीरूपधारिणे नमः । ॐ सङ्कर्षणाय नमः । ॐ पृथवे नमः । ॐ क्षीराब्धिशायिने नमः । ॐ भूतात्मने नमः । ॐ अनिरुद्धाय नमः । ॐ भक्तवत्सलाय नमः । ॐ नराय नमः । 80 ॐ गजेन्द्रवरदाय नमः । ॐ त्रिधाम्ने नमः । ॐ भूतभावनाय नमः । ॐ श्वेतद्वीपसुवास्तव्याय नमः । ॐ सनकादिमुनिध्येयाय नमः । ॐ भगवते नमः । ॐ शङ्करप्रियाय नमः । ॐ नीलकान्ताय नमः । ॐ धराकान्ताय नमः । ॐ वेदात्मने नमः । 90 ॐ बादरायणाय नमः । ॐ भागीरथीजन्मभूमिपादपद्माय नमः । ॐ सतां प्रभवे नमः । ॐ स्वभुवे नमः । ॐ विभवे नमः । ॐ घनश्यामाय नमः । ॐ जगत्कारणाय नमः । ॐ अव्ययाय नमः । ॐ बुद्धावताराय नमः । ॐ शान्तात्मने नमः । 100 ॐ लीलामानुषविग्रहाय नमः । ॐ दामोदराय नमः । ॐ विराड्रूपाय नमः । ॐ भूतभव्यभवत्प्रभवे नमः । ॐ आदिदेवाय नमः । ॐ देवदेवाय नमः । ॐ प्रह्लादपरिपालकाय नमः । ॐ श्रीमहाविष्णवे नमः । 108 ॥ श्री विष्ण्वष्टोत्तरशतनामवलिः सम्पूर्णां ॥