Sri Vishnu Sahasranama Parayana Book II
ஸ்ரீ விஷ்ணு ஸஹஸ்ரநாம பாராயண புத்தகம் II

SrI viShNu sahasranAma stOtram, श्रीविष्णु-सहस्रनाम-स्तोत्रम्
ஸ்ரீ விஷ்ணு ஸஹஸ்ரநாம ஸ்தோத்ரம்

 

॥श्रीविष्णु-सहस्रनाम-स्तोत्रम्॥

पूर्वभागः

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत सर्व-विघ्नोपशान्तये॥१॥

यस्यद्विरदवक्त्राद्याः पारिषद्याः परश्शतम्।
विघ्‍नं निघ्नन्ति सततं विष्वकसेनं तमाश्रये॥२॥

व्यासं वसिष्ठ-नप्तारं शक्तेः पौत्र-मकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम॥३॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः॥४॥

अविकाराय शुद्धाय नित्याय परमात्मने।
सदैकरूप-रूपाय विष्णवे सर्वजिष्णवे॥५॥

यस्य स्मरण-मात्रेण जन्मसंसार-बन्धनात्।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे॥६॥
ॐ नमो विष्णवे प्रभविष्णवे।

श्रीवैशंपायन उवाच ---
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत॥७॥

युधिष्ठिर उवाच ---
किमेकं दैवतं लोके किं वाऽप्येकं परायणं।
स्तुवन्तः कं कमर्चन्तः प्राप्‍नुयुर्मानवाः शुभम्॥८॥

को धर्मः सर्वधर्माणां भवतः परमो मतः।
किं जपन् मुच्यते जन्तुर्जन्मसंसारबन्धनात्॥९॥

श्री भीष्म उवाच ---
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः॥१०॥

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च॥११॥

अनादि निधनं विष्णुं सर्वलोक महेश्वरम्।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत्॥१२॥

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्ति-वर्धनम्।
लोकनाथं महद्भूतं सर्व भूत भवोद्भवम्॥१३॥

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः।
यद्भक्त्या पुण्डरीकाक्षं स्तवै-रर्चेन् नरः सदा॥१४॥

परमं यो महत्तेजः परमं यो महत्तपः।
परमं यो महद्ब्रह्म परमं यः परायणम्॥१५॥

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्।
दैवतं देवतानां च भूतानां योऽव्ययः पिता॥१६॥

यतः सर्वाणि भूतानि भवन्त्यादि युगागमे।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये॥१७॥

तस्य लोक प्रधानस्य जगन्नाथस्य भूपते।
विष्णोर्नामसहस्रं मे श्रुणु पापभयापहम्॥१८॥

यानि नामानि गौणानि विख्यातानि महात्मनः।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये॥१९॥

ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः।
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः॥२०॥

अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते॥२१॥

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम्।
अनेक रूपदैत्यान्तं नमामि पुरुषोत्तमं॥२२॥

॥पूर्वन्यासः॥

अस्य श्रीविष्णोर्दिव्य सहस्रनाम स्तोत्र महामन्त्रस्य। श्री वेदव्यासो भगवान् ऋषिः। अनुष्टुप् छन्दः। श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता। अमृतांशूद्भवो भानुरिति बीजम्। देवकीनन्दनः स्रष्‍टेति शक्तिः। उद्भवः क्षोभणो देव इति परमो मन्त्रः। शङ्‍खभृन्नन्दकी चक्रीति कीलकम्। शार्ङ्गधन्वा गदाधर इत्यस्त्रम्। रथाङगपाणिरक्षोभ्य इति नेत्रम्। त्रिसामा सामगः सामेति कवचम्। आनन्दं परब्रह्‍मेति योनिः। ऋतुः सुदर्शनः काल इति दिग्बन्धः॥ श्रीविश्वरूप इति ध्यानम्। श्री महाविष्णुप्रीत्यर्थे सहस्रनाम जपे विनियोगः॥

॥ध्यानम्॥

क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत् सौकतेर्मौक्तिकानां

मालाक्लृप्तासनस्थः स्फटिकमणि निभैर्मौक्तिकैर्मण्डिताङ्‍गः।

शुभ्रैरभ्रैरदभ्रैरुपरिविरचितै मुक्तपीयूषवर्षैः

आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः॥१॥


भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे

कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्यवास्तेयमब्धिः।

अन्तस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः

चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि॥२॥


(ॐ नमॊ भगवते वासुदेवाय)

शान्ताकारं भुजगशयनं पद्भनाभं सुरेशं

विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्।

लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥३॥


मेघश्यामं पीतकौशेयवासं

श्रीवत्साङ्क कौस्तुभोद्भासिताङ्गम्।

पुण्योपेतं पुण्डरीकायताक्षं

विष्णुं वन्दे सर्वलोकैकनाथम्॥४॥


सशङ्ख चक्रं सकिरीटकुण्डलं

सपीतवस्त्रं सरसीरुहेक्षणम् |

सहारवक्षस्थलशॊभिकौस्तुभं

नमामि विष्णुं शिरसा चतुर्भुजम्॥५॥


छायायां पारिजातस्य हेमसिंहासनोपरि

आसीनमम्बुदश्याममायताक्षमलंकृतम् |

चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसम्

रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये॥६॥


॥स्तोत्रम् ॥

॥ॐ विश्वस्मै नमः॥

ॐ विश्वं विष्णुर्वषट्‍कारो भूतभव्यभवत्प्रभुः।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः॥१॥

पूतात्मा परमात्मा च मुक्तानां परमागतिः।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च॥२॥

योगो योगविदां नेता प्रधान-पुरुषेश्वरः।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः॥३॥

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः।
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः॥४॥

स्वयंभूः शम्भुरादित्यः पुष्कराक्षो महास्वनः।
अनादिनिधनो धाता विधाता धातुरुत्तमः॥५॥

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः॥६॥

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्॥७॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः॥८॥

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्॥९॥

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः॥१०॥

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः।
वृषाकपि-रमेयात्मा सर्वयोगविनिःसृतः॥११॥

वसुर्वसुमनाः सत्यः समात्माऽसंमितः समः।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः॥१२॥

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः।
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः॥१३॥

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः।
वेदो वेदविदव्यङ्‍गॊ वेदाङ्‍गॊ वेदवित् कविः॥१४॥

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः॥१५॥

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः॥१६॥

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः।
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः॥१७॥

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।
अतीन्द्रियो महामायो महोत्साहो महाबलः॥१८॥

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक्॥१९॥

महेष्वासो महीभर्ता श्रीनिवासः सतांगतिः।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः॥२०॥

मरीचि र्दमनो हंसः सुपर्णो भुजगोत्तमः।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः॥२१॥

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा॥२२॥

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः॥२३॥

अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्॥२४॥

आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः।
अहः संवर्तको वह्‍निरनिलो धरणीधरः॥२५॥

सुप्रसादः प्रसन्नात्मा विश्वधृग्-विश्वभुग्‌‍विभुः।
सत्कर्ता सत्कृतः साधु र्जह्‍नुर्नारायणो नरः॥२६॥

असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः॥२७॥

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः॥२८॥

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः॥२९॥

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः॥३०॥

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः॥३१॥

भूतभव्यभवन्नाथः पवनः पावनोऽनलः।
कामहा कामकृत् कान्तः कामः कामप्रदः प्रभुः॥३२॥

युगादिकृद्युगावर्तो नैकमायो महाशनः।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित्॥३३॥

इष्‍टॊऽविशिष्‍टः शिष्‍टः शिखण्डी नहुषो वृषः।
क्रोधहा क्रोधकृत् कर्ता विश्वबाहुर्महीधरः॥३४॥

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः।
अपां निधिरधिष्‍ठानमप्रमत्तः प्रतिष्‍ठितः॥३५॥

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः॥३६॥

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः।
अनुकूलः शतावर्तः पद्‍मी पद्मनिभेक्षणः॥३७॥

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्।
महर्दिॠद्धो वृद्धात्मा महाक्षो गरुडध्वजः॥३८॥

अतुलः शरभो भीमः समयज्ञो हविर्हरिः।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः॥३९॥

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः।
महीधरो महाभागो वेगवानमिताशनः॥४०॥

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः।
करणं कारणं कर्ता विकर्ता गहनो गुहः॥४१॥

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः।
परर्द्धिः परमः स्पष्टस्तुष्‍टः पुष्‍टः शुभेक्षणः॥४२॥

रामो विरामो विरतॊ मार्गो नेयो नयोऽनयः।
वीरः शक्तिमतांश्रेष्‍ठॊ धर्मो धर्मविदुत्तमः॥४३॥

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः।
हिरण्यगर्भः शत्रुघ्‍नॊ व्याप्तो वायुरधोक्षजः॥४४॥

ऋतुः सुदर्शनः कालः परमेष्‍ठी परिग्रहः।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः॥४५॥

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम्।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः॥४६॥

अनिर्विण्णः स्थविष्‍ठॊऽभूर्धर्मयूपो महामखः।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः॥४७॥

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्॥४८॥

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः॥४९॥

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः॥५०॥

धर्मगुब् धर्मकृद् धर्मी सदसत् क्षरमक्षरम्।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः॥५१॥

गभस्तिनेमिः सत्वस्थः सिंहो भूतमहेश्वरः।
आदिदेवो महादेवो देवेशो देवभृद्‍गुरुः॥५२॥

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः॥५३॥

सोमपोऽमृतपः सोमः पुरुजित् पुरुसत्तमः।
विनयो जयः सत्यसन्धो दाशार्हः सात्त्वतांपतिः॥५४॥

जीवो विनयितासाक्षी मुकुन्दोऽमितविक्रमः।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः॥५५॥

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः॥५६॥

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः।
त्रिपदस्त्रिदशाध्यक्षो महाश्रृङ्‍गः कृतान्तकृत्॥५७॥

महावराहो गोविन्दः सुषेणः कनकाङ्गदी।
गुह्‍यॊ गभीरो गहनो गुप्तश्चक्रगदाधरः॥५८॥

वेधाः स्वाङ्‍गॊऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः॥५९॥

भगवान् भगहाऽऽनन्दी वनमाली हलायुधः।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः॥६०॥

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः।
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः॥६१॥

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्।
संन्यासकृच्छमः शान्तो निष्‍ठा शान्तिः परायणम्॥६२॥

शुभाङ्‍गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः।
गोहितो गोपतिर्गोप्‍ता वृषभाक्षो वृषप्रियः॥६३॥

अनिवर्ती निवृत्तात्मा संक्षेप्‍ता क्षेमकृच्छिवः।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः॥६४॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्‍लॊकत्रयाश्रयः॥६५॥

स्वक्षः स्वङ्‍गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः॥६६॥

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः॥६७॥

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः।
अनिरुद्धोऽप्रतिरथः प्रद्युम्‍नॊऽमितविक्रमः॥६८॥

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः॥६९॥

कामदेवः कामपालः कामी कान्तः कृतागमः।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः॥७०॥

ब्रह्मण्यो ब्रह्‍मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः।
ब्रह्मविद् ब्राह्मणो ब्रह्‍मी ब्रह्मज्ञो ब्राह्मणप्रियः॥७१॥

महाक्रमो महाकर्मा महातेजा महोरगः।
महाक्रतुर्महायज्वा महायज्ञो महाहविः॥७२॥

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः।
पूर्णः पूरयिता पुण्यः पुण्यकीर्ति रनामयः॥७३॥

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः॥७४॥

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः।
शूरसेनो यदुश्रेष्‍ठः सन्निवासः सुयामुनः॥७५॥

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः।
दर्पहा दर्पदो दृप्‍तॊ दुर्धरोऽथापराजितः॥७६॥

विश्वमूर्ति-र्महामूर्ति-र्दीप्तमूर्ति-रमूर्तिमान्।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः॥७७॥

एको नैकः सवः कः किं यत्तत् पदमनुत्तमम्।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः॥७८॥

सुवर्णवर्णो हेमाङ्‍गॊ वराङ्गश्चन्दनाङ्गदी।
वीरहा विषमः शून्यो घृताशीरचलश्चलः॥७९॥

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः॥८०॥

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः।
प्रग्रहो निग्रहो व्यग्रो नैकश्रृङ्‍गॊ गदाग्रजः॥८१॥

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्॥८२॥

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा॥८३॥

शुभाङ्‍गॊ लोकसारङ्‍गः सुतन्तुस्तन्तुवर्धनः।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः॥८४॥

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः।
अर्को वाजसनः श्रृङ्‍गी जयन्तः सर्वविज्जयी॥८५॥

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः।
महाह्रदो महागर्तो महाभूतो महानिधिः॥८६॥

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः।
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः॥८७॥

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः।
न्यग्रोधोऽदुम्बरोऽश्वत्थः चाणूरान्ध्रनिषूदनः॥८८॥

सहस्रार्चिः सप्तजिह्‍वः सप्तैधाः सप्तवाहनः।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः॥८९॥

अणुर्बृहत् कृशः स्थूलो गुणभृ-न्निर्गुणो महान्।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः॥९०॥

भारभृत् कथितो योगी योगीशः सर्वकामदः।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः॥९१॥

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः॥९२॥

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः॥९३॥

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः।
रविर्विरोचनः सूर्यः सविता रविलोचनः॥९४॥

अनन्तो हुतभुग्भोक्ता सुखदो नैकदॊऽग्रजः।
अनिर्विण्णः सदामर्षी लोकाधिष्‍ठानमद्भुतः॥९५॥

सनात् सनातनतमः कपिलः कपिरव्ययः।
स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः॥९६॥

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः॥९७॥

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः॥९८॥

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः॥९९॥

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः॥१००॥

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः।
जननो जनजन्मादिर्भीमो भीमपराक्रमः॥१०१॥

आधारनिलयोऽधाता पुष्पहासः प्रजागरः।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः॥१०२॥

प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः।
तत्त्वं तत्त्ववि देकात्मा जन्ममृत्युजरातिगः॥१०३॥

भूर्भुवःस्वस्तरुस्तारस्सविता प्रपितामहः।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्‍गॊ यज्ञवाहनः॥१०४॥

यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग् यज्ञसाधनः।
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च॥१०५॥

आत्मयोनिः स्वयंजातो वैखानः सामगायनः।
देवकीनन्दनः स्रष्‍टा क्षितीशः पापनाशनः॥१०६॥

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः॥१०७॥

सर्वप्रहरणायुध ॐ नम इति।

वनमाली गदी शार्ङ्‍गी शङ्‍खी चक्री च नन्दकी।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु॥१०८॥

श्री वासुदेवोऽभिरक्षतु ॐ नम इति।

उत्तर भागः

फलश्रुतिः

इतीदं कीर्तनीयस्य केशवस्य महात्मनः।
नाम्‍नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्॥१॥

य इदं श्रृणुयान्नित्यं यश्चापि परिकीर्तयेत्।
नाशुभं प्राप्‍नुयात् किञ्चित्सोऽमुत्रेह च मानवः॥२॥

वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत्।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्‍नुयात्॥३॥

धर्मार्थी प्राप्‍नुयाद्धर्ममर्थार्थी चार्थमाप्‍नुयात्।
कामानवाप्‍नुयात् कामी प्रजार्थी चाप्‍नुयात् प्रजाम्॥४॥

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः।
सहस्रं वासुदेवस्य नाम्‍नामेतत् प्रकीर्तयेत्॥५॥

यशः प्राप्‍नॊति विपुलं ज्ञातिप्राधान्यमेव च।
अचलां श्रियमाप्‍नॊति श्रेयः प्राप्‍नॊत्यनुत्तमम्॥६॥

न भयं क्‍वचिदाप्‍नॊति वीर्यं तेजश्च विन्दति।
भवत्यरोगो द्युतिमान् बलरूपगुणान्वितः॥७॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः॥८॥

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः॥९॥

वासुदेवाश्रयो मर्त्यो वासुदेव परायणः।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्॥१०॥

न वासुदेवभक्तानामशुभं विद्यते क्वचित्।
जन्म मृत्यु जरा व्याधि भयं नैवोपजायते॥११॥

इमं स्तवमधीयानः श्रद्धा भक्ति समन्वितः।
युज्येतात्म सुख-क्षान्ति श्री धृति स्मृति कीर्तिभिः॥१२॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे॥१३॥

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः।
वासुदेवस्य वीर्येण विधृतानि महात्मनः॥१४॥

ससुरासुर-गन्धर्वं सयक्षोरग राक्षसम्।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम्॥१५॥

इन्द्रियाणि मनो बुद्धिः सत्वं तेजो बलं धृतिः।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च॥१६॥

सर्वागमानामाचारः प्रथमं परिकल्पते।
आचार प्रभवो धर्मो धर्मस्य प्रभुरच्युतः॥१७॥

ऋषयः पितरो देवा महाभूतानि धातवः।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम्॥१८॥

योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म च।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात्॥१९॥

एको विष्णु र्महद्भूतं पृथग्भूतान्यनेकशः।
त्रींल्‍लॊकान् व्याप्य भूतात्मा भुङ्‍क्ते विश्वभुगव्ययः॥२०॥

इमं स्तवं भगवतो विष्णो र्व्यासेन कीर्तितम्।
पठेद्य इच्छेत् पुरुषः श्रेयः प्राप्‍तुं सुखानि च॥२१॥

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम्॥२२॥
न ते यान्ति पराभवम ॐ नम इति।

अर्जुन उवाच ---
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम।
भक्तानामनुरक्तानां त्राता भव जनार्दन॥२३॥

श्रीभगवानुवाच ---
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव।
सोऽहमेकेन श्लोकेन स्तुत एव न संशयः॥२४॥
स्तुत एव न संशय ॐ नम इति।

व्यास उवाच ---
वासनाद्वासुदेवस्य वासितं भुवनत्रयम्।
सर्वभूत निवासोऽसि वासुदेव नमोऽस्तु ते॥२५॥
श्री वासुदेव नमोऽस्तुत ॐ नम इति।

पार्वत्युवाच ---
केनोपायेन लघुना विष्णो र्नामसहस्रकम।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो॥२६॥

ईश्वर उवाच ---
श्रीराम राम रामेति रमे रामे मनोरमे।
सहस्रनाम तत्तुल्यं राम नाम वरानने॥२७॥
श्री राम नाम वरानन ॐ नम इति।

ब्रह्मोवाच ---
नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्र-पादाक्षि-शिरोरु-बाहवे।
सहस्रनाम्‍ने पुरुषाय शाश्वते सहस्रकोटि युगधारिणे नमः॥२८॥
सहस्रकोटि युगधारिणे ॐ नम इति।

सञ्जय उवाच ---
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥२९॥

श्रीभगवानुवाच ---
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥३०॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय संभवामि युगे युगे॥३१॥

आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः।
संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्तु॥३२॥

कायेन वाचा मनसेंद्रियैर्वा बुद्ध्‍याऽऽत्मना वा प्रकृतिः स्वभावात्।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि॥३३॥

॥ इति श्री महाभारते शतसहस्रिकायां संहितायां वैयासिक्यामानुशासनिक पर्वणि श्रीभीष्मयुधिष्‍ठिरसंवादे श्री विष्णुसहस्रनामस्तोत्रं संपूर्णम् ॥



 



திருப்புக....

 

|| ஸ்ரீ விஷ்ணு ஸஹஸ்ரநாம ஸ்தோத்ரம் ||

பூர்வ பாக:

சுக்லாம்பரதரம் விஷ்ணும்
சசிவர்ணம் சதுர்ப்புஜம் |
ப்ரஸன்ன வதனம் த்யாயேத்
ஸர்வ-விக்நோப சாந்தயே || 1

யஸ்ய த்விரத வக்த்ராத்யா:
பாரிஷத்யா: பரச்சதம் |
விக்னம் னிக்நந்தி ஸததம்
விஷ்வக்ஸேனம் தமாச்ரயே || 2

வ்யாஸம் வஸிஷ்டநப்தாரம்
சக்தே: பெளத்ரமகல்மஷம் |
பராசராத்மஜம் வந்தே
சுகதாதம் தபோனிதிம் || 3

வ்யாஸாய விஷ்ணுரூபாய
வ்யாஸரூபாய விஷ்ணவே |
நமோ வை ப்ரஹ்மனிதயே
வாஸிஷ்டாய நமோ நம: || 4

அவிகாராய சுத்தாய
நித்யாய பரமாத்மனே |
ஸதைகரூப-ரூபாய
விஷ்ணவே ஸர்வஜிஷ்ணவே || 5

யஸ்ய ஸ்மரணமாத்ரேண
ஜன்மஸம்ஸார-பந்தனாத் |
விமுச்யதே நமஸ்தஸ்மை
விஷ்ணவே ப்ரபவிஷ்ணவே || 6
ஓம் நமோ விஷ்ணவே ப்ரபவிஷ்ணவே

ஸ்ரீவைசம்பாயன உவாச :-
ச்ருத்வா தர்மானசேஷேண
பாவனானி ச ஸர்வச: |
யுதிஷ்டிர: சாந்தனவம்
புனரேவாப்யபாஷத || 7

யுதிஷ்டிர உவாச:-
கிமேகம் தைவதம் லோகே
கிம் வாப்யேகம் பராயணம் |
ஸ்துவந்த: கம் கமர்ச்சந்த:
ப்ராப்னுயுர் மானநவா:சுபம் || 8

கோ தர்ம: ஸர்வதர்மாணாம்
பவத: பரமோ மத: |
கிம் ஜபன் முச்யதே ஜந்துர்
ஜன்மஸம்ஸார பந்தனாத் || 9

ஸ்ரீ பீஷ்ம உவாச:-
ஜகத் ப்ரபும் தேவதேவ
மனந்தம் புருஷோத்தமம் |
ஸ்துவந் நாமஸஹஸ்ரேண
புருஷ: ஸததோத்தித: || 10

தமேவ சார்ச்சயந்னித்யம்
பக்த்யா புருஷமவ்யயம் |
த்யாயன் ஸ்துவந் நமஸ்யம்ச்ச
யஜமானஸ்தமேவ ச || 11

அனாதினிதனம் விஷ்ணும்
ஸர்வலோக மஹேச்வரம் |
லோகாத்யக்ஷம் ஸ்துவந்னித்யம்
ஸர்வது:க்காதிகோ பவேத் || 12

ப்ரஹ்மண்யம் ஸர்வதர்மஜ்ஞம்
லோகானாம் கீர்த்திவர்தனம் |
லோகநாதம் மஹத்பூதம்
ஸர்வபூத-பவோத்பவம் || 13

ஏஷ மே ஸர்வதர்மாணாம்
தர்மோsதிகதமோ மத: |
யத்பக்த்யா புண்டரீகாக்ஷம்
ஸ்தவை-ரர்சேந்-நர:ஸதா || 14

பரமம் யோ மஹத்தேஜ:
பரமம் யோ மஹத்தப: |
பரமம் யோ மஹத்ப்ரஹ்ம
பரமம் ய:பராயணம் || 15

பவித்ராணாம் பவித்ரம் யோ
மங்களானாம் ச மங்களம் |
தைவதம் தேவதானாம் ச
பூதானாம் யோऽவ்யய: பிதா || 16

யத: ஸர்வாணி பூதானி
பவந்த்யாதி யுகாகமே |
யஸ்மிம்ச்ச ப்ரளயம் யாந்தி
புனரேவ யுகக்ஷயே 17

தஸ்ய லோகப்ரதானஸ்ய
ஜகந்நாதஸ்ய பூபதே |
விஷ்ணோர் நாம ஸஹஸ்ரம் மே
ச்ருணு பாபபயாபஹம் || 18

யானி நாமானி கெளணானி
விக்யாதானி மஹாத்மன: |
ரிஷிபி: பரிகீதானி
தானி வக்ஷ்யாமி பூதயே || 19

ரிஷிர் நாம்னாம் ஸஹஸ்ரஸ்ய
வேதவ்யாஸோ மஹாமுனி: |
சந்தோऽனுஷ்டுப் ததா தேவோ
பகவான் தேவகீஸுத: || 20

அம்ருதாம் சூத்பவோ பீஜம்
சக்திர்தேவகிநந்தன: |
த்ரிஸாமா ஹ்ருதயம் தஸ்ய
சாந்த்யர்த்தே விநியுஜ்யதே || 21

விஷ்ணும் ஜிஷ்ணும் மஹாவிஷ்ணும்
ப்ரபவிஷ்ணும் மஹேச்வரம்|
அநேகரூப தைத்யாந்தம்
நமாமி புருஷோத்தமம் || 22

|| பூர்வ ந்யாஸ: ||

அஸ்ய ஸ்ரீ விஷ்ணோர் திவ்ய ஸஹஸ்ரநாம
ஸ்தோத்ர மஹா மந்த்ரஸ்ய |
ஸ்ரீ வேத வ்யாஸோ பகவான் ரிஷி: |
அநுஷ்டுப்சந்த: |
ஸ்ரீ மஹாவிஷ்ணு: பரமாத்மா
ஸ்ரீமந் நாராயணோ தேவதா |
அம்ருதாம்சூத்பவோ பானுரிதி பீஜம் |
தேவகீ நந்தன: ஸ்ரஷ்டேதி சக்தி: |
உத்பவ: க்ஷோபணோ தேவ
இதிபரமோ மந்த்ர: |
சங்கப்ருந் நந்தகீ சக்ரீதி கீலகம் |
சார்ங்கதன்வா கதாதர இத்யஸ்த்ரம் |
ரதாங்கபாணி ரக்ஷோப்ய இதி நேத்ரம் |
த்ரிஸாமா ஸாமக: ஸாமேதி கவசம் |
ஆனந்தம் பரப்ரஹ்மேதி யோனி: |
ருது : ஸுதர்சன: கால இதி திக் பந்த: |
ஸ்ரீவிச்வரூப இதி த்யானம் |
ஸ்ரீமஹாவிஷ்ணு ப்ரீத்யர்தே
ஸஹஸ்ரநாம ஜபே வினியோக: |

த்யானம்

க்ஷீரோ தன்வத் ப்ரதேசே சுசி மணி-விலஸத்
-ஸைகதேமெளக்திகானாம்
மாலாக்லுப்தாஸனஸ்த: ஸ்படிகமணி-நிபைர்
-மெளக்திகைர் மண்டிதாங்க: |
சுப்ரை-ரப்ரை-ரதப்ரை-ருபரிவிரசிதைர்
-முக்த பீயூஷ வர்ஷை:
ஆனந்தீ ந: புனீயா-தரிநளின-கதா
-சங்க-பாணிர் முகுந்த: || 1

பூ: பாதெள யஸ்ய நாபிர்-வியதஸுர-நிலச்-
-சந்த்ர ஸூர்யெள ச நேத்ரே
கர்ணா வாசா: சிரோ த்யெளர்-முகமபி தஹனோ
-யஸ்ய வாஸ்தேயமப்தி: |
அந்தஸ்தம் யஸ்ய விச்வம் ஸுர-நர-கக-கோ
-போகி-கந்தர்வ-தைத்யை:
சித்ரம் ரம்ரம்யதே தம் த்ரிபுவன வபுஷம்
-விஷ்ணுமீசம் நமாமி || 2
[ஓம் நமோ பகவதே வாஸுதேவாய]

சாந்தாகாரம் புஜகசயனம் பத்மநாபம் ஸுரேசம்
விச்வாதாரம் ககன ஸத்ருசம் மேகவர்ணம் சுபாங்கம் |
லக்ஷ்மீகாந்தம் கமலநயனம் யோகிஹ்ரு த்யான-கம்யம்
வந்தே விஷ்ணும் பவபயஹரம் ஸர்வலோகைகநாதம்||3

மேகச்யாமம் பீதகெளசேயவாஸம்
ஸ்ரீவத்ஸாங்கம் கெளஸ்துபோத்பாஸிதாங்கம் |
புண்யோபேதம் புண்டரீகாயதாக்ஷம்
விஷ்ணும் வந்தே ஸர்வலோகைக நாதம் || 4

ஸசங்க-சக்ரம்-ஸகிரீட-குண்டலம்
ஸபீத வஸ்த்ரம் ஸரஸீருஹேக்ஷணம் |
ஸஹார-வக்ஷஸ்ஸ்தல-சோபி-கெளஸ்துபம்
நமாமி விஷ்ணும் சிரஸா சதுர்புஜம் || 5

சாயாயம் பாரிஜாதஸ்ய ஹேமஸிம்ஹாஸனோபரி |
ஆஸீன-மம்புத-ச்யாமம்-ஆயதாக்ஷமலங்க்ருதம் ||
சந்த்ரானனம் சதுர்பாஹும் ஸ்ரீவத்ஸாங்கித வக்ஷஸம் |
ருக்மிணீ-ஸத்யபாமாப்யாம்
ஸஹிதம் க்ருஷ்ணமாச்ரயே || 6

|| ஸ்தோத்ரம் ||

ஓம் விச்வஸ்மை நம:

விச்வம் விஷ்ணுர் வஷட்காரோ
பூதபவ்ய-பவத்ப்ரபு: |
பூதக்ருத்-பூதப்ருத்-பாவோ
பூதாத்மா பூதாபாவன: || 1

பூதாத்மா பரமாத்மா ச
முக்தானாம் பரமாகதி: |
அவ்யய: புருஷ: ஸாக்ஷீ
க்ஷேத்ரஜ்ஞோऽக்ஷர ஏவ ச || 2

யோகோ யோகவிதாம்நேதா
ப்ரதான-புருஷேஸ்வர: |
நாரஸிம்ஹவபு: ஸ்ரீமான்
கேசவ: புருஷோத்தம: || 3

ஸர்வ: சர்வ: சிவ: ஸ்தாணுர்
-பூதாதிர்-நிதி-ரவ்யய: |
ஸம்பவோ பாவனோ பர்த்தா
ப்ரபவ: ப்ரபுரீச்வர: || 4

ஸ்வயம்பூ: சம்பு-ராதித்ய:
புஷ்கராக்ஷோ மஹாஸ்வன: |
அனாதிநிதநோ தாதா
விதாதா தாதுருத்தம: || 5

அப்ரமேயோ ஹ்ரஷீகேச:
பத்மநாபோऽமரப்ரபு: |
விச்வகர்மா மனுஸ் த்வஷ்டா
ஸ்தவிஷ்ட: ஸ்தவிரோத்ருவ: || 6

அக்ராஹ்ய: சாச்வத: க்ருஷ்ணோ
லோஹிதாக்ஷ: ப்ரதர்தன: |
ப்ரபூதஸ் த்ரிககுப்தாம
பவித்ரம் மங்களம் பரம் || 7

ஈசான: ப்ராணத: ப்ராணோ
ஜ்யேஷ்ட: ச்ரேஷ்ட: ப்ரஜாபதி: |
ஹிரண்யகர்ப்போ பூகர்ப்போ
மாதவோ மதுஸூதன: || 8

ஈச்வரோ விக்ரமீ தன்வீ
மேதாவீ விக்ரம: க்ரம: |
அனுத்தமோ துராதர்ஷ:
க்ருதஜ்ஞ: க்ருதிராத்மவான் || 9

ஸுரேச: சரணம் சர்ம
விச்வரேதா: ப்ரஜாபவ: |
அஹ: ஸம்வத்ஸரோ வ்யாள:
ப்ரத்யய: ஸர்வதர்சன: || 10

அஜ: ஸர்வேச்வர: ஸித்த:
ஸித்தி: ஸர்வாதி-ரச்யுத: |
வ்ருஷாகபி-ரமேயாத்மா
ஸர்வயோக வினி: ஸ்ருத: || 11

வஸுர்-வஸுமனா: ஸத்ய:
ஸமாத்மாऽஸம்மித: ஸம: |
அமோக: புண்டரீகாக்ஷோ
வ்ருஷகர்மா வ்ருஷா க்ருதி: || 12

ருத்ரோ பஹுசிரா பப்ருர்
விச்வயோனி: சுசிச்ரவா: |
அம்ருத: சாச்வதஸ்தாணுர்
வராரோஹோ மஹாதபா: || 13

ஸர்வக: ஸர்வவித் பானுர்
விஷ்வக்ஸேனோ ஜநார்தன: |
வேதோ வேதவிதவ்யங்கோ
வேதாங்கோ வேதவித்கவி: || 14

லோகாத்யக்ஷ: ஸுராத்யக்ஷோ
தர்மாத்யக்ஷ: க்ருதாக்ருத: |
சதுராத்மா சதுர்வ்யூஹச்
சதுர்தம்ஷ்ட்ரச் சதுர்புஜ: || 15

ப்ராஜிஷ்ணுர் போஜனம் போக்தா
ஸஹிஷ்ணுர் ஜகதாதிஜ: |
அனகோ விஜயோ ஜேதா
விச்வயோனி: புனர்வஸு: || 16

உபேந்த்ரோ வாமன: ப்ராம்சு
-ரமோக: சுசிரூர்ஜித: |
அதீந்த்ர: ஸங்க்ரஹ: ஸர்கோ
த்ருதாத்மா நியமோயம: || 17

வேத்யோ வைத்ய: ஸதாயோகீ
வீரஹா மாதவோ மது: |
அதீந்த்ரியோ மஹாமாயோ
மஹோத்ஸாஹோ மஹாபல: || 18

மஹாபுத்திர் மஹாவீர்யோ
மஹாசக்திர் மஹாத்யுதி: |
அநிர்த்தேச்யவபு: ஸ்ரீமா-
-னமேயாத்மா மஹாத்ரித்ருக் || 19

மஹேஷ்வாஸோ மஹீபர்த்தா
ஸ்ரீநிவாஸ: ஸதாங்கதி: |
அநிருத்த: ஸுராநந்தோ
கோவிந்தோ கோவிதாம்பதி: || 20

மரீசிர்-தமனோ ஹம்ஸ:
ஸுபர்ணோ புஜகோத்தம: |
ஹிரண்யநாப: ஸுதபா:
பத்மநாப: ப்ரஜாபதி: || 21

அம்ருத்யு: ஸர்வத்ருக் ஸிம்ஹ:
ஸந்தாதா ஸந்திமாந் ஸ்திர: |
அஜோ துர்மர்ஷண: சாஸ்தா
விச்ருதாத்மா ஸுராரிஹா || 22

குருர் குருதமோ தாம
ஸத்ய: ஸத்யபராக்ரம: |
நிமிஷோऽநிமிஷ: ஸ்ரக்வீ
வாசஸ்பதி ருதாரதீ: || 23

அக்ரணீர்-க்ராமணீ: ஸ்ரீமான்
ந்யாயோ நேதாஸமீரண: |
ஸஹஸ்ரமூர்த்தா விச்வாத்மா
ஸஹஸ்ராக்ஷ: ஸஹஸ்ரபாத் || 24

ஆவர்த்தனோ நிவ்ருத்தாத்மா
ஸம்வ்ருத: ஸம்ப்ரமர்தன: |
அஹ: ஸம்வர்த்தகோ வஹ்னிர
-நிலோ தரணீதர: || 25

ஸுப்ரஸாத: ப்ரஸந்நாத்மா
விச்வத்ருக் விச்வபுக் விபு: |
ஸத்கர்த்தா ஸத்க்ருத: ஸாதுர்
ஜஹ்னுர் நாராயணோ நர: || 26

அஸங்க்யேயோऽப்ரமேயாத்மா
விசிஷ்ட: சிஷ்டக்ருச் சுசி: |
ஸித்தார்த்த: ஸித்தஸங்கல்ப:
ஸித்தித: ஸித்திஸாதன: || 27

வ்ருஷாஹீ வ்ருஷபோ விஷ்ணுர்
வ்ருஷபர்வாவ்ருஷோதர: |
வர்த்தனோ வர்த்தமாநஸ்ச
விவிக்த: ச்ருதிஸாகர: || 28

ஸுபுஜோ துர்த்தரோவாக்மீ
மஹேந்த்ரோ வஸுதோ வஸு: |
நைகரூபோ ப்ருஹத்ரூப:
சிபிவிஷ்ட: ப்ரகாசன: || 29

ஓஜஸ்தேஜோ த்யுதிதர:
ப்ரகாசாத்மா ப்ரதாபன: |
ருத்த: ஸ்பஷ்டாக்ஷரோ மந்த்ரச்-
சந்த்ராம் சுர் பாஸ்கரத்யுதி: || 30

அம்ருதாம்சூத்பவோ பானு:
சசபிந்து: ஸுரேச்வர: |
ஒளஷதம் ஜகத: ஸேது:
ஸத்யதர்ம பராக்ரம: || 31

பூத்பவ்யபவந்நாத:
பவன: பாவநோऽநல: |
காமஹா காமக்ருத் காந்த:
காம: காமப்ரத: ப்ரபு: || 32

யுகாதிக்ருத் யுகாவர்த்தோ
நைகமாயோ மஹாசன: |
அத்ருச்யோ வ்யக்தரூபச்ச
ஸஹஸ்ரஜி தனந்தஜித் || 33

இஷ்டோऽவிசிஷ்ட: சிஷ்டேஷ்ட:
சிகண்டீ நஹுஷோவ்ருஷ: |
க்ரோதஹா க்ரோதக்ருத் கர்த்தா
விச்வ பாஹுர் மஹீதர: || 34

அச்யுத: ப்ரதித: ப்ராண:
ப்ராணதோ வாஸவானுஜ: |
அபாம்நிதி ரதிஷ்டான-
-மப்ரமத்த: ப்ரதிஷ்டித: || 35

ஸ்கந்த: ஸ்கந்ததரோ துர்யோ
வரதோ வாயுவாஹன: |
வாஸுதேவோ ப்ரஹத்பானு-
-ராதிதேவ: புரந்தர: || 36

அசோகஸ் தாரணஸ் தார:
சூரச் செளரிர் ஜனேச்வர: |
அநுகூலச் சதாவர்த்த:
பத்மீ பத்மனிபேக்ஷண: || 37

பத்மநாபோऽரவிந்தாக்ஷ:
பத்மகர்ப்ப: சரீரப்ருத் |
மஹர்த்திர்ருத்தோ வ்ருத்தாத்மா
மஹாக்ஷோ கருடத்வஜ: || 38

அதுல: சரபோ பீம:
ஸமயஜ்ஞோ ஹவிர் ஹரி: |
ஸர்வலக்ஷண லக்ஷண்யோ
லக்ஷ்மீவான் ஸமிதிஞ்ஜய: || 39

விக்ஷரோ ரோஹிதோ மார்க்கோ
ஹேதுர்தாமோதர: ஸஹ: |
மஹீதரோ மஹாபாகோ
வேகவானமிதாசன: || 40

உத்பவ: க்ஷோபணோ தேவ:
ஸ்ரீகர்ப்ப: பரமேச்வர: |
கரணம் காரணம் கர்த்தா
விகர்த்தா கஹனோ குஹ: || 41

வ்யவஸாயோ வ்யவஸ்தான:
ஸம்ஸ்தான: ஸ்தானதோ த்ருவ: |
பரர்த்தி: பரமஸ்பஷ்டஸ்
துஷ்ட: புஷ்ட: சுபேக்ஷண: || 42

ராமோ விரோமோ விரதோ
மார்க்கோ நேயோ நயோऽநய: |
வீர: சக்திமதாம் ஸ்ரேஷ்டோ
தர்மோ தர்மவிதுத்தம: || 43

வைகுண்ட: புருஷ: ப்ராண:
ப்ராணத: ப்ரணவ: ப்ருது: |
ஹிரண்யகர்ப்ப: சத்ருக்னோ-
வ்யாப்தோ வாயு-ரதோக்ஷஜ: || 44

ருது: ஸுதர்சன: கால:
பரமேஷ்டீ பரிக்ரஹ: |
உக்ர: ஸம்வத்ஸரோ தக்ஷோ
விச்ராமோ விச்வதக்ஷிண: || 45

விஸ்தார: ஸ்தாவர:ஸ்தாணு:
ப்ரமாணம் பீஜ மவ்யயம்|
அர்த்தோऽனர்த்தோ மஹாகோசோ
மஹாபோகோ மஹாதன: || 46

அநிர்விண்ண: ஸ்தவிஷ்டோऽபூர்
தர்மயூபோ மஹாமக: |
நக்ஷத்ரநேமிர் நக்ஷத்ரீ
க்ஷம: க்ஷாம: ஸமீஹன: || 47

யஜ்ஞ இஜ்யோ மஹேஜ்யச்ச
க்ரது: ஸத்ரம் ஸதாங்கதி: |
ஸர்வதர்சீ விமுக்தாத்மா
ஸர்வஜ்ஞோ ஜ்ஞானமுத்தமம்|| 48

ஸுவ்ரத: ஸுமுக: ஸூக்ஷ்ம:
ஸுகோஷ: ஸுகத: ஸுஹ்ருத்|
மனோஹரோ ஜிதக்ரோதோ
வீரபாஹுர் விதாரண: || 49

ஸ்வாபன: ஸ்வவசோ வ்யாபீ
நைகாத்மா நைககர்மக்ருத்|
வத்ஸரோ வத்ஸலோ வத்ஸீ
ரத்னகர்ப்போ தனேச்வர: || 50

தர்மகுப் தர்மக்ருத் தர்மீ
ஸதஸத் க்ஷரமக்ஷரம்|
அவிஜ்ஞாதா ஸஹஸ்ராம்சுர்
விதாதா க்ருதலக்ஷண: || 51

கபஸ்திநேமி: ஸத்வஸ்த:
ஸிம்ஹோ பூத மஹேச்வர: |
ஆதிதேவோ மஹாதேவோ
தேவேசோ தேவப்ருத் குரு: || 52

உத்தரோ கோபதிர் கோப்தா
ஜ்ஞானகம்ய: புராதன: |
சரீரபூதப்ருத் போக்தா
கபீந்த்ரோ பூரிதக்ஷிண: || 53

ஸோமபோऽம்ருதப: ஸோம:
புருஜித் புருஸத்தம: |
விநயோ ஜய: ஸத்யஸந்தோ
தாசார்ஹ: ஸாத்வதாம்பதி: || 54

ஜீவோ விநயிதாஸாக்ஷீ
முகுந்தோऽமிதவிக்ரம: |
அம்போநிதி-ரனந்தாத்மா
மஹோததிசயோऽந்தக: || 55

அஜோ மஹார்ஹ: ஸ்வாபாவ்யோ
ஜிதாமித்ர: ப்ரமோதன: |
ஆனந்தோ நந்தனோ நந்த:
ஸத்யதர்மா த்ரிவிக்ரம: || 56

மஹர்ஷி: கபிலாசார்ய:
க்ருதஜ்ஞோ மேதினீபதி: |
த்ரிபதஸ்-த்ரிதசாத்யக்ஷோ
மஹாச்ருங்க: க்ருதாந்தக்ருத்|| 57

மஹாவராஹோ கோவிந்த:
ஸுஷேண: கனகாங்கதீ|
குஹ்யோ கபீரோ கஹனோ
குப்தச் சக்ரகதாதர: || 58

வேதா: ஸ்வாங்கோऽஜித: க்ருஷ்ணோ
த்ருட: ஸங்கர்ஷணோऽச்யுத: |
வருணோ வாருணோ வ்ருக்ஷ:
புஷ்கராக்ஷோ மஹாமனா: || 59

பகவான் பகஹாऽऽனந்தீ
வநமாலீ ஹலாயுத: |
ஆதித்யோ ஜ்யோதிராதித்ய:
ஸஹிஷ்ணுர் கதிஸத்தம: || 60

ஸுதன்வா கண்டபரசுர்
தாருணோ த்ரவிணப்ரத: |
திவ:ஸ்ப்ருக் ஸர்வத்ருக்வ்யாஸோ
வாசஸ்பதி ரயோநிஜ: || 61

த்ரிஸாமா ஸாமக: ஸாம
நிர்வாணம் பேஷஜம் பிஷக்|
ஸந்யாஸக்ருச் சம: சாந்தோ
நிஷ்டா சாந்தி: பராயணம்|| 62

சுபாங்க: சாந்தித: ஸ்ரஷ்டா
குமுத: குவலேசய: |
கோஹிதோ கோபதிர் கோப்தா
வ்ருஷபாக்ஷோ வ்ருஷப்ரிய: || 63

அநிவர்த்தீ நிவ்ருத்தாத்மா
ஸம்க்ஷேப்தா க்ஷேமக்ருச்சிவ: |
ஸ்ரீவத்ஸவக்ஷா: ஸ்ரீவாஸ:
ஸ்ரீபதி: ஸ்ரீமதாம்வர: || 64

ஸ்ரீத: ஸ்ரீச: ஸ்ரீனிவாஸ:
ஸ்ரீநிதி: ஸ்ரீவிபாவன: |
ஸ்ரீதர: ஸ்ரீகர: ச்ரேய:
ஸ்ரீமான் லோகத்ரயாச்ரய: || 65

ஸ்வக்ஷ: ஸ்வங்க: சதானந்தோ
நந்திர் ஜ்யோதிர்கணேச்வர: |
விஜிதாத்மாऽவிதேயாத்மா
ஸத்கீர்த்திச் சின்னஸம்சய: || 66

உதீர்ண: ஸர்வதச்-சக்ஷு-
ரனீச: சாச்வதஸ்திர: |
பூசயோ பூஷணோ பூதிர்
விசோக: சோகநாசன: || 67

அர்ச்சிஷ்மா-னர்ச்சித: கும்போ
விசுத்தாத்மா விசோதன: |
அநிருத்தோऽப்ரதிரத:
ப்ரத்யும்னோऽமிதவிக்ரம: || 68

காலநேமினிஹா வீர:
செளரி: சூரஜநேச்வர: |
த்ரலோகாத்மா த்ரிலோகேச:
கேசவ: கேசிஹா ஹரி: || 69

காமதேவ: காமபால:
காமீ காந்த: க்ருதாகம: |
அநிர்தேச்யவபுர் விஷ்ணுர்-
வீரோऽனந்தோ தனஞ்ஜய: || 70

ப்ரஹ்மண்யோ ப்ரஹ்மக்ருத் ப்ரஹ்மா
ப்ரஹ்ம ப்ரஹ்மவிவர்த்தன: |
ப்ரஹ்மவித் ப்ராஹ்மணோ ப்ரஹ்மீ
ப்ரஹ்மஞோ ப்ராஹ்மணப்ரிய: || 71

மஹாக்ரமோ மஹாகர்மா
மஹாதேஜா மஹோரக: |
மஹாக்ரதுர் மஹாயஜ்வா
மஹாயஜ்ஞோ மஹாஹவி: || 72

ஸ்தவ்ய: ஸ்தவப்ரிய: ஸ்தோத்ரம்
ஸ்துதி: ஸ்தோதா ரணப்ரிய: |
பூர்ண: பூரயிதா புண்ய:
புண்யகீர்த்தி-ரநாமய: || 73

மனோஜவஸ் தீர்த்தகரோ
வஸுரேதா வஸுப்ரத: |
வஸுப்ரதோ வாஸுதேவோ
வஸுர்-வஸுமனா ஹவி: || 74

ஸத்கதி: ஸத்க்ருதி: ஸத்தா
ஸத்பூதி: ஸத்பராயண: |
சூரஸேனோ யதுச்ரேஷ்ட:
ஸந்நிவாஸ: ஸுயாமுன: || 75

பூதாவாஸோ வாஸுதேவ:
ஸர்வாஸு னிலயோऽனல: |
தர்ப்பஹா தர்ப்பதோ த்ருப்தோ
துர்த்தரோऽதாபராஜித: || 76

விச்வமூர்த்திர் மஹாமூர்த்திர்
தீப்தமூர்த்திரமூர்த்திமான|
அநேகமூர்த்தி ரவ்யக்த:
சதமூர்த்தி: சதானன: || 77

ஏகோ நைக: ஸவ: க: கிம்
யத்தத் பதமனுத்தமம்|
லோகபந்துர் லோகநாதோ
மாதவோ பக்தவத்ஸல: || 78

ஸுவர்ணவர்ணோ ஹேமாங்கோ
வராங்கச் சந்தனாங்கதீ|
வீரஹா விஷம: சூன்யோ
க்ருதாசீ-ரசலச்-சல: || 79

அமானீ மானதோ மானயோ
லோகஸ்வாமீ த்ரிலோகத்ருத்|
ஸுமேதா மேதஜோ தன்ய:
ஸத்யமேதா தராதர: || 80

தேஜோவ்ருஷோ த்யுதிதர:
ஸர்வசஸ்த்ரப்ருதாம் வர: |
ப்ரக்ரஹோ நிக்ரஹோ வ்யக்ரோ
நைகச்ருங்கோ கதாக்ரஜ: || 81

சதுர்மூர்த்திச் சதுர்ப்பாஹுச்
சதுர்வ்யூஹச் சதுர்கதி: |
சதுராத்மா சதுர்ப்பாவச்
சதுர்வேதவிதேகபாத்|| 82

ஸமாவர்த்தோ ऽநிவ்ருத்தாத்மா
துர்ஜயோ துரதிக்ரம: |
துர்லபோ துர்கமோ துர்கோ
துராவாஸோ துராரிஹா|| 83

சுபாங்கோ லோகஸாரங்க:
ஸுதந்துஸ்-தந்துவர்த்தன: |
இந்த்ரகர்மா மஹாகர்மா
க்ருதகர்மா க்ருதாகம: || 84

உத்பவ: ஸுந்தர: ஸுந்தோ
ரத்னநாப: ஸுலோசன: |
அர்க்கோ வாஜஸன: ச்ருங்கீ
ஜயந்த: ஸர்வவிஜ்ஜயீ|| 85

ஸுவர்ணபிந்து ரக்ஷோப்ய:
ஸர்வவாகீச்வரேச்வர: |
மஹாஹ்ரதோ மஹாகர்த்தோ
மஹாபூதோ மஹாநிதி: || 86

குமுது: குந்தர: குந்த:
பர்ஜன்ய: பாவனோऽநில: |
அம்ருதாசோऽம்ருத வபு:
ஸர்வஜ்ஞ: ஸர்வதோமுக: || 87

ஸுலப: ஸுவ்ரத: ஸித்த:
சத்ருஜிச் சத்ருதாபன: |
ந்யக்ரோதோ-தும்பரோऽச்வத்தச்
-சாணூராந்த்ரநிஷூதன: || 88

ஸஹஸ்ரார்ச்சி: ஸப்தஜிஹ்வ:
ஸப்தைதா: ஸப்தவாஹன: |
அமூர்த்தி-ரனகோऽசிந்த்யோ
பயக்ருத் பயநாசன: || 89

அணுர் ப்ருஹத் க்ருச: ஸ்தூலோ
குணப்ருந் நிர்குணோ மஹான்|
அத்ருத: ஸ்வத்ருத: ஸ்வாஸ்ய:
ப்ராக்வம்சோ வம்சவர்தன: || 90

பாராப்ருத் கதிதோ யோகீ
யோகீச: ஸர்வகாமத: |
ஆச்ரம: ச்ரமண: க்ஷாம:
ஸுபர்ணோ வாயுவாஹன: || 91

தனுர்தரோ தனுர்வேதோ
தண்டோ தமயிதா தம: |
அபராஜித: ஸர்வஸஹோ
நியந்தாऽனநியமோ ऽயம: || 92

ஸத்வவான் ஸாத்விக: ஸத்ய:
ஸத்யதர்ம-பராயண: |
அபிப்ராய: ப்ரியார்ஹோऽர்ஹ:
ப்ரியக்ருத் ப்ரீதிவர்த்தன: || 93

விஹாயஸகதிர் ஜ்யோதி:
ஸுருசிர் ஹுதபுக்விபு: |
ரவிர்விரோசன: ஸூர்ய:
ஸவிதா ரவிலோசன: || 94

அனந்தோ ஹுதபுக் போக்தா
ஸுகதோ நைகஜோऽக்ரஜ: |
அநிர்விண்ண: ஸதாமர்ஷீ
லோகாதிஷ்ட்டான மத்புத: || 95

ஸநாத் ஸநாதனதம:
கபில: கபிரவ்யய: |
ஸ்வஸ்தித: ஸ்வஸ்திக்ருத் ஸ்வஸ்தி
ஸ்வஸ்திபுக் ஸ்வஸ்தி தக்ஷிண: || 96

அரெளத்ர: குண்டலீ சக்ரீ
விக்ரம்யூர்ஜிதசாஸன: |
சப்தாதிக: சப்தஸஹ:
சிசிர: சர்வரீகர: || 97

அக்ரூர: பேசலோ தக்ஷா
தக்ஷிண: க்ஷமிணாம் வர: |
வித்வத்தமோ வீதபய:
புண்யச்ரவண கீர்த்தன: || 98

உத்தாரணோ துஷ்க்ருதிஹா
புண்யோ து:ஸ்வப்னநாசன: |
வீரஹா ரக்ஷண: ஸந்தோ
ஜீவன: பர்யவஸ்தித: || 99

அனந்தரூபோऽனந்தஸ்ரீர்
ஜித மன்யுர் பயாபஹ: |
சதுரச்ரோ கபீராத்மா
விதிசோ வ்யாதிசோ திச: || 100

அனாதிர் பூர்ப்புவோ லக்ஷ்மீ:
ஸுவீரோ ருசிராங்கத: |
ஜனனோ ஜனஜன்மாதிர்
பீமோ பீம-பராக்ரம: || 101

ஆதாரநிலயோऽதாதா
புஷ்பஹாஸ: ப்ரஜாகர: |
ஊர்த்வக: ஸத்பதாசார:
ப்ராணத: ப்ரணவ: பண: || 102

ப்ரமாணம் ப்ராணநிலய:
ப்ராணப்ருத் ப்ராணஜீவன: |
தத்வம் தத்வவிதேகாத்மா
ஜன்ம-ம்ருத்யு-ஜராதிக: || 103

பூர்ப்புவ: ஸ்வஸ்தருஸ் தார:
ஸவிதா ப்ரபிதாமஹ: |
யஜ்ஞோ யஜ்ஞபதிர் யஜ்வா
யஜ்ஞாங்கோ யஜ்ஞவாஹன: || 104

யஜ்ஞப்ருத் யஜ்ஞக்ருத் யஜ்ஞீ
யஜ்ஞபுக் யஜ்ஞஸாதன: |
யஜ்ஞாந்தக்ருத்-யஜ்ஞகுஹ்ய-
-மன்னமன்னாத ஏவ ச|| 105

ஆத்மயோனி: ஸ்வயம்ஜாதோ
வைகான: ஸாமகாயன: |
தேவகீநந்தன: ஸ்ரஷ்டா
க்ஷிதீச: பாபநாசன: || 106

சங்கப்ருந்-நந்தகீ சக்ரீ
சார்ங்கதன்வா கதாதர: |
ரதாங்கபாணி ரக்ஷாப்ய:
ஸர்வ ப்ரஹரணாயுத: || 107
(ஸர்வ ப்ரஹரணாயுத ஓம் நம இதி)

வனமாலீ கதீ சார்ங்கீ
சங்கீ சக்ரீ ச நந்தகீ|
ஸ்ரீமான் நாராயணோ விஷ்ணுர்
-வாஸுதேவோऽபிரக்ஷது|| 108
ஸ்ரீ வாஸுதேவோऽபிரக்ஷது ஓம் நம இதி

உத்தர பாக:

(பலச்ருதி)

இதீதம் கீர்த்தனீயஸ்ய
கேசவஸ்ய மஹாத்மன: |
நாம்னாம் ஸஹஸ்ரம் திவ்யானா
-மசேஷேண ப்ரகீர்த்திதம்|| 1

ய இதம் ச்ருணுயாந் நித்யம்
யச்சாபி பரிகீர்த்தயேத் |
நாசுபம் ப்ராப்னுயாத் கிஞ்சித்
ஸோऽமுத்ரேஹ சமானவ: || 2

வேதாந்தகோ ப்ராஹ்மண:ஸ்யாத்
க்ஷத்ரியோ விஜயீ பவேத் |
வைச்யோ தனஸம்ருத்த: ஸ்யாச்
சூத்ர: ஸுகமவாப்னுயாத் || 3

தர்மார்த்தீ ப்ராப்னுயாத்-தர்
மமர்த்தார்த்தீ சார்த்தமாப்னுயாத் |
காமா-னவாப்னுயாத் காமீ
ப்ரஜார்த்தீ சாப்னுயாத் ப்ரஜாம் || 4

பக்திமான் ய: ஸதோத்தாய
சுசிஸ்-தத்கத-மானஸ: |
ஸஹஸ்ரம் வாஸுதேவஸ்ய
நாம்னா-மேதத் ப்ரகீர்த்தயேத் || 5

யச: ப்ராப்னோதி விபுலம்
யாதி ப்ராதான்ய மேவ ச |
அசலாம் ச்ரியமாப்னோதி ச்ரேய:
ப்ராப்னோத்யனுத்தமம் || 6

ந பயம் க்வசிதாப்னோதி
வீர்யம் தேஜச்ச விந்ததி |
பவத்யரோகோ த்யுதிமான்
பல-ரூப-குணான்வித: || 7

ரோகார்த்தோ முச்யதே ரோகாத்
-பத்தோ முச்யேத பந்தனாத் |
பயான் முச்யேத பீதஸ்து
முச்யேதாபன்ன ஆபத: || 8

துர்க்காண்-யதிதரத்யாஷு
புருஷ: புருஷோத்தமம் |
ஸ்துவந்நாம ஸஹஸ்ரேண
நித்யம் பக்தி ஸமன்வித: || 9

வாஸுதேவாச்ரயோ மர்த்யோ
வாஸுதேவ பராயண: |
ஸர்வபாப விசுத்தாத்மா
யாதி ப்ரஹ்ம ஸநாதனம் || 10

ந வாஸுதேவ பக்தானா-
-மசுபம் வித்யதே க்வசித் |
ஜன்ம்-ம்ருத்யு-ஜரா-வ்யாதி
-பயம்-நைவோபஜாயதே || 11

இமம் ஸ்தவ-மதீயான:
ச்ரத்தா-பக்தி-ஸமன்வித: |
யுஜ்யேதாத்ம-ஸுகக்ஷாந்தி-
ஸ்ரீ-த்ருதி-ஸ்ம்ருதி கீர்த்திபி: || 12

ந க்ரோதோ ந ச மாத்ஸர்யாம்-
ந லோபோ நாசுபா மதி: |
பவந்தி க்ருதபுண்யானம்
பக்தானாம் புருஷோத்தமே || 13

த்யௌ: ஸ சந்த்ரார்க்க நக்ஷத்ரா
கம் திசோ பூர்மஹோததி: |
வாஸுதேவஸ்ய வீர்யேண
வித்ருதானி மஹாத்மன: || 14

ஸ ஸுராஸுர-கந்தர்வம்
ஸயக்ஷோரக-ராக்ஷஸம் |
ஜகத்வசே வர்த்ததேதம்
க்ருஷ்ணஸ்ய ஸசராசரம் || 15

இந்த்ரியாணி மனோ புத்தி:
ஸத்வம் தேஜோ பலம் த்ருதி: |
வாஸுதேவாத்மகான்யாஹு:
க்ஷேத்ரம் க்ஷேத்ரக்ஞ ஏவச || 16

ஸர்வாகமானா-மாசார:
ப்ரதமம் பரிகல்பதே |
ஆசார-ப்ரபவோ தர்மோ
தர்மஸ்ய ப்ரபு-ரச்யுத: || 17

ருஷய: பிதரோ: தேவா:
மஹாபூதானி தாதவ: |
ஜங்கமாஜங்கமஞ் சேதம்
ஜகந்-நாராயணோத்பவம் || 18

யோகோ ஜ்ஞானம் ததா ஸாங்க்யம்
வித்யா:சில்பாதிகர்ம ச |
வேதா: சாஸ்த்ராணி விஜ்ஞானமேதத்
ஸர்வம் ஜனார்தனாத் || 19

ஏகோ விஷ்ணுர்-மஹத்பூதம்
ப்ருதக்பூதான்யநேகச: |
த்ரீன் லோகான் வ்யாப்ய பூதாத்மா
புங்க்தேவிச்வபுகவ்யய: || 20

இமம் ஸ்தவம் பகவதோ
விஷ்ணோர்வ்யாஸேன கீர்த்திதம் |
படேத் ய இச்சேத் புருஷ:
ச்ரேய: ப்ராப்தும் ஸுகானி ச || 21

விச்வேச்வர-மஜம் தேவம்
ஜகத: ப்ரபுமவ்யயம் |
பஜந்தி யே புஷ்கராக்ஷம்
ந தே யாந்தி பராபவம் || 22
ந தே யாந்தி பராபவம் ஓம் நம இதி |

அர்ஜுன உவாச - -
பத்மபத்ர விசாலாக்ஷ
பத்மநாப ஸுரோத்தம |
பக்தானா-மனுரக்தானாம்
த்ராதா பவ ஜனார்த்தன || 23

ஸ்ரீ பகவானுவாச - -
யோ மாம் நாம ஸஹஸ்ரேண
ஸ்தோது மிச்சதி பாண்டவ |
ஸோऽஹமேகேன ச்லோகேன
ஸ்துத ஏவ ந ஸம்சய: || 24
ஸ்துத ஏவ ந ஸம்சய ஓம் நம இதி |

வ்யாஸ உவாச - -
வாஸனாத் வாஸுதேவஸ்ய
வாஸிதம் புவனத்ரயம் |
ஸர்வபூத-நிவாஸாऽஸி
வாஸுதேவ நமோऽஸ்துதே || 25
ஸ்ரீ வாஸுதேவ நமோऽஸ்துத ஓம் நம இதி |

பார்வத்யுவாச - -
கேனோபாயேன லகுனா
விஷ்ணோர் நாம-ஸஹஸ்ரகம் |
பட்யதே பண்டிதைர் நித்யம்
ச்ரோதுமிச்சம்யஹம் ப்ரபோ || 26

ஈச்வர உவாச - -
ஸ்ரீ ராம ராம ராமேதி ரமே ராமே மனோரமே |
ஸஹஸ்ரநாம தத்துல்யம் ராமநாம வரானனே || 27
ஸ்ரீ ராமநாம வரானன ஓம் நம இதி |

ப்ரஹ்மோவாச - -
நமோऽஸ்த்வனந்தாய ஸஹஸ்ரமூர்த்தயே
ஸஹஸ்ரபாதாக்ஷி-சிரோருபாஹவே |
ஸஹஸ்ரநாம்னே புருஷாய சாச்வதே
ஸஹஸ்ரகோடி-யுகதாரிணே நம: || 28
ஸஹஸ்ரகோடி-யுகதாரிண ஓம் நம இதி |

ஸஞ்ஜய உவாச - -
யத்ர யோகேச்வர: க்ருஷ்ணோ
யத்ர பார்த்தோ தனுர்த்தர: |
தத்ர ஸ்ரீர்-விஜயோ பூதிர்-
-த்ருவா நீதிர்-மதிர்-மம || 29

ஸ்ரீ பகவானுவாச - -
அனன்யாச் சிந்தயந்தோ மாம்
யே ஜனா: பர்யுபாஸதே |
தேஷாம் நித்யாபியுக்தானாம்
யோகக்ஷேமம் வஹாம்யஹம் || 30

பரித்ராணாய ஸாதுனாம்
வினாஸாய ச துஷ்க்ருதாம் |
தர்ம-ஸம்ஸ்தாபனார்த்தாய
ஸம்பவாமி யுகே யுகே || 31

ஆர்த்தா விஷண்ணா: ஸிதிலாச்ச பீதா:
கோரேஷு ச வ்யாதிஷு வர்த்தமானா: |
ஸங்கீர்த்ய நாராயண-சப்தமாத்ரம்
விமுக்த து:க்கா: ஸுகினோ பவந்து || 32

காயேன வாசா மனஸேந்த்ரியைர்வா
புத்யாத்மனா வா ப்ரக்ருதே: ஸ்வபாவாத் |
கரோமி யத்யத் ஸகலம் பரஸ்மை
நாராயணாயேதி ஸம்ர்ப்பயாமி || 33

|| இதி ஸ்ரீ மஹாபாரதே சதஸஹஸ்ரிகாயாம் ஸம்ஹிதாயாம் வையாஸிக்யாம் ஆநுசாஸனிகபர்வணி ஸ்ரீ பீஷ்ம யுதிஷ்டிர ஸம்வாதே ஸ்ரீ விஷ்ணு ஸஹஸ்ரநாம ஸ்தோத்ரம் ஸம்பூர்ணம் ||

 

திருப்புக....